केचित्तु
संगतिकथनपूर्वकं पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
केचित्तु आदित्यादिशब्दानां नामपादन्यायेनोभयत्र प्रसिद्धतायामपि समन्वेतव्यानां सर्वगतत्वादीनां न सा । अन्यत्र प्रसिद्धसाहचर्येणान्यत्र प्रसिद्धिवदुभयत्र प्रसिद्धसाहचर्येणोभयत्र प्रसिद्धेरनुक्तत्वात् । सर्वगतत्वादीनामन्यत्र प्रसिद्धता त्वन्यत्रप्रसिद्धलिङ्गसाहचर्यादित्याहुः । अन्येतु भयङ्करत्वादीनामुभयत्र प्रसिद्धानेकलिङ्गानां समन्वयार्थमन्यत्र प्रसिद्धवज्रनामसमन्वयः । तथाचान्तरधिकरणवत्फलतः पादसङ्गतिः । यद्वा वज्रशब्दस्वप्नद्रष्टृत्वादेरुभयत्र प्रसिद्धभयङ्करत्वचेतनत्वादिलिङ्गसाहचर्यादुभयत्र प्रसिद्धिः । अथवा यथा ‘‘व्रीहीनवहंति तण्डुलान्पिनष्टी’’त्यादौ ‘‘व्रीहीन्प्रोक्षती’’त्यादाविव द्वितीयाश्रुत्यैव गुणकर्मत्वसिद्धेः पुनर्विचारवैयर्थ्यपरिहाराय द्वितीयामतन्त्रीकृत्य गुणकर्मत्वप्रधानकर्मत्वचिन्ता तथा वज्रादिशब्दानामन्यत्र प्रसिद्धिमतन्त्रीकृत्य विचारः । अथवा प्राणशब्दसमन्वयस्योक्तत्वादुभयत्रप्रसिद्धप्राणशब्दसाहित्या-द्वज्रशब्दस्याप्युभयत्र प्रसिद्धतेत्याहुः । अत्र पूर्ववैषम्येण वा पूर्वाक्षेपेण वा पूर्वपक्षोत्थानादनन्तरसङ्गतिः । अत्र ‘‘वज्रमुद्यतं’’ इति श्रुतौ वज्रः किमिन्द्रायुधं किं वा विष्णुरिति चिन्ता । तदर्थं किं वज्रश्रुत्योद्यतत्वलिङ्गानुसारेण कम्पकत्वादिब्रह्मलिङ्गं नेयमुत विपरीतमिति । तदर्थं ‘‘वर्जनाद्वज्र’’मिति स्मार्तेन योगेन श्रौतवज्रशब्दस्य रूढित्यागादिकं न युक्तमुत युक्तमिति ।
नन्वत्र ‘‘वज्रमुद्यत’’मिति वाक्यात्पूर्वं ‘‘तदेव शुक्रं तद्ब्रह्म तदेवामृत’’मिति, उत्तरत्र च ‘‘भयादस्याग्निस्तपति भयात्तपति सूर्यः’’ इति श्रवणाद्ब्रह्मप्रकरणमिदम् । वज्रवाक्य एव च ‘‘य एतद्विदुरमृतास्ते भवन्ती’’त्यादिनिर्णीतानि ब्रह्मलिङ्गानि सन्ति । वज्रशब्दस्त्वाकाशादिशब्दवद्ब्रह्मणि यौगिकोऽस्तु । तस्मान्न पूर्वपक्षोदय इति चेदुच्यते । यदि क्लृप्तरूढित्यागेन योगकल्पना तर्हि यस्य कस्यापि शब्दस्य यत्र क्वचनार्थे योगस्य सुवचत्वादर्थव्यवस्था न स्यात् । तथाच कम्पकत्वादिब्रह्मलिङ्गान्यपि कथञ्चिदिन्द्रायुधेऽपि स्युः । पूर्वसूत्रे तु शूद्रशब्देऽवयवार्थस्य शुचा द्रवणस्य वाक्यशेषस्थत्वाद्रूढित्यागः ।
