न च सकृत्प्रयुक्तस्यानेकार्थत्वमन्याय्यम्
सकृत्प्रयुक्तस्य शब्दस्योभार्थत्वं युज्यते
तात्पर्यचन्द्रिका
न च सकृत्प्रयुक्तस्यानेकार्थत्वमन्याय्यम् । ‘‘राजा कुवलयोल्लासकारी’’ त्यादिश्लिष्टशब्देषु चन्द्रभूपाद्यनेकार्थत्वदर्शनात् ।
नानार्थविवक्षयाप्यक्षमानयेति प्रयोगाच्च । ‘‘बहुगणवतुडति सङ्ख्ये’’ त्यत्र संज्ञार्थस्यापि सङ्ख्याशब्दस्य ‘‘ष्णांताष्षडि’’त्यत्र षट्संज्ञार्थत्वदर्शनाच्च । ‘‘षष्ठी शेष’’ इत्यत्र शेषशब्दे कर्मादिव्यतिरिक्तार्थत्वोपसर्जनार्थत्वयोः, ‘‘हलन्त्य’’ मित्यत्र हल्शब्दे हकारात्परलकारार्थत्वव्यञ्जनार्थयोर्दर्शनाच्च । ‘‘अग्निर्मूर्धे’’ ति मन्त्रस्य श्रौत आग्नेययागे स्मार्तेंऽगारकजपहोमादौ च,‘‘पवित्रं त’’इति मन्त्रस्येति पवित्रेऽष्टौ दशापवित्रादौ च, ‘‘आप्यायस्वे’’ ति मन्त्रस्य सौम्ये पत्नीसंयाजे सोमरसस्याप्यायने च विनियोगेन तत्तत्प्रकाशनायानेकार्थत्वस्य स्वीकार्यत्वाच्च । ‘‘आयङ्गौ’’रिति मन्त्रस्य ‘‘आत्मदैवतं सौर्यं चे’’ त्यनुक्रमणिकायां ‘‘दिव्यं सुपर्ण’’मिति मन्त्रस्य ‘‘अन्त्यासरस्वते सूर्याये’’ त्यनुक्रमणिकायां ‘‘त्रयःकेशिन’’ इति मन्त्रस्य ‘‘त्रयःकेशिन इत्यग्निः सूर्यो वायुश्चे’’त्यनुक्रमणिकायामनेकार्थत्वोक्तेश्च । निरुक्ते ‘‘आनो भरप्रमगंदस्ये’’ त्यादौ प्रमगन्दादिशब्दानां व्यक्तिविशेषे रूढेः, प्रभूतं धनं मामागमिष्यतीति यो ददाति स प्रमगन्द इति योगस्य चोक्तत्वाच्च ।
वानात्सूतेर्देवनाद्वासुदेवो वासाद्द्युतेश्छादनात्क्रीडया च ।
बलादसुत्वाद्दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः ।।
अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत’’ इत्यादिश्रुतौ ।।
गतिश्च सर्वभूतानां प्रजानां चापि भारत ।
व्याप्ते मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ।
अधिभूतनिविष्टश्च तदिच्छुश्चास्मि भारत ।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञित ।।
इत्यादिस्मृतौ च वैदिकवासुदेवादिशब्दानामनेकार्थत्वोक्तेश्च ।
‘‘स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं ही’’ त्यत्र सुषुप्तिवाक्यस्य व्द्यर्थतायाः सूत्रकारेणैव वक्ष्यमाणत्वाच्च । ‘‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारत’’ इत्यादिस्मृतेश्च । तदुक्तं कर्मनिर्णये भगवत्पादैः ‘‘न च बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम् । वचनेनैव प्रतीयमानत्वात् । अर्थस्य कल्पनाभावा’’दिति । अन्यत्र च
इति बुद्धौ समारोहादुभयोर्योगरूढयोः ।
त्यागे च कारणाभावादुभयार्थत्वमिष्यत ।। इति ।
किञ्च चक्षुषा घटद्वयस्येव युगपदेकेन शक्यार्थद्वयबोधनेन बाधकम् । न च सकृत्प्रयुक्तस्य वृत्तिद्वयं नेति नियमः । गङ्गायां मत्स्यो घोषश्चेत्यादौ तद्दर्शनात् । पङ्कजशब्देन रूढ््या पद्मत्वजातेर्योगेन पङ्कजननस्य च प्रतीतिदर्शनाच्च । न च कर्मविधानाय यजेतेत्यनेनैकवाक्यतामापन्नस्य ज्योतिरादिशब्दस्य ततो व्याघुट््य ब्रह्मज्ञानार्थत्वायोगः । ‘‘सुबामन्त्रिते सहसुपे’’त्यादौ सुबित्यादेःसुपेत्यादिनैकवाक्यतामापन्नस्यापि ततो व्याघुट््य् अनुव्यचलदित्यादौ तिङन्तेन सह समासविधायकत्वदर्शनात् । इष्टसिध्द्यर्थं बहुस्थलेषु योगविभागस्वीकाराच्च । ‘‘भूवादय’’ इत्यादौ वकारस्यैकवाक्यतात्यागेन मङ्गलार्थत्वदर्शनाच्च । ‘‘कम्बलवन्तं न बाधते शीत’’मित्यादावेकस्मिन्नेव वाक्ये प्रश्नोत्तररूपत्वदर्शनाच्च । न च पुंवाक्यस्याभिप्रायपरतन्त्रत्वात्तदनुरोधादनेकार्थता । न त्वपुंवाक्यस्येति शंक्यम् । पुंवाक्येऽप्यनेकार्थाभिप्रायलिङ्गाभावे तदयोगात् । अपुंवाक्येऽप्यनेकार्थतात्पर्यज्ञापकस्य सत्त्वे तस्यानिवार्यत्वात् । पुंवाक्येऽभिप्रायेण शक्तिसङ्कोचादेकार्थता । वेदे तु तदभावाद्बाधकभावे यावद्वाक्यार्थतेत्येव