अस्त्वानन्दादीनां सतामेवाभिव्यक्तिः
कर्तृधिकरणम्
तात्पर्यचन्द्रिका
जीवस्य पराधीनकर्तृत्वेन विधिविषयत्वसमर्थनम्
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ।।
अस्त्वानन्दादीनां सतामेवाभिव्यक्तिः । कर्तृत्वस्य तु न । तस्य कदाप्यभावादिति पूर्वपक्षोत्थानात्सङ्गतिः । अत्र जीवस्य कर्तृत्वश्रुतिः किं हिताकरणादियुक्तयनुगृहीतया तदकर्तृत्वश्रुत्या बाधितोत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः स्रष्टृत्वादिकमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणं न वेति । तदर्थं जीवस्य कर्तृत्वश्रुतिः किं हिताकरणादियुक्तयनुगृहीतया तदकर्तृत्वश्रुत्या बाधितोत नेति) तदर्थमकर्तृत्वश्रुतिः किं कर्तृत्वमात्रनिषेधपरोत स्वतन्त्रकर्तृत्वनिषेधपरेति । तदर्थं जीवस्येश्वरवत्स्वतन्त्रकर्तृत्वाभावेऽपि परतन्त्र कर्तृत्वमात्रेण विध्यादिविषयत्वमयुक्तमुत नेति ।। न कर्तेति पूर्वपक्ष इति ।। अयं भावः । जीवस्य कर्तृत्वं किं स्वतन्त्रमुत परतन्त्रम् । नाद्यः । श्रुत्यादिविरोधात् । हिताकरणादिदोषप्रसक्तेश्च । द्वितीयेऽपि पारतन्त्र्यं किं कर्तृत्वशक्तेः स्वायत्तत्वेऽपि तक्ष्णः प्रासादादिकारयितृपुमधीनत्ववदीश्वराधीनत्वमात्रं किं वा दारुयोषावदीश्वराधीनचेष्टाकत्वम् । नाद्यः । ‘‘य आत्मानमन्तरो यमयती’’त्यादिश्रुतिविरोधात् । अंत्ये दारुयोषावदेव न जीवो विधिनिषेधविषयः स्यादिति । न्यायविवरणोक्तां पूर्वपक्षयुक्तिमाह ।। कल्पनालाघवं चेति ।।
सिद्धान्तयदिति ।। अयं भावः सूत्रोक्तरीत्या युक्तिप्रत्यक्षश्रुतिभिर्जीवः कर्तैव । न च ‘‘नान्यः कर्ते’’त्यादिश्रुत्या ‘‘इतरव्यपदेशा’’दिति पूर्वोक्तया च विरोधः । तत्र जीवे स्वतन्त्रकर्तृत्वनिषेधात् । इह चास्वतन्त्रकर्तृत्वोक्तेः । परतन्त्रकर्तृत्वेऽपि जीवस्य विध्याद्यविषयत्वं न तावत्पुरुषेण नर्त्यमानदारुयोषावज्जडत्वात् । नापि चेतनत्वेऽपि मत्तस्य मदेनेव दुर्बलस्य प्रबलजलौघादिनेवेश्वरेण बलान्नोद्यमानत्वात् । ईश्वरस्य जीवगतेच्छाद्युत्पाद्यैव प्रवर्तकत्वात् । नापि जीवस्य कर्तृत्वेऽपीश्वरस्यापि कर्तृत्वात् । रथाकर्षणादौ सत्रादौ चान्यस्य कर्तृत्वेऽपि स्वस्य कर्तृत्वमात्रेण विध्यादिदर्शनात् । नापि विष्टिगृहीतस्येव स्वेच्छाधीनप्रवृत्त्याद्यभावात् । जीवप्रवृत्त्यादेरीशाधीनत्त्वेऽपि जीवेच्छाजन्यत्त्वस्यानुभवात् । नापि