एतेनाज्यादिशब्दप्रतिबन्दी निरस्ता । तत्र ‘‘यदाजिमीयुस्तदाज्यानामाज्यत्व’’ मिति श्रुतावेव योगोक्तेः । ज्योतिरुपक्रमादित्यत्र तु वाक्यस्यान्यपरत्वे सत्येव पदसमन्वयार्थं योगो वक्ष्यते । इह तु सिद्धान्ते वाक्यसमन्वय एवेष्टः । वर्जनाद्वज्रमित्यादिस्मृतिः श्रुतितो दुर्बला न श्रुतेरूढित्यागापादिका । आकाशादिशब्देषु तु तन्निरवकाशलिङ्गाभावात्त्यागः । अत्र तूद्यतत्वलिङ्गं लोके ‘‘उद्यतायुधदोर्दण्डा’’ इत्यादिस्मृतौ ‘‘तेनेन्द्रो वज्रमुदयच्छ’’दित्यादिश्रुतौ चायुधे प्रसिद्धम् । न च लोकवेदप्रसिद्धत्यागेन तदप्रसिद्धकल्पना युक्ता । एवं च निरवकाशलिङ्गसाहित्याद्वज्रश्रुतिरपि निरवकाशा । एतदेवाभिप्रेत्योक्तं न्यायविवरणे ‘‘वज्रशब्द उद्यतत्वलिङ्गं चे’’ति । टीकायामपि ‘‘श्रुतिलिङ्गयोरपि तथात्व’’दिति ।। यद्वा रूढित्यागेऽव्यवस्थापत्त्या लिङ्गनिरपेक्षैव श्रुतिर्निरवकाशा । आकाशादि शब्दानामपि योग इहाक्षिप्यते । अमृतत्वहेतुवेदनविषयत्वं तु श्रुतिबलाद्वज्रेऽप्यस्तु । टीकायामस्य निरवकाशत्वाङ्गीकारस्तु वज्रश्रुतिलिङ्गयोर्निरवकाशत्वज्ञानात्प्रागस्य सावकाशत्वज्ञानाभावाभिप्रायः । अन्यथा ‘‘वज्रज्ञानान्मोक्ष’’ इति भाष्यविरोधात् । सर्वथा निरवकाशस्य बाधायोगाच्च । एजृकम्पन इति धातुजेन एजतीत्यनेनोक्तं कम्पकत्वं तु भयहेतुत्वाद्वज्र एव युक्तम् । ब्रह्मप्रकरणमपि श्रुत्यादिबाधितम् । तस्माद्वज्रज्ञानस्यापि मोक्षहेतुत्वात् त्रैवर्णिकानां वेदाद्ब्रह्मज्ञानं मोक्षदमिति पूर्वोक्तमयुक्तमिति पूर्वः पक्षः ।
प्रकाशिका
नामलिङ्गपादन्यायेनोभयत्रप्रसिद्धतायामतिप्रसङ्गमाशङ्क्यैकस्समाधिरुक्तः । समाध्यन्तराण्यपि मतभेदोपन्यासमुखेनाह ।। केचित्त्वित्यादिना ।। अत्रेदमरुचिबीजम् । अन्यत्र प्रसिद्धलिङ्गसाहचर्यादन्यत्र प्रसिद्धत्वे द्युभ्वाद्यायतनत्वादीनामपि तथात्वं स्यात् । तत्रोक्तरीत्या कथञ्चित्समाधानेऽपि संवत्सरसारत्वादिलिङ्गानामादित्यविशेषणतया सर्वगतत्वविशेषणत्वाभावेन प्रागुक्तरीतेरेवानुसर्तव्यत्वादिति ।। अन्येत्विति ।। आहुरित्यन्वयः । भयशब्दस्यार्थो भयङ्करत्वेति । साक्षात्सङ्गत्यभावादाह ।। यद्वेति ।। सर्वगतत्वादावतिप्रसङ्गादाह ।। अथवेति ।। ‘‘व्रीहीन्प्रोक्षती’’त्यादिकं किं गुणकर्मोत प्रधानकर्मेति विशये ‘‘सक्तूञ्जुहोती’’त्यादौ व्यभिचारेण द्वितीयायास्साध्यत्ववाचित्वाभावात् ‘‘व्रीहिभिःप्रोक्षती’’ति व्रीहिसाधनकप्रोक्षणविधानात्प्रधानकर्मेति प्राप्ते ‘‘कर्तुरीप्सिततमं कर्मे’’ति साध्यत्वमात्रे