न्याय्यत्वाच्च । तदुक्तं शाबरभाष्ये ‘‘परार्थो हि वेदो यथाऽनेन कर्तुं शक्यं तस्मा एष समाम्नाय’’ इति । ‘‘तेजो वै घृतं प्रतितिष्ठन्ति ह वा एता रात्रीरुपयन्ती’’त्यादौ प्राशस्त्यपरार्थवादपदा(न्त)तरैःसह प्राशस्त्यलक्षकाणामपि घृतादिशब्दानां स्वार्थभूतघृतादिपरत्वस्यापि दर्शनाच्च । ‘‘अभित्वाशूरनोनुमो नत्वावा अन्य’’ इति व्द्यृचे आद्या बृहती उत्तरा पङ्क्तिरिति स्थिते ‘‘पूर्वा बृहती ककुभावुत्तरे’’ इति श्रुतिबलाद्बृहत्या आद्याया ऋचश्चतुर्थपादं पङ्क्तेरुत्तरस्या ऋचः पूर्वार्धेन प्रग्रथ्यैकां ककुभं संपाद्य तस्यां ककुभि चरमं पादं पङ्क्तेरुत्तरार्धेन प्रग्रथ्य ककुभन्तरं सम्पाद्यमिति नवम उक्तत्वेनाद्यऋगादिस्थपादस्य द्वितीयऋगादावन्वय दर्शनाच्च । ‘‘अपाःपूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते । ममद्धिसोमं मधुमन्तमिन्द्रसत्रावृषं जठर आवृषस्वे’’तिसंहितास्थाया याज्याया ‘‘एवाह्यो वै वापाः पूर्वेषां हरिवः सुतानामेवैवाहीन्द्रमथो इदं सवनं केवलं ते । एवाहि शक्रो ममद्धिसोमं मधुमन्तमिन्द्रवशी हि शक्रः सत्रावृषं जठर आवृषस्वे’’ त्यारण्यकस्थेन ‘‘एवाह्येवैवे’’त्यादिनाऽन्वयदर्शनाच्च । ‘‘आदित्तेहर्यताहरीव वक्षतु’’ रित्यस्य ‘‘जुषाण इन्द्रहरिभिर्न आगही’’त्यादेश्च ‘‘आदित्तेह जुषाण इन्द्रहरिभिर्न आगही’’तिव्यतिषङ्गदर्शनाच्च ।
प्रकाशिका
नानार्थेति ।। विदेवनाक्षविभीतकाक्षरथचक्राक्षाद्यभिप्रायेणेत्यर्थः । लौकिकोदाहरणमुक्त्वा शास्त्रीयोदाहरणमाह ।। बहुगणेति ।। आद्याध्यायस्याद्यपादे । बहुशब्दो गणशब्दो वतुप्रत्ययांतो डति प्रत्ययांतश्चेत्येते सङ्ख्यासंज्ञा भवन्ति । बहुकृत्वः गणकृत्वः तावत्कृत्वः कतिकृत्वः इत्यादौ ‘‘सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्व सुजि’’त्युक्तकृत्वसुजर्थम् । तथा च तत्र संज्ञार्थत्वे सिद्धे ‘‘ष्णान्ताष्षडि’’त्यत्र ष्णान्तेति स्त्रीलिङ्गनिर्देशेन प्राक्तनं सङ्ख्यापदमनुवृत्य षकारान्ता नकारान्ता च या सङ्ख्या सा षट् संज्ञा भवति । षट्पञ्चेत्यादौ ‘‘षड्भ्यो लु’’गिति विहितप्रत्ययलुक्सिद्ध्यर्थम् । तथा च तत्र षट्पञ्चादिसंज्ञिपरत्वमुक्तम् । उक्तं च महाभाष्ये ‘‘इदं प्रकृतमुत्तरत्रानुवर्तिष्यते । इदं वै संज्ञार्थम् । उत्तरत्र संज्ञिविशेषणेनार्थ’’ इत्यादि । ननु नेदं सकृत्प्रत्युक्तम् । किं त्वनुवृत्तमिति चेत्तर्हि वैदिकशब्दोऽपि पुनरनुसंहितोऽर्थान्तरपरोऽस्तु । अविगीतमन्यं दृष्टान्तमाह ।। षष्ठीति ।। द्वितीयाध्यायतृतीयपादे ‘‘षष्ठी शेष’’ इति सूत्रम् । ‘‘कारकप्रातिपदिकार्थव्यतिरिक्तस्वस्वामिभावसम्बन्धादिश्शेषः । तस्मिन् शेषे षष्ठी स्यात् । यद्वाऽप्रधानं शेषः । तेन द्वयोः पर्यायेण वा न स्यात् । राज्ञःपुरुष’’ इति प्रक्रियाकौमुद्यां तस्य व्याख्यातत्वादिति भावः । भाष्यादौ द्य्वर्थत्वस्यास्फुटत्वादाह ।। हलंत्यमित्यत्रेति ।। प्रथमस्य तृतीयपादे ‘‘हलंत्य’’मिति सूत्रम् । तस्यार्थः । धातुप्रभृतेर्वर्णसमुदायस्य यदंत्यं हल् तदित्संज्ञकं भवतीति । ‘हृञ् हरण’ इत्यादावनुबन्धलोपस्तस्य प्रयोजनम् । तत्र ‘‘शषसर्, हल्’’ इत्यत्र यो लकारस्तस्येत्संज्ञायां सत्यां ‘‘आदिरंत्येन सहेते’’त्यनेन ‘‘हयवरडि’’त्यत्रस्थाद्यहकारस्य हलिति लकारेण हलिति प्रत्याहार उपपद्यते । सति च प्रत्याहारे ‘‘लणि’’त्यत्र लकारस्य हल्त्वात्तस्यैव ‘‘शषसर्, हल्’’ इत्यत्रांते निर्दिष्टत्वादित्संज्ञा तदाश्रयश्च प्रत्याहार इतीतरेतराश्रयत्वाद्वलिति प्रत्याहारानुपपत्तिमाशङ्क्य समाहितं भाष्ये ‘‘एकशेषनिर्देशोऽयम् । हल् च हल् च हल् । हलंत्यमित्संज्ञं भवती’’ति कैयटे च ‘‘हस्य ल् इत्येकस्तत्पुरुषः । द्वितीयः प्रत्याहार’’ इत्युक्तम् । वृत्तौ च ‘‘हस्य ल् हलिति । द्वितीयं हल्ग्रहणं तंत्रेणोपात्तं द्रष्टव्य’’मित्यादि । तथा च हल्शब्दस्य सकृत्प्रयुक्तस्य ‘‘शषसर्, हल्’’ इत्यत्र हकारसमीपस्थतत्परलकारार्थत्वं अज्व्यतिरिक्तहल्प्रत्याहारपतितहकारादिसर्वव्यंजनार्थत्वं च दृष्टमिति प्रकृतेऽपि तथेत्यर्थः ।