स्वेच्छामात्राधीनप्रवृत्त्याद्यभावात् । सर्वत्रापि प्रवृत्त्यादेरदृष्टादिजन्यत्त्वेन तस्य विध्याद्यविषयत्त्वातन्त्रत्त्वात् । नापि जीवेच्छादेरपीशेच्छोत्पादितत्त्वात् । पित्राद्युत्पादितेच्छादिमतोऽपि माणवकस्य सन्ध्योपासनादिविध्यादिदर्शनात् । नापि कर्तृत्वशक्तेरीशाधीनत्वात् । अन्वयव्यतिरेकाभ्यामीशाधीनाया एव तस्या विध्यादिविषयत्वे तन्त्रत्वात् । क्वेदमुपलब्धमङ्गभवता ईशाधीनैव सा तत्र हेतुर्न तु तदधीनेति । नापि विध्यादिविषयस्य जीवकृत्यसाध्यत्वात् । असिद्धेः । दृश्यते हि यागादेस्तत्कृतिसाध्यत्वम् । अस्ति हि जीवस्यापीश्वरदत्तं जडं प्रति स्वातन्त्र्यम् । उक्तं हि ‘‘स्वातन्त्र्यं हि जडान् प्रती’’ति । परं तु सा कृतिरदृष्टादिनेवेशेनापि जायते । नापि क्वचिदीश्वरेण जीवकृतिविघातात् । ईश्वरः पुण्यपापादावुदासीन इति पक्षे द्वितीयादिप्रवृत्तावनुमन्तृत्वेऽपि प्रथमप्रवृत्तावुदासीन इति पक्षेऽपीश्वरेण अनीश्वरपक्षेऽप्यदृष्टादिना, अदृष्टाभावपक्षेऽपि दृष्टहेत्वंतरेण पाकादिकृतिविघातदर्शनेन कस्यापि कुत्रापि नियोगानुपपत्तेः । तस्माज्जीवेऽपि विध्यविषयेभ्य ईशजडमुक्तेभ्यो व्यावृत्तस्य स्वसम्बन्धितया विधिज्ञानस्य तज्जन्यायाः फले तत्साधने चेच्छायास्साधनविषयककृतेश्चानुभवसिद्धत्वात्तस्य च ज्ञानादेः ‘‘न ऋते त्व’’दित्यादिश्रुतिभिरीश्वराधीनत्वेऽप्यस्वतन्त्रकर्तृत्वमात्रेण विधिविषयत्वं कर्मफलभाक्त्वं च युक्तम् । एतदेवाभिप्रेत्योक्तं भगवत्पादैर्गीताभाष्ये ‘‘अकर्तृत्वेऽपि विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्योक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति न प्रवृत्तिविधिवैयर्थ्य’’मिति । भारततात्पर्यनिर्णयेऽपि
प्रत्यक्षैषा कर्तृता जीवसंस्था तथाऽगमादनुमानाच्च सर्वम् ।
विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म ।। इति ।
पुण्यपापादिजनकक्रियाविषयजीवगतेच्छाप्रयत्नादौ सर्वत्रेश्वरस्य प्रयोजककर्तृत्वेऽपि जीवनिग्रहानुग्रहयोरीश्वरस्यानादिसिद्धजीवगतयोग्यतापेक्षत्वान्न वैषम्यादीत्युक्तं वैषम्याधिकरणे । कर्माद्यनपेक्ष्य फलदाने शक्तस्यापीश्वरस्य तदपेक्ष्यैव फलं दास्यामीति स्वसङ्कल्पादेव तदपेक्षेति न स्वातन्त्र्यहानिः । उक्तं हि ‘‘एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रते’’ति ।। अयं पर इति ।। ‘‘परात्तु तच्छते’’रिति सूत्रात्पर इत्यनुषज्यत इति भावः ।। विधिनिषेधशास्त्रावैयर्थ्यायैवेति ।। न त्वशक्तस्य स्वस्य साहाय्यार्थमित्यर्थः ।