द्वितीयास्मरणाद्गुणकर्मेति ‘‘धर्ममात्रेतु कर्मस्या’’दिति द्वितीयाध्यायाद्यपादीयपञ्चमाधिकरणे सिद्धत्वेन ‘‘तानि द्वैध’’मिति चतुर्थेऽधिकरणे ‘‘व्रीहीनवहन्ती’’ त्युदाहृत्य गुणकर्मत्वादिचिन्ता व्यर्था । द्वितीययैव गुणकर्मत्वसिद्धेरित्याशङ्कापरिहाराय द्वितीयामनादृत्य यथा सा चिन्ता कृता तथेहापीत्यर्थः । यथावा सिद्धान्ते चतुर्थपादे ज्योतिराद्यधिकरणेषु ज्योतिराकाशादिशब्देषु तदधीनत्वन्याये स्थितेपि तमतन्त्रीकृत्य तद्गतत्वादिना विचारस्तद्वदगतिकोऽयं परिहार इत्यत आह ।। अथवेति ।। अत्र टीकाविरोधो वोभयत्र प्रसिद्धसाहचर्येण तथात्वस्य लक्षणे प्रागनुक्तत्वादिति वाऽरुचिबीजमाहुः । एवं पादान्तर्भावपरटीकां समर्थ्य ‘‘तमेवं विद्वा’’नित्यादिटीका फलपरेति भावेन पूर्वानन्तर्ये हेतुद्वयमाह ।। अत्रेति ।। पूर्वत्र योगस्य वाक्यशेषस्थतया रूढित्यागेऽपीह तदभावान्न वज्रशब्दे रूढित्याग इति वैषम्येणेत्यर्थः । तथाच प्रत्युदाहरणरूपासङ्गतिरिति । पूर्वत्र त्रैवर्णिकानां वेदाद्ब्रह्मज्ञानं मोक्षदमित्युक्तम् । तन्न युक्तम् । ‘‘य एतद्विदुरमृता’’ इति वज्रज्ञानान्मोक्षश्रवणादित्याक्षेपिकी वा इत्यग्रे स्फुटमिति भावः । विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। काठके षष्ठवल्ल्यां श्रूयते ‘‘ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थस्सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन । एतद्वैतत् । यदिदं किं च जगत्सर्वं प्राण एजति निस्सूतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति । भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम’’ इत्यादि । तत्रत्यवज्रशब्दो विषय इत्यर्थः । प्राणशब्दो विषय इति तु निरसिष्यत इति भावः ।। कम्पकत्वेति ।। एजतीत्यनेनोक्तं सर्वचेष्टकत्वमित्यर्थः । यदि दुर्बलस्मार्तयोगेन रूढेस्त्यागादि न युक्तं तदा श्रुत्याद्यनुसारेण कम्पकत्वादिकं लिङ्गं नेयमिति वज्रशब्दार्थ इन्द्रायुधमेव । यदा तु युक्तं तदा विष्णुरेवेति स्पष्टः फलफलिभाव इति भावः ।
