अन्ये तु
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु ।। अध्ययनस्य पिण्डपितृयज्ञवत्स्वर्गार्थत्वेन पुरुषार्थतया स्वाध्यायसंस्कारत्वाभावादधीतेनैव स्वाध्यायेन जन्यब्रह्मज्ञानान्मोक्ष इति नियमाभावात् शूद्रस्याप्युपनयनाभावेऽपि पुस्तकपठितस्वाध्यायजन्यादपि ब्रह्मज्ञानान्मोक्ष इति शूद्रस्यापि अस्ति ब्रह्मविद्याधिकार इति प्राप्ते दृष्टे सम्भवत्यदृष्टस्याकल्प्यत्वेनाध्ययनस्य स्वाध्यायसंस्कारत्वेनोक्तनियमसम्भवात्पुस्तकपठितस्वाध्यायजन्यज्ञानान्न मोक्ष इति न शूद्रस्य वेद विद्याधिकार इति सिद्धान्तः ।
न चैवं पूर्वतन्त्रस्थापशूद्राधिकरणेन गतार्थता । तत्राप्यनधीयानस्य शूद्रस्याधीतस्वाध्यायजन्यविद्यासाध्यकर्मानधिकारार्थं विद्याभावोक्तेरिति वाच्यम् । तत्रानग्नेः शूद्रस्याग्निसाध्यकर्मानधिकार इत्येवोक्तया विद्याभावानुक्तेरित्याहुः । तन्न । तत्रापि ‘‘अवैद्यत्वादभावः कर्मणि स्या’’दिति सूत्रेऽवैद्यत्वग्रहणेन शूद्रस्य विद्याभावोक्तेः । ननु तत्रावैद्यत्वमभ्युच्चयमात्रम् । अध्ययनस्य संस्कारत्वानुक्तेः । इह तु ‘‘संस्कारपरामर्शा’’दित्यनेन तदुक्तिरिति चेन्न । त्वयापीह सूत्रे संस्कारशब्द उपनयनरूपसंस्कारार्थ इत्युक्तत्वेनाध्ययनस्य स्वाध्यायसंस्कारत्वानुक्तेः । किं चास्मद्रीत्या ‘‘स्वाध्यायोऽध्येतव्य’’ इति त्त्वयो(तव्यो)क्त दृष्टार्थगुणकर्मत्वस्य स्वीकारेण पूर्वपक्षसम्भवे तदस्वीकारेण स न युक्तः । अपि च पूर्वतन्त्रे प्रथमसूत्र एवाध्ययनस्य दृष्टार्थताया उक्तत्वात्तेन गतार्थत्वस्य न परिहारः । कथं च त्वन्मते गतार्थत्वाशङ्का । ऐकशास्त्र्याभावात् । तत्रोक्तस्य वेदनित्यत्वादेरिहापि ‘‘अत एव च नित्यत्व’’ मित्यादावुक्तयंगीकाराच्च ।
किं च सिद्धान्ते ‘‘तदभावाभिलापाच्चे’’ति सूत्रे शूद्रोपनयनाभावस्य ‘‘श्रवणाध्ययनार्थप्रतिषेधाच्चे’’ति सूत्रेऽध्ययनाभावस्य चोक्तत्वेनोपनयनाध्ययने उपेत्यैव पूर्वपक्षयितव्यम् । अध्ययनस्य प्रधानकर्मत्वेन पूर्वपक्षे हि सिद्धान्ते तस्य गुणकर्मतैव वाच्या । अपि च–
दशमस्त्वमसीत्यादिवाक्यादिव भवेद्ध्रुवम् ।
तत्त्वमस्यादिवाक्याच्च शूद्रस्याप्यपरोक्षधीः ।। १ ।।