अन्ये तु ‘‘कर्ते’’त्यादिसूत्रसप्तकमेकमधिकरणम् । तत्र च साङ्ख्यरीत्या बुद्धेः कर्तृतेति प्राप्ते जीवस्येति सिद्धान्तः । ‘‘यथा चतक्षे’’ति सूत्रमधिकरणान्तरम् । तत्र च जीवस्य कर्तृत्वमग्नेरौष्ण्यमिव स्वाभाविकमिति प्राप्ते तक्ष्णः कर्तृत्वं वा स्याद्युपाधिनेवान्तःकरणाद्युपाधिना कल्पितमिति सिद्धान्तः । ‘‘परात्त्वि’’त्यादि सूत्रद्वयमधिकरणान्तरम् । तत्र च जीवस्योक्तं कर्तृत्वमीश्वरानपेक्षमिति प्राप्ते तत्सापेक्षमिति सिद्धान्त इत्याहुः । तन्न । जीवकर्तृत्वाकर्तृत्वश्रुत्योर्विरोधस्य भोक्तृत्वाभोक्तृत्वश्रुत्योरिव त्वदुक्तेन’’ तद्गुणसारत्वा’’दिति न्यायेनैवौपाधिकानौपाधिकविषयतया निरासेनैतदधिकरणस्य वैयर्थ्यात् । साङ्ख्यस्मृतिविरोधस्य चाद्यपादे निरासादिहासङ्गतेश्च ।
प्रकाशिका
‘‘जीवो न कर्ते’’ति टीकासूचितामाह ।। अस्त्विति ।। कर्तृत्वश्रुतिरिति ।। ‘‘यत्कर्म कुरुते तदभिसम्पद्यत’’ इति श्रुतिः ।। श्रुत्येति ।। ‘‘नान्यः कर्ते’’तीश्वरान्यकर्तृत्वनिषेधश्रुत्येत्यर्थः । अस्पष्टत्वादाह ।। अयं भाव इति ।। ‘‘उपलब्धिवदनियम’’ इति सूत्रसम्बद्धटीकां हृदि कृत्वाऽऽह ।। किं स्वतन्त्रमित्यादि ।। ‘‘नान्यः कर्ते’’त्यादिश्रुत्या ‘‘इतरव्यपदेशा’’दित्यधिकरणेन च विरोधादित्यर्थः । ‘‘परात्तु तच्छते’’रिति सूत्रसम्बद्धटीकां विकल्पमुखेन व्यनक्ति ।। किं कर्तृत्वशक्तेरिति ।। ‘‘कृतप्रयत्ने’’ति सूत्रसम्बद्धटीकार्थमाह ।। अंत्य इति ।। इतिशब्दस्यायं भाव इति पूर्वेणान्वयः ।। सूत्रोक्तरीत्येति ।। ‘‘शास्त्रार्थवत्त्वा’’दित्यनेन युक्तेः, ‘‘उपादाना’’दित्यनेन ‘‘मोक्षाद्यर्थं साधनाद्युपादानप्रतीते’’रित्युक्तया प्रत्यक्षस्य, ‘‘विहारोपदेशात् । व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय’’ इत्याभ्यां ‘‘जक्षन् क्रीडन्रममाणः । आत्मानमेव लोकमुपासीते’’त्यादिश्रुतेरुक्तेरिति भावः । एतेन तत्तत्सूत्रभाष्यटीकातात्पर्यार्थसङ्ग्रहः कृतो भवति । ‘‘उपलब्धिवदनियम’’ इत्यादिसूत्रभाष्यटीकातात्पर्यं शङ्कापूर्वं व्यनक्ति ।। न चेति ।। ‘‘कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्य’’ इति सूत्रभाष्यादितात्पर्यं प्रागुक्तशङ्कानिवर्तकत्वेन व्यनक्ति ।। परतन्त्रेति ।। प्रसक्तपक्षान् प्रतिक्षिपति ।। न तावदित्यादिना ।। विध्यादिविषयस्येति ।। ज्योतिष्टोमादियागादेरित्यर्थः ।। उक्तं हीति ।। गीताभाष्ये ।। कृतिविघातादिति ।। जीवस्य विध्याद्यविषयत्वमित्यन्वयः ।। इति पक्ष इति ।। तार्किकपक्षे रामानुजपक्षेऽपीत्यर्थः ।। अदृष्टाभावपक्षेऽपीति ।। चार्वाकपक्षेऽपीत्यर्थः । गीताभाष्ये अष्टादशेऽध्याये ।। अकर्तृत्वेऽपीति ।। अपराधीनकर्तृत्वाभावेऽपि जीवस्य न तं प्रति प्रवृत्तिविधिवैयर्थ्यं कुत इति हेतोरित्यन्वयः । विधिशब्देन तज्ज्ञानमुपलक्ष्यते । इच्छेत्यनेन प्रयत्नोऽपि । उक्तकारणैः अधिष्ठानादिभिः । उपयुक्तमात्रस्यान्वयमुखेनेदमुदाहरणम् । न तु समग्रस्येति न विसंवादश्शङ्क्यः ।।
भारतेति ।। हठवादे । ‘‘उक्तोऽपि दोषपरिहारः स्मारयितुं पुनरत्रोक्त’’ इति टीकावाक्यं व्यनक्ति ।। पुण्यपापेति ।। एतेन स्मारणं व्यर्थमिति प्रत्युक्तम् । विष्णोरेव स्वातन्त्र्ये वैषम्याद्यापत्तेः प्रागुक्तस्मारणेन विनाऽपरिहारादिति ।। उक्तं हीति ।। हठवाद एव भगवत्पादैरित्यर्थः ।। अन्ये त्विति ।। मतान्तरे तु ‘‘यथा चतक्षे’’त्यंतं सूत्राष्टकमेकमधिकरणम् । ‘‘परात्त्वि’’ति योगद्वयमधिकरणान्तरम् । तत्प्रमेयनिरासोऽग्रे व्यक्तः ।। सूत्रसप्तकमिति ।। सूत्राणामर्थोऽग्रे व्यक्तः ।। जीवकर्तृत्वाकर्तृत्वश्रुत्योरिति ।। ‘‘असङ्गो ह्ययमित्यादिश्रुतीनां विध्यादिश्रुतीनां चात्मकर्तृत्ववादिनीनां च विरोधः परिह्रियत’’ इति कल्पतरूक्तया कर्तृत्वाकर्तृत्वश्रुत्योर्विरोधनिरासोऽत्र क्रियते । स च ‘‘तद्गुणसारत्वा’’दित्यत्र बुद्धिगुणप्रधानकत्वादात्मा बुद्धिगुणेनाणुत्वेन ‘‘एषोऽणुरात्मा चेतसा वेदितव्य’’ इति श्रुतौ व्यपदिश्यत इत्युक्तन्यायेनात्राप्यात्मनस्स्वतो कर्तुर्बुद्धिगुणेन कर्तृत्वेन ‘‘यजेते’’त्यादौ तस्य कर्तृत्वव्यपदेशः सेत्स्यतीतीयं चिन्ता नारम्भणीयैव । यथा भोक्तृत्वाभोक्तृत्वश्रुत्यो र्विरोधस्तेनैव निरस्त इति नाधिकरणान्तरारम्भस्तद्वत् । अन्यथा तदर्थमधिकरणान्तरा रम्भस्स्यादित्यर्थः । नन्वेतदेवाशङ्क्योक्तं भाष्यभामत्योः ‘‘तस्यैवैष प्रपञ्च’’ इतीति चेन्न । प्रपञ्चनस्यापि व्यर्थत्वात् । ननु प्रकृतिरेव कर्त्रीति साङ्ख्यपक्षनिरासार्थोऽयमारम्भ इति चेन्न । प्रकृतिगतस्य वाऽन्तःकरणगतस्य वा कर्तृत्वस्यात्मन्यारोप इत्यस्य मतद्वयेऽपि संमतत्वेन तन्निरासस्यापि व्यर्थत्वात् । सूत्रे विशेषस्याप्रतीतेश्चेति भावः । दोषान्तरं चाह ।। साङ्ख्येति ।। ‘‘स्मृत्यनवकाशदोषप्रसङ्ग’’ इत्यत्रेति भावः ।। इहेति ।। श्रुतिविगाननिरासस्यैवेह सङ्गतत्वेन तत्र चात्मनः कर्तृत्वाकर्तृत्वयोरेव श्रवणेन त्वदभिमतनिरसनीयस्याप्रतीतेरिति भावः ।