अत्र टीकायां ‘‘इन्द्रायुधमेवेदं वज्रम् । वज्रश्रुतेस्तत्र रूढत्वात् । उद्यतत्वलिङ्गाच्चे’’त्यादिना ग्रन्थेन श्रुतिलिङ्गाभ्यां पूर्वपक्षमुक्त्वा तत्र निरवकाशविष्णुलिङ्गविरोधमाशङ्क्य श्रुतिलिङ्गयोरपि निरवकाशत्वेन प्राबल्यमाश्रित्य पूर्वपक्षोज्जीवनं कृतम् । तत्र ‘‘वज्रज्ञानेने’’त्येकलिङ्गोक्तिरुपलक्षणमिति भावेन ‘‘न च वज्रज्ञानेन मोक्षोक्तेर्विष्णुरिति वाच्य’’मित्यादि टीकां विवृण्वञ्छतिलिङ्गयोर्निरवकाशत्वं च व्यनक्ति ।। नन्वत्रेत्यादिना ।। ‘‘भवन्तीत्यादी’’ त्यादिपदेन ‘‘प्राण एजति निस्सृत’’मित्युक्तकम्पकत्वजगज्जनकत्वादिलिङ्गपरिग्रहः । श्रुत्यर्थस्तु टीकायां व्यक्तः । तस्मान्नपूर्वपक्षोदय इति । एतेन यदुक्तं श्रुतप्रकाशे नास्याधिकरणान्तरत्वम् । निर्णीतब्रह्मप्रकरणगतत्वेन पूर्वपक्षानुदयादिति । तदप्युट्टंकितं भवति । श्रुतिनिरवकाशत्वं तावदाह ।। यदीति ।। तथाचेति ।। श्रुतेर्यौगिकत्वायोगेन रूढतयेन्द्रायुधादन्यत्रानवकाशत्वे सतीत्यर्थः ।। कथञ्चिदिति ।। भयहेतुत्वादिना वज्रेऽपि युक्तानीत्यर्थः । तर्हि पूर्वसिद्धान्तविरोध इत्यत आह ।। पूर्वसूत्रेत्विति ।। वाक्यशेषेति ।। ‘‘सह संजिहान एव क्षत्तारमुवाचे’’त्यादिवाक्यशेषस्थत्वादित्यर्थः । एतेन पूर्ववैषम्येणेत्येतद्विवृणोति । ‘‘आज्यैस्स्तुवत’’ इत्यत्राज्यशब्दस्य ‘‘दधिकुरुते’’त्यत्र दधिशब्दस्य ‘‘तस्योपनिषत्सत्य’’ मित्यादौ सत्यादिशब्दस्य यौगिकत्वं प्रसिद्धमितीहापि तथा स्यादित्यत आह ।। एतेनेति ।। ‘‘यदाजिमीयुस्तदाज्यानामाज्यत्वं यदेनमधिनोत्तद्दध्नो दधित्वं सदिति मर्त्यं तीत्यमृतं ते उभेयच्छती’’त्यादिश्रुतावित्यर्थः । विवृतमेतत्प्रागत्ताधिकरणे ।
ननु ‘‘वसन्ते वसन्ते ज्योतिषा यजेते’’त्यादौ वाक्यशेषस्थयोगाभावेऽपि ज्योतिरादिशब्दो यौगिक इति वक्ष्यत इत्यतस्तद्वैषम्यमाह ।। ज्योतिरिति ।। नन्विहापि स्मृतौ योगश्श्रूयत इत्यत आह ।। वर्जनादिति ।। ननु यथाऽऽकाशादिशब्देष्वनन्तत्वादिब्रह्मलिङ्गाद्बाधकाद्रूढित्यागस्तथेहापि स्मृतेर्दुर्बलत्वेऽपि कंपकत्वादिलिङ्गद्रूढित्यागोस्त्वित्यत आह ।। आकाशेति ।। ‘‘आकाश इति होवाचे’’ त्यादिगतेष्वाकाशप्राणादिप्रापकनिरवकाशलिङ्गाभावादित्यर्थः । लिङ्गं प्रसिद्धमित्यन्वयः । ‘‘उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः । पश्यन्तः पातयन्तिस्मकबन्धा अप्यरीन्युधी’’ति भारतादिस्मृतावित्यर्थः ।। एवं चेति ।। ज्योतिश्चरणेत्यत्र पूर्वपक्षे ज्योतिश्श्रुतिः प्रकरणे नेवेति भावः । टीकोक्तेर्मूलमाह ।। एतदेवेति ।। श्रुतिनिरवकाशत्वं लिङ्गनिरवकाशत्वाधीनमित्येतदेवेत्यर्थः । अन्यथास्मार्तयोगस्य दुर्बलतया श्रुतिबाधकत्वायोगेऽपि निरवकाशभगवल्लिङ्गेनाकाशादिश्रुतेरिव बाधसम्भवेन कल्प्यावकाशतया