सङ्गतिमाह

विपर्ययाधिकरणम्

तात्पर्यचन्द्रिका

उत्पत्तिक्रमात् विपर्येयेण लयक्रम इति प्रतिपादनम्

।। ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ।।

सङ्गतिमाह ।। सर्वं भगवतेति ।। अत्र श्रुतिसमन्वयेनोक्तस्य विष्णोस्स्रष्टृत्वसंहर्तृत्वादेः सिद्धये ‘‘व्युत्क्रमाद्विलयश्चे’’ति श्रुतिः किं ‘‘क्रमाद्विलीयत’’ इति श्रुत्या लोके प्रायेणोत्पत्तिक्रमेणैव लयदर्शनयुक्तयनुगृहीतया बाधितोत नेति चिन्ता । (क्तं विष्णोःस्रष्टृत्वादिकमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणमुत नेति । तदर्थं ‘‘व्युत्क्रमाद्विलयश्चे’’ति श्रुतिः किं ‘‘क्रमाद्विलीयत’’ इति श्रुत्या लोके प्रायेणोत्पत्तिक्रमेणैव लयदर्शनयुक्तयनुगृहीतया बाधितोत नेति ।) तदर्थं क्रमा’’दिति श्रुतौ क्रमशब्दः किमनुक्रमपरः किं वा व्युत्क्रमपर इति । तदर्थं लोके प्रथमोत्पन्नानां प्रथमं नाशे किं प्रथमोत्पत्तिः प्रयोजिका किं वा सामर्थ्यविशेषाभाव इति । ‘‘लोकानुसारित्वं बहुवाक्यानुरोधश्चे’’ति न्यायविवरणोक्तं पूर्वपक्षयुक्तिद्वयं विवृणोति ।। लोकानुकूलत्वगुणेनेत्यादिना ।। क्रमव्युत्क्रमयोः क्रमपदप्रवेश इति ।। अनुक्रमव्युत्क्रमयोः क्रमपदवाच्यतया प्रवेश इत्यर्थः । अनेन च ‘‘क्रमवाक्यस्य सावकाशत्व’’मिति न्यायविवरणोक्ता सिद्धान्तयुक्तिः क्रमपदमक्रमस्य व्यावर्तकम् । न तु व्युत्क्रमस्य । आरोहक्रमादवरोहक्रमस्येवानुक्रमवद्व्युत्क्रमस्यापि क्रमत्वादिति विवृतेति द्रष्टव्यम् । सप्तमीपक्ष इव प्रथमापक्षेऽपि सन्निधानशब्दान्वयो नेत्यत आह ।। सन्निधीयतेऽत्रेति ।।

सूत्राक्षरार्थस्तु ।। ‘‘क्रमाद्विलीयत’’ इति श्रुत्युक्तः क्रमस्तु अतः प्रकृतात्सृष्टिक्रमात् विपर्ययेण भवति । अत एव ‘‘व्युत्क्रमाद्विलयश्चेति वाक्यशेषादेव उपपद्यते च विपर्ययः पूर्वोत्पन्नानां सामर्थ्याधिक्यादिति । अन्ये तु ‘‘यत्प्रयन्तीत्यादिषु लयस्यैव श्रवणात्सृष्टाविव लये क्रमस्याश्रवणात्क्रमापेक्षायां श्रौते लये श्रौतः सजातीयः सृष्टिक्रम एव ग्राह्य इति प्राप्ते लये सृष्टिक्रमग्रहे उपादानलये उपादेयस्थितिः स्यात् । सा चायुक्ता । तस्माद्विजातीयोऽपि दृष्टः सृष्टिविपरीतक्रम एव ग्राह्यः । दृष्टो हि मृदो जातस्य घटस्य मृद्यप्यय इति सिद्धान्त’’ इत्याहुः ।। तन्न । अस्य विचारस्य श्रुतेः केनचित्सह विरोधानिरासकत्वेनाध्यायासङ्गतेः । मम रीत्या लोकानुसारित्वादियुक्तयनुगृहीतया ‘‘क्रमाद्विलीयत’’ इति भाष्योक्तश्रुत्या ‘‘व्युत्क्रमाद्विलयश्चे’’ति भाष्योक्तश्रुतेर्विरोधनिरासेन साक्षात्सङ्गतिसम्भवे प्रासङ्गिकत्वायोगाच्च । ‘‘व्युत्क्रमाद्विलयश्चे’’ति भाष्योक्तव्युत्क्रमश्रुतौ

जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।

ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ।।

इति त्वदुक्तस्मृत्यनुमित श्रुतौ च लये क्रमस्य श्रुतत्वेन तदश्रवणस्वीकारेण पूर्वोत्तरपक्षयोगाच्च । भस्मीभूतपटादेस्तंतुषु लयादृष्ट्या दृष्टानुसारेण कार्यस्य साक्षात्कारणे लय इति सिद्धान्तोक्तययोगाच्च । तेज आदीनामीक्षितृत्वादिना चेतनत्वात् पित्रादिलयानन्तरमेव च प्रायः पुत्रादिलयदृष्टेर्दर्शनानुसारेण तेजआदीनां लयानन्तरमेवाबादिलयप्राप्तेश्च । एतेन ‘‘जगत्प्रतिष्ठेत्यादिस्मृतिर्न्यायमूला न श्रुतिमूले’’ति भामत्युक्तं परास्तम् ।। छ ।। विपर्ययाधिकरणम्  ।। ८ ।।

