अंशत्वेऽपि जीवस्यावतारसाम्यं नेत्यत्र..
अदृष्टाधिकरणम्
तात्पर्यचन्द्रिका
बिम्बस्य ब्रह्मण एकत्वेsपि प्रतिबिम्बानां जीवानां वैचित्र्यम्
।। ॐ अदृष्टानियमात् ॐ ।।
अंशत्वेऽपि जीवस्यावतारसाम्यं नेत्यत्र हेत्वन्तरत्वेन पूर्वोक्तं प्रतिबिम्बत्वमाक्षिप्य समाधीयत इति सङ्गतिः । अत्र जीवस्य प्रतिबिम्बत्वश्रुतिः किमेकब्रह्मप्रतिबिम्बत्वे वैचित्र्यायोग इति युक्तयनुगृहीतया प्रतिबिम्बत्वाभावश्रुत्या बाधितोत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणस्स्रष्टृत्वादिकमयुक्तमुत नेति चिन्ता । तदर्थं श्रुतिरप्रमाणमुत नेति । तदर्थं जीवस्य प्रतिबिम्बत्वश्रुतिः किमेकब्रह्मप्रतिबिम्बत्वे वैचित्र्यायोग इति युक्तयनुगृहीतया प्रतिबिम्बत्वाभावश्रुत्या बाधितोत प्रतिबिम्बत्वाभावश्रुतेः सोपाधिकप्रतिबिम्बत्वाभावविषयत्वादबाधितेति) तदर्थं बिम्बस्यैकत्वेऽपि स्वरूपोपाधिवैचित्र्यात्प्रतिबिम्बवैचित्र्यमयुक्तमुत नेति । (तदर्थं स्वरूपस्योपाधित्वमयुक्तमुत नेति ।) ।। श्रुत्यन्तरमनुमीयत इति ।। ‘‘न सम्बन्ध’’ इत्यतीताधिकरणोदाहृतं बिम्बप्रतिबिम्बभावरूपसम्बन्धनिषेधकं श्रुत्यन्तरमिह भाष्ये सन्देहबीजत्वेनोदाहृतमित्यनुमीयते । सन्देहबीजत्वेन श्रुतिविगानोक्तेः पूर्वाधिकरणभाष्येषु प्रकृतत्वादित्यर्थः ।। सिद्धान्तयदिति ।। अयं भावः । युक्तमेव जीवानां ब्रह्मप्रतिबिम्बत्वम् । जीवतद्गुणयोरभेदेऽपि विशेषबलाद्गुणगुणिभाववत्स्वरूपभेदयोश्चैतन्याभेदेऽपि विशेषणविशेष्यभाववत्समवायस्य सम्बन्धिभाववच्चाभेदेऽप्युपाधिप्रतिबिम्बभावस्यापि सम्भवात् । उक्तं हि
जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्ममेव च ।
बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः ।। इति ।
अन्यथोद्भूतरूप विशेषवद्द्रव्यस्यैव बिम्बग्राहित्वादविद्यान्तःकरणादेस्तन्न स्यात् । अचाक्षुषस्य च द्रव्यस्याप्रतिबिम्बनाद्ब्रह्मणस्तन्न स्यात् । दृश्यन्ते च प्रतिध्वनिप्रतिसूर्यछायापुरुषेन्द्रचापादीनि भिन्नोपाधिरहितान्यपिप्रतिबिम्बानि । श्रुतिश्च ‘‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते । जीवःपरस्यानुपाधिरिन्द्रचापो यथा रवे’’रिति । न हि प्रतिध्वन्यादेःस्वधर्माधायक उपाधिरस्ति । न च प्रतिबिम्बेनेवोपाधिनापि निरूप्यत्वं नियतम् । प्रतिध्वन्यादावदर्शनात् । जीवस्य प्रतिबिम्बत्वनिषेधश्रुतिस्तु भिन्नोपाध्यायत्तत्वादिरूप