निरवकाशत्वायोगादिति भावः ।। टीकायामिति ।। एतदेवाभिप्रेत्योक्तमित्यनुषङ्गः । एवं वज्रश्रुतेर्निरवकाशत्वं निरवकाशलिङ्गाधीनतयोपपाद्य पूर्ववैषम्येण पूर्वपक्ष उक्तः । इदानीं न्यायविवरणस्थचशब्दस्वारस्यं टीकास्थद्विवचनस्वारस्यं चानुरुध्य लिङ्गनिरपेक्षमेव निरवकाशत्वं वदन् पूर्वाक्षेपेण पूर्वपक्षमाह ।। यद्वेति ।। नन्वाकाशादिशब्दानामिवेश्वरलिङ्गैश्श्रुतिबाधः किं नेत्यत आह ।। आकाशादीति ।। ब्रह्मलिङ्गादेस्सावकाशत्वमाह ।। अमृतत्वेति ।। अस्येति ।। य एतद्विदुरमृता इत्युक्तलिङ्गस्येत्यर्थः । वज्रस्य ये श्रुतिलिङ्गे तयोरित्यर्थः । एतेन पूर्वपक्षानुदय इति श्रुतप्रकाशोक्तं निरस्तम् । प्रापकाणामुक्तत्वादिति ।
चन्द्रिकाबिन्दुः
अन्येत्वित्यारभ्य आहुरिति पर्यन्तं स्वबुद्ध्युत्प्रेक्षिताः पक्षाः मध्ये यद्वेत्यादयोऽपि ।। अत्रेति ।। पूर्वाधिकरणवैषम्याक्षेपप्रकारौ तु पूर्वपक्षदशायां स्फुटौ ।। निर्णीतानीति ।। नेतरोऽनुपपत्तेरित्याद्यैः ।
ननु कथमव्यवस्था, कम्पकत्वादिलिङ्गैस्तत्र तत्र ब्रह्मव्यवस्थापकत्वसम्भवादित्यत आह ।। तथा च कम्पकत्वादीति ।। पूर्ववैषम्येणेत्युक्तं दर्शयति ।। पूर्वसूत्रे त्विति ।। एवं चेति ।। आकाशादिशब्दवैषम्यं दर्शितम् । तत्राकाशश्रुतेर्भूतपरत्वापादकनिरवकाशलिङ्गस्याभावात् अत्र च तत्सत्त्वात् । एतदेवाभिप्रेत्य निरवकाशलिङ्गबलेनैव वज्रश्रुतेस्तत्सहचरिताया निरवकाशत्वमभिप्रेत्य न तु स्वातन्त्र्येण श्रुतेर्निरवकाशत्वमभिप्रेत्येत्यर्थः । अस्मिंश्च पक्षे तु वज्रशब्द उद्यतत्वलिङ्गं चेति समप्राधान्येन ग्रहणम् । टीकायां द्वन्द्वेन निर्देशश्चास्वरस इति पक्षान्तरमाह ।। यद्वेति ।। ननु रूढित्यागेन योगाश्रयणेऽव्यवस्थायामाकाशादिशब्देषु भवद्भिर्योगो नाश्रयणीयः स्यात् इत्यत इदानीं तेषामपि शब्दानामत्र पूर्वपक्षविषयत्वेनाक्षेप्यत्वमेवास्तीत्यभिप्रेत्याह ।। आकाशादिशब्दानामपीत्यादिना ।। सर्वथेति ।। सर्वप्रकारेणापि वज्रेऽसम्भवात् इत्यर्थः । पूर्वाधिकरणाक्षेपेणेत्युक्तं तद्दर्शयति ।। तस्मादिति ।।
पाण्डुरङ्गि