ननु भवतु पौरुषेये वक्तृविवक्षयाऽनेकार्थत्वं न त्वपौरुषेय इत्यत आह ।। अग्निरिति ।। ‘‘मूर्धन्वती पुरोऽनुवाक्या भवती’’ति ब्राह्मणेनाग्नेये विनियोगः । ‘‘अग्निर्मूर्धादिव इति मन्त्रं भौमाय कीर्तयेत् । उद्वुध्यस्वाग्न इति मन्त्रं सोमस्य सुताय वा’’ इति स्मृत्या जपादौ विनियोग इति ‘‘अग्निर्मूर्धादिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वती’’ति मन्त्रस्याग्न्यर्थत्वमङ्गारकार्थत्वं च यथा तथेत्यर्थः । श्रौतार्थद्वयपरत्वे दृष्टान्तमाह ।। पवित्रेष्टाविति ।। ‘‘यदि पवित्रं नश्येत्का तत्र प्रायश्चित्तिरिति सोऽग्नये पवित्रवतेऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्य याज्यानुवाक्ये पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पत इती’’ति पवित्रनाशनिमित्तकेष्टौ ब्राह्मणेन विनियोगः । तथा ‘‘तस्मिन्नुदीचीनदिशं पवित्रं वितन्वन्ति । पवित्रं ते विततं ब्रह्मणस्पत इति वितत्यमानमभिमन्त्रयते यजमान’’ इत्यापस्तंबसूत्रेणोद्गातृभिर्द्रोणकलशोपरि वितत्यमानपवित्रानुमन्त्रणे विनियोग इति ‘‘पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः’’ इत्यादिमन्त्रस्य यथा पवित्रवदग्निदेवतार्थत्वं दशापवित्रार्थत्वं च तथेत्यर्थः । आप्यायस्व शंते इह त्वष्टारमग्रियं इत्यादिमन्त्राणां मन्त्रकाण्डे पत्नीसंयाजे क्रमेणाम्नानादाद्ये सौम्यपत्नीसंयाज आद्यस्य ‘‘आप्यायस्व समे तु ते विश्वतस्सोमवृष्णिय’’मिति मन्त्रस्य क्रमरूपप्रमाणेन विनियोगः ‘‘आप्यायस्वेति सोममाप्यायती’’ति सूत्रेण सोमरसाप्यायने च विनियोग इति सोमरसाप्यायनाद्यर्थत्वं तथेत्यर्थः । नन्वर्थान्तरस्य वचनवृत्त्याऽप्रतीतेरदृष्टार्थत्वेनापि विनियोगसम्भवान्नानेकार्थत्वमित्यत उक्तं तत्तत्प्रकाशनायेति ।। मुख्यवृत्त्यसम्भवेऽपि गौणलक्षणादिनाऽर्थान्तरस्य कल्पनीयत्वात् । दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात् । अत एव तृतीयस्य द्वितीयपादे ‘‘वचनात्त्वयथार्थमैन्द्री स्या’’दिति द्वितीयाधिकरणे ‘‘ऐंद्य्रा गार्हपत्यमुपतिष्ठत’’ इति विनियोगबलाद्गौणवृत्त्या गार्हपत्याऽग्निप्रकाशनायेन्द्रशब्दस्याग्न्यर्थत्वमुक्तम् । उक्तं च ‘‘स्यादग्नेर्गौणमिन्द्रत्व’’मित्यादि । ‘‘अर्थाभिधानसंयोगात् मन्त्रेषु शेषभावस्स्या’’ दित्यधिकरणे मुख्यवृत्त्यैव मन्त्राणामर्थाभिधानमिति वर्णनं त्वसति प्रमाणान्तरे । उक्तं च ‘‘गौणे सदपि सामर्थ्यं न प्रमाणान्तरं विना । आविर्भवती’’त्यादि । नन्वेवं तत्रेव प्रकृतेऽपि मुख्यामुख्यवृत्त्यैवानेकार्थत्वं स्यान्न तु मुख्यवृत्त्यैवेति चेत्सत्यम् । परममुख्यमुख्यवृत्तिभ्यामेव भगवत्तदन्यरूपार्थद्वयस्वीकारेण न्यूनाधिकवृत्त्याऽर्थद्वयस्य प्रकृतेऽप्यविरोधात् । न्यूनवृत्तेश्च गौणादित्वमेवेति तु निर्मूलम् । अत एवोक्तं प्राक् ‘‘युक्तं च मुख्यवृत्तावेव योगरूढ्योरिव तारतम्य’’मिति । न केवलं विनियोगबलेनार्थान्तरत्वं कल्प्यमिति कण्ठत उक्तं चेत्याह ।। आयं गौरिति ।। अष्टमाष्टकस्याष्टमेऽध्याये ‘‘आयं गौस्सार्पराज्ञ्यात्मदैवतं सौर्यं चे’’त्युक्तम् । तथा द्वितीयाष्टकस्य द्वितीयेऽध्याये ‘‘अस्य द्विपञ्चाश’’दित्युपक्रम्य ‘‘उक्षाणं पृश्निमिति सोमस्त्रयः केशन इत्यग्निस्सूर्यो वायुश्चे’’त्युक्त्वा ‘‘अंत्या सरस्वते सूर्याय वे’’त्युक्तमनुक्रमणिकायाम् । तत्रांत्या केत्याकांक्षायां ‘‘दिव्यं सुपर्णमिति मन्त्रस्ये’’ति स्वयं प्रदर्शितम् । योगरूढिभ्यामनेकार्थत्वमित्यत्रैव संमतं दृष्टान्तमाह ।। निरुक्त इति ।। मन्त्राधिकरणे ‘‘अनित्यसंयोगान्मन्त्रानर्थक्य’’मिति गुणसूत्रे ‘‘किं ते कृण्वंति कीकटेषु गावो नाशिरं दुह्रेन तपंति धर्मम् । आनो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्नंधयान’’ इत्युदाहृत्य हे मघवन् कीकटेषु वर्तमाना गावः तव किं करिष्यन्ति । यतः आशिरं सोमसंस्कारार्थद्रव्यं विलोलितं दधि एता न दुह्रे न च धर्मं प्रवर्ग्यं प्रति क्षीरादिदानेन न तपन्ति न साधनीभवन्ति । अतः प्रमगन्दस्य कीकटदेशाधिपते राज्ञः वेदः धनं नः अस्मान्प्रत्याहर । नः अस्माकं नैचाशाखं नामनगरं रंधय साधयेति राजविशेषानित्यार्थकत्वेनाप्रामाण्यमाशङ्क्य ‘‘उक्तश्चानित्य संयोग’’ इति सूत्रे प्रकृष्टं मे गतकालीनं धनमधमर्णो दास्यतीति बुद्ध्या धनप्रयोक्तेति योगेन प्रमगन्दः कुसीदवृत्तिस्सदाऽस्ति देश इत्यनित्यसंयोगः परिहृत इति योगरूढिभ्यामर्थद्वयं निरुक्तरूपवेदाङ्गग्रन्थसिद्धमिति ज्ञायते । अन्यथा तन्न स्यादिति भावः । आदिपदेन नैचाशाखपदं ग्राह्यम् । तत्रापि रूढ्या नगररूपार्थस्य नीचाश्शाखाः षण्डाः । तदीयं धनं नैचाशाखमिति योगस्य चोक्तेः । योगेनैवानेकार्थत्वे स्थलान्तरमाह ।। वानात्सूतेरिति ।। यद्वा अनेकार्थत्वं श्रुत्यैवोक्तमित्याह ।। वानादिति ।। यद्वा अलौकिके हरावेकैकवैदिकशब्दस्यानेकार्थत्वं श्रुत्यादिसिद्धमिति श्रुतिस्मृती आह ।। वानात् ज्ञानात् । वा गतिगन्धनयोरित्यतो विच् प्रत्ययः । सूतेः उत्पादनात् । षूञ् प्राणिगर्भविमोचन इति धातोर्डुप्रत्ययः । देवनात् क्रीडादेः । दीव्यतेरच् । वाश्चासौ सुश्चासौ देवश्चेति विग्रहः । वासात् सर्वत्र वासकर्तृत्वात्सर्ववासाधिकरणत्वाद्वा वस निवास इत्यस्मादुण् प्रत्ययः । द्युतेर्देवः । वासुश्चासौ देवश्चेति द्वितीयोऽर्थः । छादनात् सर्वत्र व्यापनात् । अविद्यादिनावरणाद्वा । वस आच्छादन इत्यस्मादुण् । क्रीडया देवः । पूर्ववद्विग्रहः । इति तृतीयः । बलात् वाः असुत्वात् प्राणरूपत्वादसुः । दातृतः सर्वदातृत्वात् । ददातेरेकारः । ‘‘कृन्मेजन्त’’ इत्यव्ययम् । वर्तमानत्वास्सर्वत्र वः । वृतु वर्तने । ततो डः । वाश्चासावसुश्चासौ दे चासौ वश्चेति विग्रहः । इति चतुर्थोऽर्थः । इयं च सौकरायणश्रुतिः कर्मनिर्णयटीकायां व्याख्याता । लोकेऽन्यत्र निरूढनाम्नस्तथात्वे श्रुतिमाह ।। अद्यत इति ।। तैत्तिरीयश्रुतौ सर्वभूतैरद्यत्वादुपजीव्यत्वात्सर्वभूतसंहर्तृत्वाच्चान्नमुच्यते । अद भक्षण इत्यतः कर्मणि कर्तरि च निष्ठाप्रत्यये ‘‘रदाभ्यां निष्ठातो नः पूर्वस्य च द’’ इति नत्वेऽन्नमिति रूपमित्यन्नशब्दस्य कर्मत्वकर्तृत्वरूपानेकार्थत्वमुच्यते । आदिपदेन ‘‘अथ कस्मादुच्यते ब्रह्मेति बृहति बृहयति चे’’ति श्रुतिर्गृह्यते । स्मृतिसंमतं चानेकार्थत्वमित्याह ।। गतिश्चेति ।। गच्छंत्यनेनेति गतिः । भूतानां पृथिव्यादीनाम् । प्रजानां ब्रह्मादीनाम् । वी गतिव्याप्तिप्रजनकांत्यसनखादनेष्वित्यतो गत्यर्थात्क्स्नुप्रत्ययो धातोर्ह्रस्वश्चेत्याद्योऽर्थः । मे मया । रोदसी द्यावापृथिव्यौ व्याप्ते । विष्लृ व्याप्तावित्यतः कुप्रत्यय इति द्वितीयः । कांतिः कमनीयता । वश कांतावित्यतो नुप्रत्ययो धातोरकारस्येकारः शकारस्य षकारः । वी गतीत्यतो वा कान्तिकर्मणि क्स्नुरिति तृतीयः ।। अधिभूतेति ।। विश प्रवेशन इत्यतः क्नुःषत्वं चेति चतुर्थः । तदिच्छुः अधिभूतस्य जन्मादीच्छुः । कान्तिरिच्छा । वयतेर्वष्टेश्च पूर्ववद्रूपमिति पञ्चमः । क्रमणात् त्रिविक्रमरूपेण पादविक्षेपात् । पूर्ववद्वयतेर्गत्यर्थात्पूर्ववत्कर्तरि प्रत्यय इति षष्ठः ।। स्मृताविति ।। दशमगीताभाष्योक्तमोक्षधर्मस्मृतावित्यर्थः । एवमेव तत्र टीकायां व्याख्याता । आदिपदेन ‘‘यच्चाप्नोति यदादत्त’’ इत्यादिका स्मृतिर्गृह्यत ।