प्रतिबिम्बत्वनिषेधपरा । वक्ष्यति च भाष्यकारः ‘‘अत एव चोपमासूर्यकादिव’’दित्यत्र तदधीनत्वतत्सादृश्याभ्यामेव जीवस्य सूर्यकाद्युपमा । न तूपाध्यायत्तत्वादिनेति । बिम्बप्रतिबिम्बयोर्भेदश्च न दर्पणे मम मुखं किन्तु मम प्रतिमुखमेवेत्यादिप्रत्यक्षेण, कस्तूरीगुडाग्निपर्वततत्प्रतिबिम्बानां सौरभमाधुर्यौष्ण्यगुरुत्वतदभावात्मकवैधर्म्यरूपेणानुमानेन, ‘‘यथैषा पुरुषे छाया एतस्मिन्नेतदातत’’ मित्यादिश्रुत्या ‘‘तवैव सदृशश्चायं बिम्बस्य प्रतिबिम्बवत् । बहवस्सूर्यका यद्वत्सूर्यस्य सदृशा जले । एवमेवात्मका लोके परात्मसदृशा मता’’इत्यादिस्मृत्या च सिद्धः । न हि दर्पणे मम मुखं लग्नं कूपे वा पतितमिति कश्चित्प्रत्येति । किञ्चाभेदपक्षे ग्रीवास्थमेव मुखं दर्पणस्थं किं वा दर्पणे मुखान्तरमारोप्यते यद्वा ग्रीवास्थस्यैव संसर्गमात्रमारोप्यते । नाद्यः । प्रादेशमात्रमुखस्यैकदैवोभयत्रानवस्थानात् । कालभेदेन चेच्चैत्रो बहिरवस्थानकाले गृहान्तरिव मुखं दर्पणेऽवस्थानकाले ग्रीवायां न स्यात् । द्वितीयतृतीययोःकथं प्रत्यभिज्ञा प्रमा । द्वितीये तदेवेदमिति प्रत्यभिज्ञाविषयस्यैक्यस्य बाधितत्वात् । तृतीये तद्विषयस्येदमित्यस्य बाधितत्वात् । न हि प्रातिभासिकव्यावहारिकयोरैक्यं व्यावहारिकम् । न वा गृह एव स्थितस्य चैत्रस्य बहिःसत्त्वज्ञानं प्रमा । न चेदं ज्ञानमिदमित्यंशे भ्रमः ऐक्यांशे तु प्रमेति वाच्यम् । वैपरीत्यस्यापि सुवचत्वात् । शुक्ताविदं पूर्वस्थापितं रूप्यमिति ज्ञानस्याप्यैक्यांशे प्रमात्वापाताच्च । एतेन ग्रीवास्थमुखस्य दर्पणे प्रतीतेन मुखेनैक्यं प्रत्यभिज्ञाविषय इति निरस्तम् । अत्र प्रतिसूर्य एव न तु सूर्य इतिवद्दर्पणे मुखच्छायैव न तु मुखमित्येव प्रतीतेः । अन्यथा प्रतिबिम्बेनाबिम्बानुमितिर्न स्यात् । किञ्च दर्पणे प्रतिमुखस्याभावे सप्रतिबिम्बदर्पणसम्बद्धदर्पणान्तरे प्रतिबिम्बस्यापि प्रतिबिम्बं दृश्यते । तन्न स्यात् । किञ्च घटे तदवच्छिन्नाकाशस्येव दर्पणेऽविद्यायाञ्च मुखाभासस्य चैतन्याभासस्य चाभावे कथं श्यामत्वादिकं प्रतिमुख एव संसारश्च जीव एवेति व्यवस्था । न हि श्यामत्वसंसारावुपाधिगतौ । न वोपाधावारोपितबिम्बगतौ ।