अतिक्रान्तनिषेधस्य व्युत्पन्नस्य शूद्रस्य ब्राह्मणादेरिव पुस्तकपठितादविधिनाधी-तादनधीताद्वा ‘‘तत्त्वमसी’’त्यादिवाक्यात् ‘‘दशमस्त्वमसी’’ति वाक्यादिव ज्ञानं तावज्जायत एव । साक्षात्त्वं च ब्राह्मणादेरिवास्यापि विषयस्वभावादेव भविष्यति । प्रतिबन्धनिरासोऽपि मनननिदिध्यासनाभ्यां सेत्स्यति । यदि चापरोक्ष्यस्वभावस्यापि ब्रह्मण आपरोक्ष्यं लोकविलक्षणत्वाददृष्टविशेषसाध्यं तर्हि तत एव तदापरोक्ष्यं सत्यस्यापि बन्धस्य निवर्तकं स्यात् ।
न च जातमपि ज्ञानं शूद्रकृतयागवन्न सफलमिति वाच्यम् । अज्ञाननिवृत्त्याख्यदृष्टफले ज्ञानस्यान्यानपेक्षत्वात् । इयं शुक्तिरिति वाक्यजं हि ज्ञानं शूद्रस्यापि शुक्त्यज्ञाननिवर्तकम् । अदृष्टद्वारेश्वरप्रसादद्वारा वा ज्ञानस्य बन्धनिवर्तकत्वं च परैर्नाङ्गीकृतम् । अङ्गीकारे च बन्धस्य ज्ञाननिवर्त्यत्वेन मिथ्यात्वोक्तिरयुक्ता स्यात् । अदृष्टनिवर्त्यत्वात् । विध्यतिक्रमेणोत्पन्नः प्रत्यवायस्तु शूद्रस्य प्रपञ्चान्तर्गतत्वाज्ज्ञानेन निवर्तिष्यते ।
प्रकाशिका
अन्ये त्विति ।। ‘‘स्वाध्यायोऽध्येतव्य’’ इत्युक्ताध्ययनस्य प्रधानकर्मत्वसंस्कारकर्मत्वाभ्यां ब्रह्मविद्या शूद्राधिकारा न वेति सन्देहे भामत्युक्तौ पूर्वोत्तरपक्षावनुवदति ।। अध्ययनस्येति ।। अनिर्दिष्टफलकानां स्वर्गफलकत्वस्य ‘‘स स्वर्गःस्या’’दिति विश्वजिदधिकरणे दर्शितत्वात् ‘‘अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती’’त्यादेरनिर्दिष्टफलस्य स्वर्गफलकत्ववत् ‘‘स्वाध्यायोऽध्येतव्य’’ इत्युक्ताध्ययनस्याप्यनिर्दिष्टफलकत्वात् अनारभ्याधीततया फलवत्कर्मारभ्यानाम्नानाज्जुह्वादिवत्क्रत्वव्यभिचरितत्वाभावात्क्रत्वर्थत्वासम्भवेन स्वर्गार्थतया पुरुषार्थत्वस्यैव वाच्यत्वात् । तथा चाध्ययनस्य स्वाध्यायेनाधीयीतस्वर्गकाम इति वचनव्यक्तया दर्शादिवत्प्रधानकर्मतया स्वाध्यायसंस्कारकत्वरूपगुणकर्मत्वं प्रोक्षणादिव नास्तीत्यर्थः ।। दृष्टेति ।। स्वाध्यायसंस्कारद्वारा निश्श्रेयसहेतुकर्मब्रह्मरूपार्थावबोधोऽध्ययनस्य दृष्टं फलमित्यर्थः ।। उक्तनियमेति ।। अधीतेनैव स्वाध्यायेन जन्यब्रह्मज्ञानान्मोक्ष इति नियमसद्भावादित्यर्थः ।। न शूद्रस्येति ।। उपनयनसाध्याध्ययनाभावादिति भावः । अध्ययनाभावादागन्तुक सामर्थ्याभावे सत्यनधिकार इति चेद्धन्ताधानाभावे सत्यग्न्यभावादग्नि साध्ये कर्मणि मा भूदधिकारः । न च ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नयोनाधिक्रियन्त इति भामत्युक्तगतार्थताशङ्कासमाधाने तदभिप्रायव्यञ्जनेनानुवदति ।। न चैवमिति ।। ‘‘अवैद्यत्वादभावः