सिद्धान्तस्तु
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ।।
न देवानामसामर्थ्यं वर्तते तिर्यगादिवत् ।
न चापि प्रतिषेधोऽस्ति शूद्रादेरिव कुत्रचित् ।। १ ।।
स्वपदानामनित्यत्वात् मुक्तावस्त्यर्थिताऽपि च ।
प्रवाहानादिनित्याश्च तुल्यरूपादियोगिनः ।। २ ।।
देवा न तेन देवानामधिकारेऽस्ति बाधकम् ।
श्रूयते चाधिकारोऽपि देवानां श्रुतिषु स्फुटम् ।। ३ ।।
अतीतानागतानां देवानां समाननामरूपत्वं ‘‘यथापूर्व’’मित्यादिभाष्योदाहृतश्रुत्यादिसिद्धम् । न च तद्देवताव्यक्तयैक्यपरम् । तत्सृष्टिवाक्यविरोधात् । तासां प्रवाहतोऽनादिनित्यतायाः समाननामरूपतायाश्चाङ्गीकारे सृष्टिवाक्यस्य स्वार्थपरत्वेपि नानित्यसंयोगाद्यापातः । अन्यथा ‘‘यथापूर्व’’मित्यादेर्व्यक्तयैक्यपरत्वेसिद्धे देवतानां प्रवाहानादित्वसमाननामरूपत्वयोरभावः । तत्सिद्धौ चानित्य संयोगापत्या सृष्टिवाक्यस्य स्वार्थपरत्वाभावः । तत्सिद्धौ च सृष्टिवाक्यविरोधाभावात् यथा पूर्वमित्यादेर्व्यक्तयैक्यपरत्वसिद्धिरिति चक्रकाश्रयःस्यात् । ‘‘एकशतं हवै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवासे’’त्यादिश्रुतिसिद्धश्च देवानामधिकारः । यद्यपि मधुविद्यादिफलं वसुत्वादिकं ब्रह्मज्ञानं च वस्वादीनामस्ति । तथापि ज्ञाने मोक्षे चातिशयार्थमुपासना युक्तेति ।
प्रकाशिका
अधिकारप्रयोजकमर्थित्वादिकं देवेषु समर्थयमानस्तत्प्रयोजके देवानामाद्यन्तवत्त्वे परोक्तकर्मविरोधादिबाधकं च परिहरन्नाद्यादिसूत्रभाष्यटीकोक्तं प्रमेयं सङ्गृह्याह ।। न देवानामिति ।। अयं च ‘‘सम्भवा’’दिति सूत्रांशभाष्याद्यर्थसङ्ग्रहः ।। तिर्यगादिवदिति ।। इदानीन्तनपशुपक्ष्यादेरिवेत्यर्थः । नन्वेतच्छूद्रे व्यभिचारीत्यतस्सूत्रांशतात्पर्यं भाष्याद्युक्तमाह ।। नचापीति ।। कुत्रचिदपीत्यपेरन्वयः । श्रुतौ स्मृतौ चेत्यर्थः । प्रतिषेधश्चेति चार्थः ।। शूद्रादेरिति ।। ब्रह्मबन्धुवर्णबाह्यादिरादिपदार्थः । शूद्रादेर्निषेधोऽग्रे स्पष्टः ।
ननु न सामर्थ्यमात्रं प्रयोजकम् । मुमुक्षोर्वात्स्यायनादावनधिकारात् । किन्तु यो यज्जन्यफलार्थी स तत्राधिकारीत्यर्थिताऽपि । साच न नित्यपदानां युक्तेत्युक्तमित्यतः ‘‘तदुपरी’’ति सूत्रांशभाष्याद्युक्तं हेतूकृत्य ‘‘सम्भवा’’दित्यंशोपात्तमर्थित्वं साधयति ।। स्वपदानामिति ।। चोऽवधारणे । अनित्यत्वादेवेत्यर्थः । ननूक्तं तथात्वे कर्मादिविरोध इत्यतः ‘‘विरोधः कर्मणी’’ति सूत्रभाष्याद्युक्तमाह ।। प्रवाहेति ।। ननूक्तमत्रैकरूपवेदप्रामाण्यविरोध इत्यतस्समानसूत्रभाष्यटीकोक्तार्थमाह ।। तुल्येति ।। न देवानामधिकारेऽस्ति बाधकमित्युक्तया सूत्रादिकं देवानामधिकारे बाधकनिरासपरमित्युक्तम् । तेन देवाः वेदविद्याधिकारिणः । अनिषिद्धत्वे सति सामर्थ्यादिमत्त्वात्सम्मतवदित्यनुमानमुक्तं भवति । तत्र मूलभूतश्रुतिरूपसूत्राद्यभिप्रेतं प्रमाणं चाह ।। श्रूयतेचेति ।। श्रुतिष्विति ।। तास्त्वग्रेव्यक्ताः । ननूक्तं तुल्यरूपादियोगित्वे मानाभाव इति । तत्राह ।। अतीतेति ।। ‘‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । ऋषीणां नामधेयानियाश्च वेदेषु दृष्टयः । वेदशब्देभ्य एवासौनिर्ममे स महेश्वर’’ इति स्मृत्यादिरादिपदार्थः । ननूक्तं श्रुतिरन्यथासिद्धेत्यतष्टीकायामनादिनिधनेति स्मृत्यैवान्यथासिद्धिनिरासेन युक्तयनुक्तेस्स्वयं युक्तयाप्यन्यथासिद्धिं निराह ।। न चेति ।। तत्सृष्टीति ।। ‘‘चक्षोस्सूर्यो अजायते’’त्यादिवाक्यविरोधादित्यर्थः । न च तदन्यपरमिति वाच्यम् । बाधकाभावादिति भावेन प्रागुक्तं बाधकमुद्धरति ।। तासामिति ।। सूर्यादिव्यक्तीनामित्यर्थः । श्रूयते चेत्यर्धं व्यनक्ति ।। एकशतमिति ।। एतद्वाक्यं छान्दोग्याष्टमाध्यायगतम् । किञ्चेत्यादिनोक्तं ‘‘भावं’’त्विति सूत्रभाष्याद्युक्तसमाधानेन निराह ।। यद्यपीति ।। ‘‘यावत्सेवा परे तत्वे तावत्सुखविशेषते’’त्यादेरिति भावः ।
चन्द्रिकाबिन्दुः
सूत्रक्रमेण साधकबाधकानि क्रमेण सङ्गृह्याह ।। न देवानामिति ।। स्वयमधिकं प्रमाणमाह ।। श्रूयते चेति ।। तत्सृष्टीति ।। देवानां सृष्टिप्रतिपादकबहुवाक्यविरोधादित्यर्थः । ननु देवानां सृष्ट्यङ्गीकारे अनित्यसंयोगेनाप्रामाण्यापत्तिर्वेदस्येत्याद्युक्तमित्यत आह ।। तासामिति ।। विपक्षबाधकत्वेन चक्रकाश्रयमाह ।। अन्यथेति ।। किञ्च न तावदित्यादिनोक्तं पूर्वपक्षं निराकरोति ।। यद्यपीत्यादिना ।।
पाण्डुरङ्गि
श्रूयतेचाधिकारोऽपीत्युक्तम् । तदुपपादयति ।। एकशतमिति ।।