किञ्च गगनं तारकितमितिवन्मुखं प्रतिबिम्बितमिति प्रयोगप्रत्ययौ मुखस्य सञ्जातप्रति बिम्बसम्बन्धविषयावेव । न त्वभेदविषयौ । प्रतिबिम्बस्योपादानन्तु अन्धकारपरिवेषेन्द्रचापादाविव स्पर्शहीनं रूपि किञ्चिद्द्रव्यं कार्यबलात्कल्प्यम् । न ह्यस्माकं तार्किकाणामिव नवैव द्रव्याणि । विस्तरस्तु न्यायामृते बिम्बादेर्द्रष्टव्यः । (यद्वा भोक्तृरहितसुखवज्ज्ञातृरहितज्ञानवत्प्रलये व्यक्तिरहितघटत्वादिजातिवदतीतादौ ज्ञेयरहितज्ञाततावत्फलरहितनित्यनियोगवच्च जीवोऽप्युपाधिरहितप्रतिबिम्बोऽस्तु । प्रतिध्वनिवत्प्रतिसूर्यवच्छायापुरुषवदिन्द्रचापवच्च ।
सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।
जीवः परस्यानुपाधिरिन्द्रचापो यथा रवेः ।। इति श्रुतेः ।
न हि प्रतिध्वन्यादेः स्वधर्माधायक उपाधिरस्ति । न च हेतुमात्रमुपाधिः । अनादिप्रतिबिम्बस्य जीवस्य तदनपेक्षणात् । न च प्रतिबिम्बस्य बिम्बेनेवोपाधिनापि निरूप्यत्वं नियतम् । प्रतिध्वन्यादावदर्शनात् । बिम्बप्रतिबिम्बभेदश्चान्यत्र समर्थितः ।) अत्र जीवानां विचित्रत्वादविचित्रब्रह्मप्रतिबिम्बत्वं नेति शङ्कायाः प्रवाहानाद्यदृष्टादिवैचित्र्योक्तया निरासः । भक्तिपादे ‘‘स्थानविशेषात्प्रकाशादिव’’ दित्यत्र तु विचित्रजीवानन्दादिबिम्बत्वाद्ब्रह्मानन्दादेर्वैचित्र्यं स्यात् । बिम्बवैचित्र्यं विना प्रतिबिम्बानां स्वाभाविकवै (जलदर्पणसूर्यकान्ताद्युपाधिवैचित्र्येऽपि बिम्बभूतमुखावैचित्र्ये प्रतिबिम्बवै) चित्र्यादृष्टेरिति शङ्कायाः । न केवलमेतदधिकरणोक्तं प्रवाहानाद्यदृष्टादिवैचित्र्यमात्रं तत्र हेतुः । किन्तु उपाधेः स्वरूपानादिज्ञानभक्तयादिवैचित्र्यं बिम्बस्येश्वरस्य शक्तिविशेषश्च तत्र हेतुः । न ह्यादित्यस्येवान्यस्यापि सूर्यकान्तादौ प्रतिबिम्बोऽग्निं जनयति । न वा सूर्यस्यैव जलादौ स तं जनयतीति निरास इति भेदः । अत एवात्र भाष्यादावदृष्टवैचित्र्यमेवोक्तम् । तत्र तु ‘‘ऐश्वर्यात्परमाद्विष्णोर्भक्तयादीनामनादित’’ इतीश्वरशक्तिःस्वरूपानादिभक्तयादिवैचित्र्यञ्चोक्तम् । टीकायामपि ‘‘न चादृष्टनियमेन वैचित्र्यम् । स्वाभाविकानन्दादेरादिमत्कारणानुपपत्ते’’रित्यादिनाऽत्रोक्तमदृष्टवैचित्र्यं तत्र पूर्वपक्ष एवाशङ्क्य परिहृतम् । अत्र यदुक्तं परैः अदृष्टेत्यादिसूत्रत्रयेण किन्त्वनेकात्मवादिसाङ्ख्यादिमत एवाव्यवस्थेत्युच्यत इति तन्न । मम रीत्या ‘‘अदृष्टानियमा’’दिति हेतोः ‘‘आभास एव चे’’ ति श्रुतसाध्यान्वयसम्भवे साङ्ख्यादिमतेऽव्यवस्थेति साध्याध्याहारायोगात् । आत्मभेदे न व्यवस्था । ऐक्ये तु व्यवस्थेत्यस्य विरुद्धत्वाच्च । विस्तृतञ्चैतदन्यत्रेति ।