चन्द्रिकाविवृतिः
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ।। तस्य कदाप्यभावादिति ।। पूर्वमविद्यमानस्य कर्तृत्त्वस्याभि-व्यक्तययोगादित्यत्रेति भावः ।। श्रुत्यादिविरोधादिति ।। नान्यः कर्तेत्यादि परमात्मव्यतिरिक्तस्वतन्त्र-कर्तृनिषेधपरश्रुत्यादिविरोध इत्यर्थः ।। आत्मानमन्तरो यमयतीति ।। अस्यां श्रुतौ हि जीवगतमपि कर्त्तृत्त्वमीश्वरायत्तमेवेति प्रतीयत इति भावः ।। सूत्रोक्तरीत्येति ।। कर्तेति सूत्रे युक्तिः उपादानादित्यत्र प्रत्यक्षं विहारोपदेशादित्यत्र श्रुतिरिति द्रष्टव्यम् ।। इह कर्तेति सूत्रे ।। ननु परतन्त्रकर्तृत्त्वे जीवस्य दारुयोषावत् विध्याद्यविषयत्त्वं स्यादित्युक्तमित्यत आह ।। परतन्त्रकर्तृत्त्वेऽपीति ।। नापि चेतनत्त्वेऽपीति ।। नापीश्वरेण बलात् नोद्यमानत्त्वात् जीवस्य विध्याद्यविषयत्त्वं पूर्वेण योजना द्रष्टव्या ।। एवमुत्तरत्रापीत्यादिषु योजना द्रष्टव्या ।। स्वेच्छामात्राधीनप्रवृत्त्यभावात् विध्याद्यविषयत्त्वमिति वदतः कोऽभिप्रायः । कारणान्तरानधीनत्त्वमेव विध्याद्यविषयत्त्वे तन्त्रं उत कर्त्रंतरानधीनत्त्वं वा अथवा अन्येच्छानधीनेच्छावत्त्वं वेति विकल्प्य क्रमेण दूषयति ।। नापि स्वेच्छामात्रधीनेत्यादिना ।। तस्याः ईश्वराधीनकर्तृत्त्वशक्तेरेव ।। सा कर्तृत्त्वशक्तिः । तत्र विध्यादिविषयत्त्वे ईश्वरे व्यभिचारादिति भावः ।। ननु यदि जीवे स्वातन्त्र्यं तर्हि परमात्मनः स्वातन्त्र्यमिति न स्यादित्यत आह ।। परं त्विति ।। द्वितीयादिप्रवृत्तावनुमन्तृत्त्वेऽपीत्यादीनामित्यर्थः । इतरव्यपदेशादित्यधिकरणे केषाञ्चिन्मतोपन्याससमये लिखितः ईश्वरस्य कर्माद्यपेक्षत्त्वे स्वातन्त्र्यहानिरित्यत आह ।। कर्माद्यनपेक्ष्येति ।। कल्पतरुकाराद्युक्तरीत्या कर्तृत्त्वाकर्तृत्त्वश्रुत्योर्विरोधः परिह्रीयते वा भाष्यरीत्या सांख्यस्मृतिविरोधो वेति विकल्प्याद्यं दूषयति ।। तन्नेति ।। ननु तद्गुणसारत्त्वादित्यत्राणुत्त्वमहत्त्वश्रुत्योरेव विरोधपरिहारः क्रियते । तथा च तदधिकरणं तन्मात्रविषयमेवेत्यत आह ।। भोक्तृत्त्वेति ।। भोक्तृत्त्वाभोक्तृत्त्वश्रुतिविरोधपरिहारस्तु तद्गुणसारत्त्वादिन्यायेनाङ्गीकृतः परेणैवेति भावः ।।