कर्मणि स्या’’दिति सूत्रेण विद्याभावोक्तेरित्यर्थः ।। तत्रापीति ।। पूर्वतन्त्रापशूद्राधिकरणे ।। सूत्र इति ।। गुणसूत्र इत्यर्थः । विद्यावान्वैद्यः स न भवतीत्यवैद्यः तत्त्वात्कर्मणि शूद्रस्याधिकाराभाव इत्यर्थः । ‘‘अवैद्यत्वमभ्युच्चयमात्रम् । अभ्युच्चयत्वं चाध्ययनविधेः पुरुषार्थत्वशङ्कायास्तत्र अनिरासादिह संस्कारपरामर्शादित्यध्ययनविधेस्संस्कारकर्मविषयत्वसमर्थना’’दिति कल्पतरूक्तमाशङ्कते ।। ननु तत्रेति ।।
नन्वयमप्यर्थोऽत्राभिप्रेयत इत्यत आह ।। किञ्चेति ।। तव्योक्तेति ।। तव्यस्य कर्मणि स्मरणेनाध्ययनस्य स्वाध्यायसंस्कारत्वरूपगुणकर्मत्वस्यैव प्रतीतेः । अन्यथा ‘‘ज्योतिष्टोमेने’’तिवत्स्वाध्यायेनाधीयीतेति स्यादित्यर्थः ।। प्रथमसूत्र इति ।। ‘‘अथातो धर्मजिज्ञासे’’त्यत्राध्ययनविधौ फलाश्रवणाद्विश्वजिन्न्यायेन स्वर्गः कल्प्य इति प्राप्ते दृष्टे सम्भवत्यदृष्टायोगादर्थावबोधः फलमित्युक्तत्वादित्यर्थः ।। ऐकेति ।। रामानुजमत इव पूर्वोत्तरतंत्रयोरित्यर्थः । ‘‘अत एव जगतो वेदशब्दप्रभवत्वादेव । वेदशब्दनित्यत्वमपि प्रत्येतव्य’’मिति त्वया भाषितत्वादित्यर्थः । पूर्वपक्षस्य सूत्रावतारिकारूपस्य सूत्रपदनिवर्त्यस्यैव वक्तव्यत्वादेवंरूपपूर्वपक्षश्च न सूत्रानुगुण इत्याह ।। किञ्चेति ।। मोक्षहेतुशाब्दापरोक्ष ज्ञानस्यानधीयाने शूद्रेऽपि सम्भवात्सिद्धान्तोऽप्ययुक्त इत्याह ।। अपि चेति ।। नन्वप्रतिबद्धापरोक्षज्ञानमेव मोक्षहेतुः । शूद्रस्य तु न तादृशमित्यत आह ।। प्रतिबन्धेति ।। अदृष्टेति ।। शूद्रस्य तदभावादिति भावः । अत एव अदृष्टविशेषसाध्यत्वादेवेत्यर्थः । ननूत्पन्नेऽपि ज्ञाने विध्यतिक्रमप्रत्यवायप्रतिबद्धत्वान्न कार्यक्षममित्यत आह ।। विध्यति क्रमेणेति ।।
चन्द्रिकाबिन्दुः
पिण्डपितृयज्ञादिवदिति ।। पिण्डपितृयज्ञग्रहणं क्रत्वर्थपुरुषार्थत्वविचारास्पदत्वात्तस्येत्यभिप्रायेण । अन्यथा ज्योतिष्टोमादिवदित्यवक्ष्यत् । अध्ययनस्य गुरूच्चारणानूच्चारणलक्षणक्रियायाः ।। न शूद्रस्येति ।। उपनयनासंस्कारादि सापेक्षाध्ययनवेदजन्यब्रह्मज्ञानाधिकारो नास्तीत्यर्थः । विद्याभावोक्तिरभ्युच्चययुक्तिरित्यत्र ज्ञापकमाह ।। अध्ययनस्येति ।। अध्ययनक्रियाया वेदसंस्कारत्वानुक्तेरित्यर्थः ।। तव्योक्तेति ।। अध्ययनेन स्वाध्यायं संस्कुर्यादिति तदर्थ इति भावः । तदस्वीकारेणेति ।। किन्तु प्रधानकर्मत्वस्वीकारेणेति शेषः। ननु शास्त्रान्तरोक्तस्य पुनश्शास्त्रान्तरोक्तौ गतार्थत्वशङ्काभयः कुत इत्यत आह ।। तत्रोक्तस्येति ।। पूर्वपक्षयितव्यमिति ।। न तु त्वद्रीत्या उपनयनाभावेन अध्ययनाभावमभ्युपेत्य सिद्धान्तेऽपि तदभावोपपादनादिति भावः ।। वाच्येति ।। न त्वध्ययनाभावप्रतिपादनमिति शेषः ।