अस्मिन्पाद आद्यमधिकरणत्रिकमुत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधनिरासेनैका पेटिका । तत्राद्ये द्वितीये च ब्रह्मेतरयोर्नभोनभस्वतोरुत्पत्त्या सिद्धान्तः । तृतीये तु ब्रह्मणोऽनुत्पत्त्या सिद्धान्त इति भेदः । चतुर्थपञ्चमषष्ठानि तेजआदेरुत्प(त्तावप्युत्पा)त्तिं स्वीकृत्योत्पाद्योत्पादकभावरूपसम्बन्धविषयकविरोधे शङ्किते तन्निरासकत्वेनैका पेटिका । तत्राप्याद्यद्वितीययोरुत्पादकविशेषविषयविरोधनिरासेन सिद्धान्तः । तृतीय उत्पाद्यविशेषविषयविरोधनिरासेन सिद्धान्त इति भेदः । सप्तमाष्टमनवमदशमानि संहारविषयविरोधनिरासकत्वेनैका पेटिका । तत्राप्याद्ये संहर्तृविषयविरोधनिरासः । द्वितीये तृतीये च संहारक्रमविषयविरोधनिरासः । चतुर्थे ब्रह्मविषयकसंहारविरोधपरिहारः । एकादशमारभ्यैकोनविंशतिपर्यन्तानि जीवविषयत्वेनैका पेटिका । तच्चाधिकरणनवकं यथाक्रमं जीवस्य सादित्वाणुत्वानेकदेहस्थितत्वेश्वरभिन्नत्वानन्तत्वज्ञानानन्दादि- रूपत्वपरतन्त्रकर्तृत्वेश्वरांशत्वतत्प्रतिबिम्बत्वरूपप्रमेयनवकप्रति पादकमिति द्रष्टव्यम् ।। छ ।। अदृष्टाधिकरणम् ।। १९ ।। इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचितायां श्रीमद्भाष्यटीकाविवृतौ तात्पर्यचन्द्रिकायां द्वितीयाध्यायस्य तृतीयःपादः ।। ३ ।।
प्रकाशिका
‘‘न जीवा भगवत्प्रतिबिम्बा’’ इति टीकासूचितसङ्गतिमाह ।। अंशत्वेऽपीति ।। पूर्वोक्तमिति ।। ‘‘आभास एव चे’’त्युक्तमित्यर्थः । पूर्वपक्षटीकासूचितचिन्तामाह ।। अत्र जीवस्येति ।। अत्र न्यायविवरणरीत्या टीकायां ‘‘न चैकप्रतिबिम्बानां मिथो वैचित्र्यं सम्भवती’’त्युक्तिरुपलक्षणम् । न च स्वरूपोपाधेर्वैचित्र्याद्वैचित्र्यमिति वाच्यम् । स्वरूपभूते प्रतिबिम्बनोपाधित्वस्यैवादृष्टचरत्वात् । लोके दर्पणाद्युपाधेर्भिन्नस्यैव प्रतिबिम्बनोपाधित्वदर्शनादित्यपि पूर्वपक्षो ध्येयः । सिद्धान्ताशयस्तु विवरिष्यत इति भावेन तदुपयुक्तचिन्तामाह ।। तदर्थं बिम्बस्येति ।। अतीतेति ।। ‘‘अंशो नाने’’त्यधिकरण इत्यर्थः । ननु सिद्धान्तेऽदृष्टवैचित्र्याद्वैचित्र्यमुच्यते । तदयुक्तमिव । अनादिप्रतिबिम्बवैचित्र्यस्यागन्तुकादृष्टवैचित्र्यनिमित्ततानुपपत्तेः । तद्वैचित्र्यस्यापि किंचिदनादिवस्तुवैचित्र्यनिबन्धनत्वावश्यंभावाच्च । मुक्तौ कर्माभावाच्च । प्रागुपलक्षितपूर्वपक्षस्य यथाश्रुतटीकादिना परिहारायोगाच्च । अत आह ।। अयं भाव इति । चैतन्याभेदयोश्चेति परमते ।। उक्तं हीति ।। चतुर्थस्कन्धैकविंशाध्यायतात्पर्योक्तस्कान्दवचने स्वरूपोपाधिनिमित्तत्वं प्रतिबिम्बस्योक्तमित्यर्थः । तथा चोदाहृतैषा स्मृतिः ‘‘यावदात्मभावित्वा’’ दित्यत्र टीकायाम् ।। अन्यथेति ।। वाचनिकस्याप्यन्यत्रादृष्टिमात्रेण त्याग इत्यर्थः ।