केचित्तु स्वयूथ्याः । अयं भावः । नामलिङ्गपादन्यायेनैव वज्रादिशब्दानामुभयत्र प्रसिद्धत्वमित्युक्तम् । तदयुक्तम् । नामपादन्यायेनादित्यादिनाम्नामपि ब्रह्मणि प्रयोगस्योक्तप्रायत्वात्तत्साहित्येन सर्वगतत्वादीनामुभयत्र प्रसिद्धत्वापत्तिरिति । अत आह ।। आदित्यादिशब्दानामिति ।। न सा उभयत्र प्रसिद्धता नेत्यर्थः । ननु सर्वगतत्वादीनां स्वत एवोभयत्र प्रसिद्ध्यभावात् उभयत्र प्रसिद्धादित्यश्रुतिसाहित्येनोभयत्र प्रसिद्धत्वमपि किं न स्यादित्यत आह ।। अन्यत्रेति ।। नन्वेवमादित्यशब्दस्योभयत्र प्रसिद्धत्वेन तत्साहचर्येणान्यत्र प्रसिद्ध्यभावात्स्वतश्चान्यत्रप्रसिद्ध्यभावादन्यत्रप्रसिद्धतैव न स्यादित्यत आह ।। सर्वगतत्वादीनामिति ।। लिङ्गसाहचर्यात् संवत्सर एव प्रध्वंसयन्नित्यादिनोक्तसंवत्सराधिपतित्वरूपसंवत्सरसारत्वरूपान्यत्रप्रसिद्धलिङ्गसाहचर्यादित्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु संवत्सरसारत्वादिलिङ्गानामादित्यविशेषणतयैव प्रतीत्या सर्वगतविशेषणत्वाप्रतीत्या लिङ्गसाहचर्येणान्यत्रप्रसिद्ध्यसम्भवेनादित्यशब्दसाहचर्येणैवान्यत्र प्रसिद्धत्वे वक्तव्ये नामपादन्यायेन तस्योभयपरत्वेन सर्वगतत्वादीनामप्युभयत्र प्रसिद्धत्वं स्यादेवेति पादासङ्गतिरेवेति । अन्ये स्वयूथ्याः । साक्षात्संगतिसम्भवे फलतः सङ्गतिकल्पनमयुक्तमित्यभिप्रेत्य पक्षान्तरमाह ।। यद्वेति ।। एतेनेत्यनेन परामृष्टं हेतुमाह ।। तत्रेति ।। ज्योतिरुपक्रमादित्यत्रत्विति ।। तथाचान्यत्र प्रसिद्धिविरोधो नेति भावः ।। इहत्विति ।। तथाच प्रकृतेऽन्यपरत्वाभावादन्यत्र प्रसिद्धिविरोध इति भावः ।
ननु च योगस्य स्मृत्युक्तत्वेन प्रबलत्वात्तेन वज्रश्रुतिबाधेन रूढित्यागोऽस्त्वित्यत आह ।। वर्जनादिति ।। नन्वेवं श्रुतेः प्रबलत्वे आकाशादिश्रुतेः प्रबलत्वेन तत्रापि रूढित्यागो न स्यादित्यत आह ।। आकाशादीति ।। नन्वेवमुक्तरीत्या श्रुतेः स्वतो निरवकाशत्वाभावेऽपि निरवकाशलिङ्गसाहित्येन निरवकाशत्वोक्तौ टीकाविरोधः । टीकायां श्रुतिलिङ्गयोरपि तथात्वादिति लिङ्गानिरपेक्षाया एव श्रुतेर्निरवकाशत्वोक्तेरित्यरुच्याऽऽह ।। यद्वेति ।। नन्वेवमाकाशश्रुते रूढित्यागेऽव्यवस्थापत्त्या रूढित्यागासम्भवाद्ब्रह्मपरत्वं न स्यादित्यत आह ।। आकाशादीति ।। ननु य एवं विदुरमृता इति वाक्योक्तामृतत्वहेतुवेदनविषयत्वस्य साकाशत्वमङ्गीकृत्य पूर्वपक्षे टीकाविरोधः । तत्र न च लिङ्गस्य निरवकाशतया प्राबल्यमित्याशङ्क्य लिङ्गस्य निरवकाशत्वमङ्गीकृत्यैव श्रुतिलिङ्गयोरपि तथात्वादित्यनेन पूर्वपक्षीयश्रुतिलिङ्गयोरपि निरवकाशत्वेन पूर्वपक्षसम्भवादित्युक्तत्वादित्यत आह ।। टीकायामिति ।। अन्यथेति ।। टीकाया यथाश्रुतार्थत्व इत्यर्थः ।