ननु शूद्रस्य तत्त्वमसीति वाक्यात् ज्ञानमुत्पन्नं तथापि तन्नापरोक्षमित्यत आह ।। साक्षात्त्वं चेति ।। विषयस्वभावात् । ननु असम्भावनाविपरीतसम्भावनाख्यप्रतिबन्धे सति कथं शूद्रस्य प्रतिबद्धापरोक्षज्ञानमित्यत आह ।। प्रतिबन्धनिरासोऽपीति ।। अदृष्टविशेषसाध्यमिति ।। अध्ययनादिजन्यादृष्टसाध्यविशेषमित्यर्थः ।। तत एवेति ।। तादृशापरोक्षज्ञानस्य अदृष्टविशेषसहकृतवेदादिजन्यत्वेन लौकिकज्ञानविलक्षणत्वादेवेत्यर्थः ।। अङ्गीकार इति ।। अदृष्टेश्वरप्रसादादीनां द्वारत्वाङ्गीकारे ईश्वरप्रसादादिसहितज्ञानस्य सत्यनिवर्तकत्वमपि वक्तुं शक्यमेवेति मिथ्यात्वाङ्गीकारो व्यर्थ इति भावः । शूद्रस्य तत्त्वमसीति वाक्यजं ज्ञानं विध्यतिक्रमेणोत्पन्नप्रत्यवायप्रतिबन्धवशात् न बन्धनिवर्तकमित्यत आह ।। विध्यतिक्रमेणेति ।।
पाण्डुरङ्गि
स्वरूपकथनार्थत्वं वैयर्थ्यापरपर्याय एवेत्यभिप्रेत्य । प्रयोजनान्तरमाह ।। अश्वतरीयुक्तेति ।। उक्तनियमेति ।। अधीतेनैव स्वाध्यायेन जन्यब्रह्मज्ञानस्यैव मोक्षसाधनत्वमिति नियमसम्भवादित्यर्थः ।। त्वयापीति ।। तथा चात्राप्य वैद्यत्वस्याभ्युच्चयमात्रत्वापत्त्या तेन गतार्थता स्यादेवेति भावः । शूद्रस्य ब्रह्मविद्यायामनधिकारं वदन् पृष्टव्यः । किं तत्त्वमस्यादिवाक्याच्छूद्रस्य ज्ञानमेव नोत्पद्यत उतोत्पन्नमपि निष्फलमिति । नाद्य इत्याह ।। अतिक्रान्तनिषेधस्येति ।। न चाकाङ्क्षाद्यनुसारेण वाक्यस्यार्थबोधकत्वादव्युत्पन्नस्य शूद्रस्य कथं वाक्यादर्थबोध इत्यत उक्तं व्युत्पन्नस्येति ।। तथापि निषेधे विद्यमाने कथं तत्र प्रवृत्तिरित्यतोऽतिक्रान्तनिषेधस्येति । दशमस्त्वमसीति वाक्यादिवेत्यनेन व्युत्पन्नस्य शूद्रस्य दशमस्त्वमसीति वाक्याद्दशमत्वज्ञानं जायते । अन्यथा तदपि न स्यादित्यतिप्रसङ्गं सूचयति ।
