अन्येतु

उभयमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु ।। प्राण एजतीति वाक्यस्थ प्राणः प्रसिद्धेर्वायुरिति प्राप्ते ब्रह्मैवेति सिद्धान्त इत्याहुः । तन्न । प्रागनुक्तसमन्वय उद्यतत्वरूपपूर्वपक्षबीजरूपयुक्ते च वज्रशब्दे सति असकृदुक्तसमन्वयस्य बीजशून्यस्य च प्राणशब्दस्य समन्वयोक्तययोगात् । किं च ब्रह्मलिङ्गत्वेन सूत्रोक्तं कम्पकत्वं त्वदुक्तममृतत्वहेतुवेदनत्वं च भयंकरत्वेनोक्ते ‘‘य एतद्विदु’’रिति नपुंसकलिङ्गनिर्दिष्टे च वज्र एवेति तत्रैव चिन्ता युक्ता । केचित्तु ।। ‘‘शब्दादेव प्रमित’’ इत्यत्र ब्रह्मपरत्वेन निर्णीतयोः ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनाना’’मिति वाक्ययोर्मध्यस्थे ‘‘यदिदं किञ्चे’’ति वाक्येऽन्यपरत्वशङ्काऽयोगान्नेदं सूत्रमधिकरणान्तरम् । किंत्वंगुष्ठमात्रस्य ब्रह्मत्वे हेत्वन्तरं सत् ‘‘शब्दादेव प्रमित’’ इत्येतदधिकरणशेष इत्याहुः । तन्न । श्रुत्यादिना प्रकरणबाधेन पूर्वपक्षोदयस्योक्तत्वात् । अङ्गुष्ठवाक्यद्वयमध्य एव ‘‘ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातन’’ इति प्रपञ्चवाक्यदर्शनाच्च । ‘‘शब्दादेवे’’त्येतदानन्तर्यस्य च शब्दस्य च प्रसङ्गाच्च । सूत्रे हेतुमात्रोक्तावपि ‘‘अभिव्यक्ते’’रित्यादाविव योग्यस्य साध्यस्याध्याहारसम्भवाच्च ।। टीकाक्षरार्थस्तु स्पष्टः ।।

प्रकाशिका

अन्येत्विति ।। ‘‘यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृत’’मित्यत्र सप्तम्यन्तः प्राणशब्दः किं वायुरुत ब्रह्मेति संशये पञ्चवृत्तिराध्यात्मिको वायुरेव । तत्र प्राणशब्दस्य प्रसिद्धेः । वज्रशब्दस्य चाशनौ प्रसिद्धत्वादशनेश्च धूमज्योतिस्सलिलसंवलितबाह्यवायुरूपत्वाद्बाह्यवायुर्वाऽत्र प्राणशब्दार्थः । अमृतत्वहेतुवित्तिविषयत्वं चापेक्षिकत्वादिना कथञ्चिन्नेयमिति प्राणवज्रश्रुत्यनुरोधाद्वायुरेव । ‘‘तदेव शुक्रं तद्ब्रह्मे’’ति ‘‘भयादस्याग्निस्तपती’’ति च प्राचीनपराचीनवचनसंदष्टतया प्रतीयमानं तदेकवाक्यत्वं ‘‘अन्यत्र धर्मादन्यत्राधर्मा’’दिति ब्रह्मप्रकरणं च प्राणवज्रश्रुतिबलाद्बाध्यत इति प्राप्ते सवायुकस्य जगतः ‘‘एजती’’ति कम्पनात् कम्पयितृत्वश्रवणात् अमृतत्वहेतुज्ञानविषयत्वाच्च तयोर्ब्रह्मलिङ्गत्वाद्ब्रह्मैव प्राणः । वज्रशब्दश्च शासकत्वेन भयहेतौ ब्रह्मणि गौणवृत्त्योपपन्न इति न पूर्वापरवाक्यैकवाक्यत्वप्रकरणे बाधनीये । अत एव ‘‘जगत्सर्व’’मिति सर्वशब्दसंकोचोऽप्ययुक्त इति सिद्धान्तः । सूत्रार्थस्तु ‘‘शब्दादेवे’’ति सूत्रात् मण्डूकप्लुत्या शब्दात् प्रमित इति पदद्वयमनुकृष्यते । तथाच कम्पनात् जगत्सर्वमेजतीति कृत्स्नकम्पयितृत्वश्रवणात् । सर्वशब्दादत्र परमात्मैव प्रमित इति । विषयानौचित्येन दूषयति ।। प्रागिति ।। असकृदुक्तेति ।। तथाच ब्रह्मण्यपि प्रसिद्धिरस्तीति, ‘‘प्राणवज्रश्रुतिबलाद्वाक्यं प्रकरणं च भङ्क्तवा वायुः पञ्चवृत्तिराध्यात्मिको बाह्यवायुश्चात्र प्रतिपाद्यत’’ इति भामत्युक्तिरयुक्तेति भावः । प्राणशब्दस्य विषयत्वं निरस्य वज्रशब्दे तु तद्युक्तमित्याह ।। किञ्चेति ।। सूत्रार्थोप्ययुक्तः । हेतूक्तया समन्वीयमानस्योक्तदिशा सद्बीजस्य शब्दविशेषस्याध्याहारेण वज्रं ब्रह्म कम्पनादित्यन्वयसम्भवे क्लेशायोगात् । सर्वशब्दस्य साक्षाद्ब्रह्मप्रापकत्वाभावेनास्वारस्याच्चेति भावः ।। केचित्त्विति ।। श्रुतप्रकाशोक्तमनुवदति ।। शब्दादेवेति ।। नन्वेवं परमात्मपरत्वस्य प्रागेव निश्चयात्सूत्रवैयर्थ्यमित्याशङ्क्याह ।। हेत्वन्तरमिति ।। प्रपञ्चेति ।। तथाच तद्वदेव ‘‘यदिदं किञ्चे’’ति वाक्यं तन्मध्यस्थमप्यन्यपरमिति पूर्वपक्षोयुक्त इति भावः ।। चशब्दस्येति ।।