सकलशाखानिर्णायकेन सूत्रकृतैव श्रुतेरनेकार्थत्वमुक्तमित्याह ।। स्वाप्ययेति ।। एवकारेण तदुक्तावविगानमाह ।। चतुर्थस्य चतुर्थपादे ‘‘तीर्णोहि तदा सर्वान् शोकान्हृदयस्य भवती’’ति वाक्यस्य स्वर्गस्थपरत्वमाशङ्क्य सुप्तिमुक्तयुभयापेक्षमिदं वाक्यम् । अपितृत्वादिपुण्यपापाद्यसङ्गत्वादिलिङ्गश्रवणादिति वक्ष्यमाणत्वादित्यर्थः । ननु तत्सूत्रं न प्रकृतानुगुणम् । अन्यतरशब्देनैकार्थत्वस्यैव प्रतीतेः । अन्यथा स्वाप्ययसम्पत्त्यपेक्षमित्येतावतैव पूर्तेरन्यतरापेक्षमिति व्यर्थमिति चेन्न । स्वाप्ययसम्पत्त्यपेक्षमित्युक्तौ स्वाप्यये मोक्षे या सम्पत्तिस्सुप्तिः तदपेक्षं तद्विषयमिति बुद्धिस्स्यात् । तन्निवृत्त्यर्थं स्वाप्ययसम्पत्त्योर्मध्येऽन्यतरापेक्षमित्युक्तत्वात् । अन्यथैकार्थत्वे वस्तुनि विकल्पायोगेन स्वाप्ययापेक्षमिति वा संपत्त्यपेक्षमिति वा ब्रूयात् । ननु सम्बन्धे षष्ठीमङ्गीकृत्य स्वाप्ययसम्पत्त्योरित्येव कुतो न कृतम् । उच्यते । ‘‘अनेकार्थस्यास्यैकार्थव्याख्याने रुचिरेव व्याख्यातुः प्रमाणं न मुख्यामुख्यताविशेषोऽस्तीति सूचयितुमन्यतरापेक्षमित्युक्त’’मिति कर्मनिर्णयटीकायामेवोक्तेरिति भावः । ननु क्वचिन्मानांतरेणानेकार्थत्वेपि न सर्वत्र वेद इत्यत ऋग्भाष्योक्तस्कान्दस्मृतिमाह ।। त्रयोर्था इति ।। ‘‘विष्णोस्सहस्रनामापि निरंतरशतार्थक’’मिति स्मृतिशेषः । ‘‘एकस्तावत्प्रसिद्धेन्द्राग्न्यादिरूपः । अपरस्तु तदन्तर्गतेश्वरलक्षणः । अन्योऽध्यात्मरूप’’ इति ऋग्भाष्यव्याख्यानोक्तिः । नन्वनेकार्थतायां कथं न कल्पनागौरवमित्यत आह ।। तदुक्तमिति ।। बह्वर्थेष्वित्यनेकार्थकत्वोपलक्षणम् । अन्यत्रचेति ।। अत्रैवानुव्याख्यान इत्यर्थः । इतिशब्दस्य ‘‘योगानां परमां सिद्धिं परमं ते पदं विदु’’रितीति पूर्वेणान्वयः ।। योगेति ।। योगवृत्तिविषयः परमेश्वरः । रूढःप्रसिद्धः प्रकृत्यादिः । एवं नानेकार्थत्वमन्याय्यम् । प्रमाणैरेवानेकार्थत्वस्य दर्शितत्वादित्युक्तम् । इदानीं युक्तं चानेकार्थत्वं प्रमाणान्तरस्येवशब्दस्येत्याह ।। किं चेति ।। यद्वा शब्दस्यानेकार्थत्वं प्रमाणैस्समर्थ्य बाधकाभावेनापि समर्थयते ।। किञ्चेति ।। तत्र बाधकमाशङ्कते ।। न चेति ।। किं मुख्यामुख्यवृत्तिद्वयं नेति किं वा मुख्यवृत्तिद्वयं नेति । आद्य आह ।। गङ्गायामिति ।। द्वितीय आह ।। पङ्कजेति ।। बाधकान्तरमाशङ्कते ।। न चेति ।। एकवाक्यतामिति ।। ज्योतिश्शब्दस्य नामतया यजिधात्वर्थावच्छेदकत्वेन ज्योतिषा यागेन समीहितं कुर्यादिति वा ज्योतिर्नामको यागस्समीहितसाधनमिति वा एकवाक्यतामापन्नस्येत्यर्थः ।।
सुबामन्त्रित इति ।। अयमर्थः । ‘‘सहसुपे’’ति सूत्रे ‘‘सुबामन्त्रिते पराङ्गवत्स्वर’’ इत्यतस्सुबित्यनुवर्तते । सुबन्तं सुबन्तेन समस्यते । अधिकारसूत्रमिदम् । लक्षणसूत्रं च । यस्य लक्षणं नास्ति तस्य समासविधायकमिति । तत्र सहेति योगविभागोऽङ्गीकृतस्तिङंतेन समाससिद्ध्यर्थम् । तथाच सुबित्यस्य सुपेति तृतीयांतेनान्वितस्यापि सुप्सह समस्यते समर्थेन तिङंतेनेत्यप्यर्थदर्शनादिति । उक्तं च महाभाष्ये द्वितीयाध्यायाद्यपादे सहसुपेत्यत्र सहग्रहणं प्रत्याख्यायानंतरं ‘‘एवं सिद्धे यत्सहग्रहणं करोति तस्यैतत्प्रयोजनम् । योगाङ्गं यथा विज्ञायेत । सति च योगाङ्गे योगविभागः करिष्यते । सह सुप्सहसमस्यते । केनकेन समर्थेन । अनुव्यचलत् । अनुप्राविशत् । ततः सुपा सुपाच सुप्सहसमस्यते । अधिकारश्चैव लक्षणं चे’’त्यादि ।। अनुव्यचलदिति ।। सुप् सहसमस्यते समर्थेनेति योगे सुबित्येकवचनस्य विवक्षितत्वाद्वीत्यस्याचलदिति तिङंतेन पूर्वं समासस्ततोऽन्वित्यस्येति ध्येयम् ।। इष्टसिद्ध्यर्थमिति ।। ‘‘समासेऽनञ्पूर्वे क्त्वोर्ल्यप् । हलः श्नश्शानज्खा’’वित्यादौ क्त्वः श्नः इत्यादि निर्देशसिद्ध्यर्थं ‘‘आतोधातो’’रित्यत्रात इत्यस्य धातोरित्यनेनान्वितस्यापि ततो