ननु तत्त्वमसीति वाक्याज्जायमानं ज्ञानं ब्राह्मणादेरपरोक्षं भवति । न तथा शूद्रस्येत्यतो न शूद्रस्याधिकार इत्यत आह ।। ब्राह्मणादेरिवेति ।। शब्दजन्यज्ञानस्यापरोक्षत्वे विषयापरोक्षत्वस्यैव प्रयोजकत्वेन शूद्रस्यापि तत्त्वमस्यादिवाक्याज्जायमानापरोक्षभूतब्रह्मविषयत्वादपरोक्षमेव । अन्यथा ब्राह्मणादेरपि तत्त्वमस्यादिवाक्यजन्यज्ञानस्यापरोक्षत्वं न स्यादित्यर्थः । ननु तथापि शूद्रस्यापरोक्षज्ञानं न सम्भवति । चित्तैकाग्रयायोग्यत्वरूपासम्भावनाया वा विपरीतसंस्काररूपविपरीतसम्भावनाया वा प्रतिबन्धकत्वादिति चेत् तर्हि तत एव न ब्राह्मणस्याप्यपरोक्षधीः । यदि च तत्र मनननिदिध्यासनाभ्यामेवोक्तप्रतिबन्धनिरासस्तर्हि शूद्रस्यापि तत्समानमित्याह ।। प्रतिबन्धनिरासोऽपीति ।।
ननु ब्रह्मणो लोकविलक्षणत्वात्तदापरोक्ष्यस्यादृष्टसाध्यत्वाच्छूद्रे चापरोक्षप्रयोजकादृष्टाभावेन तत्साध्यापरोक्षज्ञानस्याप्यसम्भव इत्यत आह ।। यदि चेति ।। तत एवेति ।। शुक्तिकाज्ञानस्य सत्यनिवर्तकत्वादर्शनेऽपि ब्रह्मज्ञानस्य लोकविलक्षणत्वात्सत्यबन्धनिवर्तकत्वोपपत्त्या ज्ञाननिवर्त्यत्वेन बन्धस्य मिथ्यात्वोक्तिर्न स्यादिति भावः । द्वितीयमाशङ्कते ।। न चेति ।। अत्र वक्तव्यं ज्ञानस्य फलमज्ञाननिवृत्तिर्वोतादृष्टद्वारेशप्रसादद्वारा बन्धनिवृत्तिर्वा । नाद्य इत्याह ।। अज्ञाननिवृत्त्याख्येति ।। ननु ज्ञानस्याप्यज्ञाननिवर्तकत्वमदृष्टद्वारैव । तथा च शूद्रस्य ज्ञाने विद्यमानेऽपि द्वारभूतादृष्टाभावान्न तेनाज्ञाननिवृत्तिरूपं फलं शूद्रस्येत्यत आह ।। इयं शुक्तिरितीति ।। अन्यथा शूद्रस्येयं शुक्तिरिति वाक्यजन्यज्ञानेन शुक्तयज्ञाननिवृत्तिर्जायते सा न स्यात् । तत्रापि द्वारभूतादृष्टाभावात् । तस्मात्साक्षादेव ज्ञानस्याज्ञाननिवर्तकत्वे शूद्रस्य तत्त्वमस्यादिवाक्यजन्यज्ञानस्याप्यज्ञाननिवर्तकत्वमावश्यकमिति भावः । अस्तु तर्हि ज्ञानस्यादृष्टद्वारेश्वरप्रसादद्वारा वा बन्धनिवृत्तिरेव फलमिति द्वितीयो निरवद्यत्वादित्यत आह ।। अदृष्टद्वारेति ।। परैरित्यनेन तदङ्गीकारेऽपसिद्धान्तं सूचयति ।। यस्तु वैयात्याज्ज्ञानस्य प्रसादादिद्वारैव बन्धनिवर्तकत्वं ब्रूयात्तं प्रत्याह ।। अङ्गीकारे चेति ।। मिथ्यात्वोक्तिरयुक्तेति ।। ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्यैव मिथ्यात्वरूपत्वादित्यर्थः । ननु च शूद्रस्य तत्त्वमस्यादिवाक्याज्जातस्य ज्ञानस्याज्ञाननिवृत्त्याख्ये दृष्टफलेऽन्यानपेक्षत्वेनाज्ञाननिवृत्तावपि विध्यतिक्रमेणोत्पन्नप्रत्यवायेन साफल्यासम्भवादित्यत आह ।। विध्यति क्रमेणेति ।।