अदृष्टिरप्यसिद्धेत्याह ।। दृश्यंते चेति ।। श्रुतिश्चेति ।। ‘‘आभास एव चे’’त्यत्र भाष्योक्ता ।। नियतमिति ।। येनात्रेव भेदो नियतस्स्यादिति भावः । कथं तर्हि ‘‘नैवांशो न सम्बन्धः परस्ये’’ति बिम्बप्रतिबिम्बभावसम्बन्धनिषेधपरा श्रुतिरित्यतः ‘‘अन्या श्रुतिर्निरुपाधिप्रतिबिम्बविषये’’ति टीकां विवृण्वन्नाह ।। जीवस्येति ।। ननु बिम्बप्रतिबिम्बयोरभेदात्कथं तदधीनत्वादीत्यत आह ।। बिम्बेति ।। भेदश्च सिद्ध इत्यन्वयः ।। श्रुत्येति ।। पूर्वत्र भाष्योक्तया ।। तवैवेति ।। स्थानान्तरगतं वाक्यम् । ‘‘बहव’’ इत्यादि तु ‘‘अत एव चोपमे’’त्यत्र भाष्योक्तम् ।। प्रत्यक्षेणेत्युक्तं व्यनक्ति न हीति ।। नन्विदं प्रत्यक्षं ममैवेदं मुखं तदेवेदं मुखमित्याद्यैक्यप्रत्यभिज्ञाबाधितमित्यतस्तद्भ्रान्तित्वमाह ।। किञ्चेति ।। कथं प्रमेत्युक्तं व्यनक्ति ।। द्वितीय इति ।। संसर्गः किमैक्यं तत्र सत्त्वं वा । नोभयमित्याह ।। न हीति ।। ननु प्रतिबिम्बस्य जन्मोक्तावुपादानं किं स्यादित्यत आह ।। प्रतिबिम्बस्योपादानं त्विति ।। न्यायामृते द्वितीयपरिच्छेद इत्यर्थः । पौनरुक्तयं निराह ।। अत्र जीवानामिति ।। बिम्बशक्तिरुपाधिवैचित्र्यं चोभयं प्रतिबिम्बवैचित्र्ये कारणमित्येतत्क्रमेण व्यनक्ति ।। न हीति ।। अत एवेति ।। बिम्बशक्तेरपि तत्राभिमतत्वादेवेत्यर्थः । मतद्वयेऽपीदं ‘‘अदृष्टानियमात् । अभिसंध्यादिष्वपि चैवम् । प्रदेशादिति चेन्नान्तर्भावा’’दिति सूत्रत्रयं पूर्वशेषो नाधिकरणान्तरम् । तत्र ‘‘असन्ततेः । आभास एव चे’’त्याभ्यामैक्यवादे भोगव्यवस्थामुपपाद्य ‘‘अदृष्टे’’त्यादिना सर्वगतबहुजीववादिनां साङ्ख्यकाणादादीनां मते भोगाव्यवस्थोच्यत इति परमतम् । मतान्तरं तु मायावादिनां मते पूर्वसूत्रद्वयेन भोगाव्यवस्थामुक्त्वा सत्योपाधिकृतसत्यभेदवादेऽपि जीवानां स्वरूपैक्येन भोगाव्यवस्थोच्यत इति । तत्र परमतोक्तदोषेणैव मतान्तरं दुष्टं स्यादिति भावेन परमतमेवानूद्य निराह ।। अत्र यदुक्तं परैरिति ।। किं त्विति ।। न केवलं स्वमते भोगव्यवस्थेत्यर्थः । न व्यवस्थेति पदच्छेदः ।। अन्यत्रेति ।। ‘‘अत एव चोपमे’’त्यत्रानुव्याख्यानसुधयोरुपाधिखण्डनतत्वनिर्णयटीकादौ न्यायामृते चेत्यर्थः । पेटिका सङ्गतिग्रन्थः स्पष्टः ।।