विभागेनाधातुनाप्यन्वयस्वीकारात् । एवं ‘‘णेरध्ययनेवृत्त’’मित्यादावपि ध्येयम् । इष्टसिद्ध्यर्थमित्युक्तया नातिप्रसङ्ग इति सूचयति । तदुक्तं कैयटे ‘‘इष्टसिद्ध्यर्थत्वाद्योगविभागस्य नातिप्रसङ्ग’’ इति ।। भूवादय इति ।। आद्याध्यायतृतीयपादे ‘‘भूवादयोधातव’’ इति सूत्रम् । तस्यार्थो भूप्रभृतयो धातुसंज्ञा भवन्तीति । तत्र महाभाष्ये यणादेशे भ्वादय इति स्यादिति भूवादय इति निर्देशानुपपत्तिमाशंक्य ‘‘भूवादीनां वकारोयं मङ्गलार्थः प्रयुज्यत’’ इति वार्तिकेन मङ्गलार्थत्वमुक्तम् । कैयटे च ‘‘अपूर्वस्य लाभो दध्यादेर्लोके मङ्गलं सूचयति । तथेहाप्यागमवकारो मङ्गलार्थस्सम्पद्यते । अथवा सति वकारेऽविकृतभूशब्द उच्चार्यमाणो महाव्याहृतिस्मरणान्मङ्गलं भवतीति पारम्पर्येण वकारो मङ्गलार्थस्सम्पद्यत’’ इत्युक्तम् । तथा च तत्र यथा भुवं वदन्तीति भूवादय इति भुवो वादयो भूवादय इति वा सम्भवत्यन्वये तत्त्यागेन मङ्गलार्थत्वमुक्तम् । अन्यथा ‘‘भुवोवार्थं वदन्तीति भ्वर्थावावादयस्स्मृता’’ इति वृत्तिकाराद्युक्तप्रकारद्वयमेव ब्रूयात् । न तु मङ्गलार्थत्वमिति भावः ।। कं बलवन्तमिति ।। ‘‘काशीतलवाहिनी गङ्गा केदारपोषणरताः कं सञ्जघान भगवान् कं बलवन्तं न बाधतेशीत’’मित्यत्र शीतलवाहिनी गङ्गाकेति प्रश्नस्य काशीतलवाहिनी गङ्गेत्युत्तरं दारपोषणेरताः क इति प्रश्नस्य केदारपोषणरता इत्युत्तरं कृषीवला इत्यर्थः । भगवान्कं पुरुषं सञ्जघानेति प्रश्नस्य कंसं जघानेत्युत्तरं बलवन्तं कं न बाधते शीतमिति प्रश्नस्य कंबलवन्तं कंबलयुक्तं न बाधते शीतमित्युत्तरं इति प्रश्नोत्तररूपत्वदर्शनादित्यर्थः । एकदेशस्यान्यान्वितस्यापि विभागेनार्थान्तरपरत्वे तु भूवादय इत्याद्युदाहरणद्वयम् । तत्राद्यं स्मार्तम् । द्वितीयं लौकिकम् ।
ननु पौरुषेयवाक्ये पुरुषाभिप्रायानुसारेण नानार्थकल्पनेऽपि वेदवाक्ये वक्तुरभावेन नानार्थत्वकल्पकवक्तृतात्पर्याभावान्न नानार्थत्वं युक्तमित्यत आह ।। पुंवाक्य इति ।। वक्तुरभावोऽनेकार्थत्वे गुण एव । न तु दोषायेति भावः । अस्मिन्नेवार्थे मीमांसकसंमतिमाह ।। तदुक्तमिति ।। पञ्चमस्याद्यपादे पञ्चमेधिकरणे ‘‘अर्थकृते वानुमानं स्या’’दिति सूत्रभाष्ये । अध्ययनविधिवशात्पुरुषार्थपर्यवसानादेव सामर्थ्यानुसारेण सर्वत्र विनियोक्तव्य इत्यर्थः ।। तेजोवैघृतमिति ।। अक्ताधिकरणं प्राग्विवृतं समन्वयाधिकरणे । चतुर्थस्य तृतीयपादे ‘‘क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनि’’रित्यष्टमेऽधिकरणे ‘‘प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्ती’’ति वाक्यमुदाहृत्य चिन्तितम् । तत्र रात्रिशब्देन ‘‘ज्योतिर्गौरायु’’रिति वाक्योक्तसौत्यानि कर्माण्युच्यन्ते । तत्र ‘‘प्रतितिष्ठन्ती’’ति किमयं फलविधिरुतार्थवाद इति संशये अपापश्लोकश्रवणवद्वर्तमानापदेशेन फलविध्यसामर्थ्यादर्थवाद इति प्राप्ते रात्रिनामककर्मणां फलापेक्षाणां फलान्तरकल्पनापेक्षया क्लृप्तप्रतिष्ठास्वरूपस्यैव फलत्वकल्पनस्य लघुत्वात् ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति विपरिणामेन फलविधिरिति सिद्धान्त इति । तेजश्शब्दस्य प्राशस्त्यपरत्वेपि घृतशब्दस्य तदाश्रयपरतया न तत्परत्वमित्यतः प्राशस्त्यपरार्थवादपदान्तरैस्सहेत्युक्तम् । घृतादीत्यादिपदेन प्रतिष्ठादिपरत्वस्येति गृह्यते । अन्यान्वितस्य वाक्यस्यान्यान्वय उदाहरणान्तरमाह ।। अभित्वेति ।। नवमस्य द्वितीयपादे ‘‘प्रागाधिकं’’त्विति षष्ठेऽधिकरणे चिन्तितम् । बृहद्रथंतरसामनी ‘‘अभित्वाशूरनोनुमः । त्वामिद्धि हवामह’’ इति बृहत्योरुत्पन्ने । तयोः पङ्क्ती उत्तरे ‘‘नत्वावामन्य’’ इति ‘‘त्वं नश्चित्र’’ इति । तत्र श्रूयते ‘‘न वैबृहद्रथन्तरमेकच्छन्दः । यत्तयोः पूर्वा बृहतीककुभावुत्तरे’’ इति । तस्यार्थः बृहद्रथंतरमित्येतत्सामद्वयमितरसामवदेकच्छन्दस्कं