ननु सूत्रे चशब्दाभावोऽनन्तरपूर्वाधिकरणशेषत्वभ्रमानुदयार्थः । नत्वधिकरणान्तरत्वादिति श्रुतप्रकाश एव समाधानमुक्तमिति चेन्न । चशब्दाभावेपि व्यवहितशेषत्वापेक्षया सन्निहितशेषत्वस्यैव प्रथमप्रतीतेः । अर्थानन्वयादनन्तरशेषत्वाभावे चावश्यकचशब्दप्रयोगेपि तत एव तच्छेषत्वप्रतीतेरभावोपपत्तेरिति भावः । ननु सूत्रे समन्वीयमानशब्दानुक्तेः कथमधिकरणान्तरत्वमित्यत आह ।। सूत्र इति ।। यथात्वन्मतेऽभिव्यक्तेरुपासकानामभिव्यक्तयर्थप्रादेशमात्रत्वं परमात्मन इति साध्यमध्याह्रियते तथाऽत्रापि वज्रं ब्रह्मेति साध्यमध्याहार्यमित्यर्थः ।। साध्यस्येति ।। परमतरीत्या साध्यधर्मविशिष्टस्य पक्षस्येत्यर्थः । स्वमते तु साध्यबोधकस्य तत्पदस्य सर्वत्रानुवर्तनाद्वज्रमिति पक्षस्याध्याहार इति ध्येयम् । एतेन भामतीरीतिमनुसरतः कस्यचिच्छैवस्य मतमपि प्रत्युक्तं बोध्यम् । ‘‘नभस्वतोऽपि सर्वाः स्युश्चेष्टाभगवतो हरे’’रिति ‘‘वर्जनाद्वज्र’’मित्यादिस्मृतिविरोधेन शिव इति सिद्धान्तस्यायुक्तत्वाच्चेति ।।

चन्द्रिकाबिन्दुः

त्वत्सिद्धान्ताभिमतं कम्पनत्वममृतत्वहेतुसंवेदनविषयत्वं च वज्र एवास्तीत्याह ।। किं च ब्रह्मलिङ्गत्वेनेति ।। भयङ्करत्वेनोक्तं कम्पकत्वमुचितं नपुंसकलिङ्गनिर्दिष्टमित्यनेन वज्रस्यैवैतच्छब्देन परामर्शः स्वरस इति सूचयति । तर्हि भवत्पक्षे समन्वेतव्यशब्दानुक्तिर्दोष इत्यत आह ।। सूत्रे हेतुमात्रोक्ताविति ।।

।। इति कम्पनाधिकरणम् ।। ९ ।।