श्री श्री सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते चन्द्रिकाप्रकाशे
द्वितीयाध्यायस्य तृतीयः पादः ।। २ ।। ३ ।।
चन्द्रिकाविवृतिः
।। ॐ अदृष्टानियमात् ॐ ।। प्रतिबिम्बत्वाभावश्रुत्येति ।। नैवांशो न सम्बन्ध इत्यादिप्रतिबिम्बत्वा-भावप्रतिपादकश्रुत्येत्यर्थः ।। प्रकरणादित्यस्यार्थमाह ।। सन्देहबीजत्त्वेनेति ।। अभेदेऽपि विशेष•भाद्य्वव-स्थितस्य गुणगुणिभावस्योपपत्तिरित्युक्तवाऽभेदेऽपि व्यवस्थितं विशेषणविशेष्यभावेऽप्यस्तीत्याह ।। स्वरूपभेदयोश्चेति ।। एकस्यैव जीवस्योपाधित्वे प्रतिबिम्बत्वे चात्यंतरङ्गदृष्टान्तमाह ।। समवायस्येति ।। यद्यप्यदृष्टानियमादिति सूत्रकारेण प्रतिबिम्बवैचित्र्ये कर्मवैचित्र्यमेव नियामकमित्युक्तम् । तथाप्यदृष्टवैचित्र्येऽप्यन्ततः स्वरूपोपाधिवैचित्र्यमेव नियामकं वाच्यमिति तदेवोक्तम् ।। सूत्रकारस्यापि यदाद्यं वैचित्र्यनियामकं तदेव वक्तव्यमित्यभिप्रायः ।। अत एव संध्यादिष्वपि चैवं प्रदेशादिति चेन्नांतर्भावादित्येताभ्यां सूत्राभ्यां रागद्वेषस्थानवैचित्र्यमेव नियामकम् । शङ्कितत्त्वान्न नियामकमदृष्ट-वैचित्र्यमेवान्तत आश्रयणीयमिति तदेव नियामकं वक्तव्यमित्युक्तम् । तेन ज्ञायते सूत्रकारस्याप्यन्ततः उपाधिवैचित्र्यमेव नियामकं वक्तव्यमित्याशय इति ।। ननु प्रतिबिम्बरूपस्य जीवस्योपाधित्त्वमपि प्रतिपन्नं चेत्तद्घटनार्थं विशेषव्युत्पादनं कर्तव्यमित्यत आह ।। उक्तं हीति ।।
प्रतिबिम्बातिरिक्तस्यैवलोके उपाधित्वदर्शनात्कथं जीवस्यैव प्रतिबिम्बत्वमुपाधित्वं चेत्यत आह ।। अन्यथेति ।।लोकानुसरण इत्यर्थः ।। बिम्बग्राहित्वात्प्रतिबिम्बनोपाधित्त्वात् ।। अचाक्षुषस्येति ।। प्रतिबिम्बनाशाभावादित्युक्ते व्यभिचारः । अचाक्षुषस्यापि गुणशब्दस्य ध्वन्यात्मकस्य प्रतिध्वनिरूपेण प्रतिबिम्बनादतो द्रव्यस्येत्युक्तम् ।। छायापुरुषेति । अक्षिणि दृश्यमानपुरुषाकारः ।। बिम्बेनेवेति ।। बिम्बप्रतिबिम्ब इति निरूप्यत्वम् । प्रतिबिम्बत्वनिषेधश्रुतिः ।। नैवांशो न सम्बन्ध इत्यादिश्रुतिः ।। ननु यदि जीवस्येश्वरप्रतिबिम्बत्वमङ्गीक्रियते तर्हि जीवेश्वरयोरभेद एव प्राप्तः । बिम्बप्रतिबिम्ब-योर्भेदाभावादित्यत आह ।। बिम्बप्रतिबिम्बयोरिति ।। बिम्बप्रतिबिम्बयोर्भेदः प्रत्यक्षेणानुमानेन स्मृत्या च सिद्ध इति योजना द्रष्टव्या ।। आत्मकाः अल्पात्मानः आत्मप्रतिबिम्बा इति वा ।। एवं बिम्बप्रतिबिम्बयोर्भेदे प्रमाणमुक्तवा इदानीमभेदपक्षे बाधकमाह ।। किं चाभेदपक्ष इति ।। ग्रीवास्थस्यैवेति ।। मुख्यस्येति ।। उभयत्र ग्रीवायां दर्पणे च ।। कालभेदेन चेदिति ।। प्रतिबिम्बनाशाभावदशायां ग्रीवायामेव, मुखप्रतिबिम्बनदशायां तु दर्पण इति कालभेदेनेत्यर्थः ।। दर्पणे आरोपितं मुखान्तरमिति पक्षे प्रत्यभिज्ञायाः प्रमाणत्वाभावमुपपादयति ।। द्वितीये तदेवेदमिति ।। ग्रीवास्थस्य मुखस्य संसर्गमात्रमारोप्यमिति पक्षे प्रत्यभिज्ञायाः प्रमाणत्वाभावमुपपादयति ।। न वा गृह एवेति ।। तद्वदेव ग्रीवायामेव मुखस्य सत्वात्संसर्गमात्रारोपेऽपि मुख्याभावेन दर्पणास्थमुखं दृष्ट्वा तदेवेदमिति प्रत्यभिज्ञा न स्यादिदमिति पदोक्तमुखस्यैव तत्राभावादिति भावः ।। इदमिति पदोदितमुख्यस्याभावेन प्रत्यभिज्ञाया इदमंशे भ्रमत्त्वेऽपि न दोष इत्याशङ्क्य निराकरोति ।। न चेदं ज्ञानमिति ।। अन्यथा बिम्बप्रतिबिम्बयोर्भेदाभावे । सप्रतिबिम्बेति ।। प्रतिबिम्बवदित्यर्थः ।। ननु मुखं प्रतिबिम्बितमुखस्यैव प्रतिबिम्बात्मकत्वमुच्यते तत्कथं बिम्बप्रतिबिम्बयोर्भेद इत्यत आह ।। किं च गगनं तारकितमिति । तारकासम्बन्धिजातम् ।। तदस्य संजातं तारकादिभ्य इतजिति सम्बन्धार्थे इतच्प्रत्ययविधानादिति भावः ।। ननु ग्रीवास्थं मुखं यत्स्वाक्षणसम्पन्नं तत्स्वाक्षणसम्पन्नमेव दर्पणस्थं दृश्यते । अतस्तयोरभेदो वक्तव्यः ।। किञ्च प्रतिबिम्बः बिम्बान्न भिद्यते । बिम्बकारणातिरिक्तकारणशून्यत्त्वात् बिम्बवदित्यनुमानेन चाभेदसिद्धिरित्यत आह ।। विस्तरस्त्विति ।। न केवामिति ।। अदृष्टादिवैचित्र्यमप्यानंदादि वैचित्र्येऽपि हेतुरेव । परं तु स्वाभाविकानंदादेरादिमत्कारणानुपपत्तेरित्यभ्यधिकाशंकायां तत्परिहारार्थमेतदधिकरणप्रवृत्तिरिति भावः ।। द्वितीये संहारक्रमविषयेति ।। विपर्ययेण तु क्रमोऽतः अन्तराविज्ञानेत्यधिकरणयोरुभयोरपि संहारक्रमविचारात्मकत्त्वेन विजातीयप्रमेयप्रतिपादकत्त्वाद्द्वितीय इति ।। एकोपाधिना व्यवहारः एतद्विवक्षयैव पूर्वं सप्तमाष्टमनवमानीत्युक्तम् ।। दशममारभ्येति वक्ष्यति चेति द्रष्टव्यम् ।।
इति श्रीचन्द्रिकाटिप्पण्यां सत्यानन्दतीर्थविरचितायां द्वितीयाध्यायस्य तृतीयः पादः ।।