न भवति । यस्मात्तयोर्बृहद्रथंतरसाम्नोराश्रयभूता ऋक् पूर्वा बृहतीछन्दस्का । उत्तरे द्वे ककुप्छन्दस्के इति । तत्र संशयः ‘‘अभित्वाशूरनोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतस्सुवर्दृशमीशानमिन्द्रतस्थुष’’ इति बृहत्या उत्तरत्र पठितां ‘‘नत्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायंतो मघवन्निन्द्रवाजिनो गव्यंतस्त्वा हवामह’’ इति पङ्क्तिछन्दस्कामृचमुपनीय तस्याः स्थाने द्वे ककुभावानेतव्ये उत बृहतीं पङ्क्तिं च प्रग्रथ्य ककुभावुत्तरे अत्रैव सम्पाद्ये इति । पूर्वपक्षस्तु प्रग्रथनेन मुख्यककुप्त्वसम्पत्त्यभावादक्षरसामान्यमात्रेण गौणत्वापत्तेस्तृचगानस्य त्रयमन्तरेणासामंजस्यादन्ययोः ककुभोरानयनमिति । सिद्धान्तस्तु प्रगाथस्मरणात्प्रगाथसमाख्यानात् पङ्क्तेरुत्तरत्र पाठस्यात्यंतानर्थक्यात् ‘‘तद्यत्पदं पुनरारभत’’ इति लिङ्गदर्शनाच्च प्रग्रथनमेवेति ।
तथाचायमर्थः । अभित्वाशूरेत्येषा बृहती प्रथमा स्तोत्रीया । तस्यामविकृतमेव रथंतरं गातव्यम् । तस्यामृचि चतुर्थपादं पुनरुपादायेतरस्याः पङ्क्तेः पूर्वार्धेन सह ग्रथनीयम् । सेयमष्टाविंशत्यक्षरा त्रिपदा द्वितीया स्तोत्रीया । साचैका ककुप्सम्पद्यते । तस्यां च ककुभि चरमं पादं पङ्क्तेरुत्तरार्धेन सह प्रग्रथ्य तृतीया स्तोत्रीया कार्या । साद्वितीया ककुप्सम्पद्यत इति । ‘‘छन्दोगाहि काकुभः प्रगाथा इति स्मरन्ति । प्रकर्षेण गानं यत्र स प्रगाथः । प्रकर्षो नामाम्नातादृक्पाठादाधिक्यम् । तच्चोक्तरीत्या पादाभ्यासपुरस्सरमृगंतरसम्पादनेनोपजायत’’ इति प्रगाथस्मरणं तत्र प्रमाणमुक्तम् । ‘‘सोऽस्यादिरिति प्रगाथेष्वि’’ति सूत्रे ‘‘प्रग्रथ्यत इति प्रगाथ’’ इति मञ्जर्यादावुक्तेश्च । ‘‘एषा वै प्रतिष्ठिता बृहती । या पुनः पदाद्यत्पदं पुनरारभते । तस्माद्वत्सो मातरमभिहिंकरोती’’ति लिङ्गदर्शनं च प्रमाणमुक्तम् । पदं चतुर्थपादमुद्गाता पुनरारभत इत्यर्थः । द्य्वृच इति सप्तमी । स्थिते आम्नाते सतीत्यर्थः ।। इतिश्रुतीति ।। श्रुत्यर्थ उक्तः । यद्यप्यत्रैकत्रान्वितस्यान्यत्रान्वयमात्रमेव प्रतीयते नत्वर्थविवक्षापि । तथाप्यन्यान्वितस्यान्यत्रान्वयमात्रे दृष्टान्तो वा मन्त्रार्थज्ञानपूर्वकगानस्यैव निःश्रेयसहेतुतयाऽर्थविवक्षावश्यंभावाभिप्रायेण वाऽयं दृष्टान्तः । एवमग्रेपि बोध्यम् । अन्यान्वितस्य वाक्यस्य स्थलान्तरस्थान्यान्वयमाश्वलायनसूत्रोक्तं दर्शयति ।। अपाः पूर्वेषामिति ।। याज्याया इति ।। ‘‘उपरिष्टाल्लक्ष्मायाज्ये’’त्युक्तलक्षणाया ऋच इत्यर्थः । ‘‘महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादे’’ष्विति ब्राह्मणेन महानाम्नी शब्दित ‘‘विदामघव’’न्नित्याद्यारण्यकगताक्षराणामेकादशाक्षरपादेषु योग उक्तः । स कथमित्याकाङ्क्षायां ‘‘एवाह्येवैवापाः पूर्वेषा’’मित्यादिनाऽऽश्वलायनसूत्रे प्रदर्शितः । तदुक्तरीत्यान्वयदर्शनाच्चेत्यर्थः । व्यक्तमेतत्कर्मनिर्णयतट्टीकयोः । स्थलान्तरस्थ ऋचोरंशान्वयमाह ।। आदित इति ।।
चन्द्रिकाबिन्दुः
राजेति ।। राजशब्दार्थश्चन्द्रः क्षत्रियश्च । कुवलयशब्दार्थः कुमुदं भूवलयश्च । रूढिस्थले सकृत्प्रयुक्तस्यानेकार्थत्वे उदाहरणमाह ।। नानार्थविवक्षयापीति ।। लोकप्रयोगं दर्शयित्वा व्याकरणस्मृतिप्रयोगं दर्शयति ।। बहुगणवतुडतीति ।। एतस्मिन्नेव सूत्रे विद्यमानस्य पदस्यार्थद्वयपरत्वदृष्टान्तद्वयमाह ।। षष्ठी शेष इति ।। हलन्त्यमिति च ।। वैदिकशब्दस्य असकृत्प्रयुक्तस्यानेकार्थत्वे दृष्टान्तमाह ।। अग्निर्मूर्धेत्यादिना ।। श्रौत एव कर्मद्वये परस्परविलक्षणार्थप्रतिपादनपरं मन्त्रं दर्शयति ।। पवित्रं त इति मन्त्रस्येति ।। एकस्मिन्नेव सोमयागे परस्परविलक्षणकर्मसमवेतार्थप्रतिपादकं मन्त्रमुदाहरति ।। आप्यायस्वेति ।। एवं विनियोगबलेन वैदिकशब्दानामनेकार्थत्वं स्वीकार्यमित्युक्तवा इदानीमनुक्रमणिकाकारेण साक्षादनेकार्थपरत्वं वैदिकशब्दानामङ्गीकर्तव्यमित्युक्तमित्याह ।। अयं गौरित्यादिना वाक्यत्रयेण । तत्राद्यम्, अयं गौरिति सूक्तविषयम् । द्वितीयं दिव्यं सुपर्णमिति दिङ्मात्रविषयम् । तृतीयं केशिशब्दमात्रविषयमिति क्रमः । निरुक्तकारेण अनुक्रमणिकानन्तरं निरुक्तकारीयमनेकार्थकत्वाभ्युपगमं दर्शयति ।। निरुक्त इति ।। व्यक्तिविशेषे कस्मिंश्चिद्राजविशेषे । प्र इत्यक्षरस्यार्थः प्रभूतमिति । मकारस्यार्थो मामिति । गमित्यस्यार्थः आगमिष्यतीति । दकारस्यार्थो ददातीति ।
इदानीं वैदिकशब्दस्य श्रुत्यैवानेकार्थत्वं दर्शितमित्याह ।। वानादिति ।। इदानीं प्रसिद्धश्रुत्यैव वैदिकब्रह्मपरान्नशब्दस्यानेकार्थत्वं दर्शितमित्याह ।। अद्यतेऽत्ति चेति ।। गतिश्च सर्वभूतानामिति वाक्यं गीताभाष्ये व्याख्यातम् । इदानीं निर्णायकसूत्र एव वैदिकशब्दस्यानेकार्थपरत्वं व्युत्पादितमित्याह ।। स्वाप्ययेति ।। अन्यत्र चानुव्याख्यानेऽधिकरणान्तरे । ननु बाधके सति सकृत्प्रयुक्तस्यानेकार्थत्वाभ्युपगमो युक्त इत्यत आह ।। किञ्चेति ।। सकृत्प्रयुक्तस्य शक्तयार्थद्वयपरत्वं न दृष्टमित्यत आह ।। पङ्कजेति ।। ततो व्याघुट्येति ।। ज्योतिरादिशब्दोदितकर्मणां वाक्यसमन्वयपक्षे ब्रह्मज्ञानार्थत्वाङ्गीकारादिति भावः ।। पुंवाक्य इति ।। अभिप्रायानुसारेण पुंवाक्ये शब्दशक्तिसङ्कोचः कर्तव्य इति भावः । ननु तेज आदिपदमेव प्राशस्त्यलक्षकं न घृतादिपदमित्यत आह ।। प्राशस्त्यपरार्थवादेति । तत्साहचर्येण घृतादिपदानामपि प्राशस्त्यपरत्वमिति भावः । अपाः पूर्वेषामित्यादौ व्यतिषङ्गप्रकार ऊह्यः । कर्मनिर्णयप्रदर्शितमार्गेण व्यतिषङ्गप्रकारस्तत्र स्फुटः ।
पाण्डुरङ्गि
ननु च तत्र श्लिष्टशब्दत्वमेवानेकार्थत्वे प्रयोजकम् । तथा च न तद्दृष्टान्तेन ज्योतिरादिशब्दानामनेकार्थत्वसिद्धिरित्यतो दृष्टान्तांतरमाह ।। नानार्थेति ।। नापि सकृत्प्रयुक्तस्यानेकार्थत्वं शास्त्रान्तरेऽदृष्टमिति द्वितीय इत्याह ।। बहुगणेति ।। ननु च तत्र यथाश्रुतस्य सङ्ख्याशब्दस्य संज्ञार्थत्वं अनुवृत्तस्यैव सङ्ख्यार्थत्वं न त्वेकस्यैव शब्दस्यानेकार्थत्व एतद्दृष्टान्तीकरणमित्यत आह ।। षष्ठी शेष इत्यत्रेति ।। नन्वत्रापि शेषशब्दे यदा कर्मादि व्यतिरिक्तार्थत्वं न तदोपसर्जनार्थत्वम् । यदा चोपसर्जनार्थत्वं न तदा कर्मादिव्यतिरिक्तार्थत्वम् । तत्र विकल्पाभ्युपगमादुभयार्थता सम्भवति । न चात्र विकल्पाभ्युपगमः सिद्धान्तिन इष्ट इत्यत आह ।। हलंत्यमिति ।। हलंत्यमित्यनेनेत्संज्ञायामादिरंत्येन सहेतेत्यनेन प्रत्याहारत्वसिद्धिः। तेन च प्रत्याहारत्वे सिद्धे हलंत्यमितीत्संज्ञासिद्धिरित्यन्योन्याश्रयभयादाह ।। हल्शब्द इति ।। नापि वेदेऽदर्शनादिति तृतीय इत्याह ।। अग्निर्मूर्धेति मन्त्रस्येति ।। ननु च तत्र श्रौते स्मार्ते वैकस्य विनियोगेऽपि प्रकृते श्रौत एवोभयत्रैकस्य विनियोगः कथमित्यरुच्याऽऽह ।। पवित्रं त इति मन्त्रस्येति ।। ननु चात्रोभयोः श्रौतत्वेऽपि भिन्नकर्मत्वेन तत्रैकस्य प्रकृत एकस्मिन्नेवैकस्यैवोभयत्र विनियोगः कथमित्यत आह ।। आप्यायस्वेति मन्त्रस्येति ।। यो ददाति स प्रमगन्द इति योगस्येति ।। प्रमगन्दःकुसीदः वृद्ध्युपजीवी प्र प्रभूतं धनं म मां गं गमिष्यति आगमिष्यति द ददातीति । तदपत्यं प्रमगन्दोऽत्यंतकुसीदकुलीनः । तद्धितार्थः प्रशब्देन द्योत्यते । प्रस्कण्व इति यथेत्यर्थः। श्रुतिस्मृत्युक्तत्वाच्चैकस्यानेकार्थताऽभ्युपेयेत्याह । वानादित्यादिना ।
अन्यत्रेति ।। अनुव्याख्यान इत्यर्थः । अत्र पदसमन्वयपक्षे यजेतेत्यस्यापि ब्रह्मपरत्वेन कर्माविधायकत्वमेव परिहारो वक्तुं शक्यते । तथाप्यभ्युपेत्यवादेनाह ।। सुबामन्त्रित इति ।।