प्रकाशिका

ॐ विपर्ययेण तु ॐ ।। सङ्गतिमिति ।। विशेषचिन्तारूपामित्यर्थः । फलोक्तिं विवृण्वन्नेव विषयसंशयटीकां तात्पर्यतो व्यनक्ति ।। अत्रेति ।। पूर्वोत्तरपक्षटीकासूचिताश्चिन्ता आह ।। व्युत्क्रमादित्यादिना ।। आरोहेति ।। सोपानारोहवदित्यर्थः । टीकाद्यर्थं सूत्रारूढं कर्तुमाह ।। सूत्राक्षरार्थस्त्विति ।। अत एवेति ।। एतेनात इत्यस्यावृत्तिः । तुशब्दस्यावधारणार्थतयाऽत्रान्वयो वा पूर्वस्मादेवकारानुषङ्गो वा सूचितः । अन्ये त्विति ।। भामत्युक्तमनुवदति ।। यत्प्रयन्तीति ।। सृष्टिक्रम एव न तु लोकदृष्ट्या विपरीतक्रमः । तस्य विजातीयत्वादित्यर्थः । अतस्सृष्टिक्रमाद्विपरीतक्रम एव लयक्रमः । मृदादेर्जातस्य घटादेर्मृदादौ लयदर्शनादुपपद्यते च विपर्ययक्रम इति सूत्रार्थं हृदि कृत्वा सिद्धान्तमन्वाह ।। लय इति ।। दृष्ट इत्युक्तं व्यनक्ति ।। दृष्टो हीति ।। मृद इति पञ्चमी ।। अध्यायासङ्गतेरिति ।। एतेन यदुक्तं कल्पतरौ ‘‘यद्यप्यत्र श्रुतिविप्रतिषेधो नावध्रियते तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यौ पादावान्तरसङ्गती’’ इति तन्निरस्तम् । अध्यायसङ्गतेरेवाभावे पादादिसङ्गतेरनवसरदुःस्थत्वात् । त्वन्मते देवताधिकरणादेरिव प्रासङ्गिकसङ्गत्या चिन्तोपपद्यत इति चेन्न । सर्वदेवतोपास्यत्वरूपलिङ्गसमन्वयस्यार्थिकतया मन्मतेऽध्यायसङ्गतेस्तत्रैवोक्तत्वाच्च । दोषान्तरं चाह ।। मम रीत्येति ।। भाष्योक्तेति ।। ननु सा न प्रसिद्धेति चेत्किं तवोत सर्वस्य । नाद्यः । अप्रयोजकत्वात् । नांत्यः । निर्णयायोगात् । औदुम्बराधिकरणे शाबरभाष्ये ‘‘ऊर्जं पशूनाप्नोत्यूर्जो वरुध्या’’ इत्युक्तश्रुतेः ‘‘यथा ह्ययं ज्योतिरात्मा विवस्वा’’नित्यादिश्रुतेः ‘‘अत एव चोपमे’’त्यत्र परभाष्योक्तायाः तथा श्रीभाष्येऽपि ‘‘ज्योतिश्चरणाभिधाना’’दित्यत्रोक्तायाः ‘‘इन्द्रश्शचीपतिर्बलेन पीडितो दुश्च्यवनो वृषा समत्सु सा सहिः’’ इति श्रुतेश्चाप्रसिद्धत्वाच्च ।।

भाष्योक्तेति ।। श्रीमद्भाष्योक्तश्रुतावित्यर्थः ।। त्वदुक्तेति ।। परभाष्योदाहृतेत्यर्थः । एतेन प्रलये क्रमद्वैविध्याश्रवणेन संशयानुपपत्तेरधिकरणारम्भोऽनुपपन्न इति श्रुतप्रकाशोक्तं निरस्तम् । उक्तदिशा श्रुतिविगानसम्भवात् । दृष्टो हीत्यादिना यो दृष्टानुसारिहेतुरुक्तः सोऽप्ययुक्त इत्याह ।। भस्मीभूतेति ।। तंतुषु तंत्वादिषु । गोमयादिजन्यवृश्चिकशरीरादिरादिपदार्थः ।। एतेनेति ।। दर्शनस्यानियतत्वकथनेनेत्यर्थः । यद्वा चेतनत्वादित्यादिकथनेनेत्यर्थः । तेन ‘‘न्यायमूले’’ति भामतिगतन्यायशब्दस्योपादानलये कार्यस्थित्ययोगो न्याय इत्यर्थ उक्तः । सोऽपि न्यायो व्यभिचारी । असत्यपि पितरि तदुपादानकस्य पुत्रस्य गोमये लीनेऽपि तदुपादानकस्य वृश्चिकशरीरस्य स्थितिदर्शनादिति सूचितम् । यस्तु अतः अव्यक्तमहदहंकाराकाशादिक्रमात् । विपर्ययेण यस्सर्वेषां कार्याणां ब्रह्मानन्तर्यरूपः क्रमः ‘‘एतस्माज्जायते प्राण’’ इत्यादिषु प्रतीयते । स च क्रमस्तत्तद्रूपाद्ब्रह्मणस्तत्तत्कार्योत्पत्तेरेवोपपद्यते । परंपरया कारणत्वेऽप्यानन्तर्यश्रवणमुपपद्यत इति केषाञ्चित्सूत्रार्थः सोऽप्यपास्तः । अनेकाध्याहारदोषात् । ‘‘स इदं सर्वमसृजते’’त्यादाविव ‘‘एतस्मा’’दिति श्रुतौ क्रमोत्पत्त्यनुक्तेरेव भावेन विपरीतक्रमोत्पत्त्युक्तेरभावेन सामान्यश्रुतेः क्रमोक्तिपरविशेषश्रुत्यनुरोधेन पाठक्रमेण वा निर्णयस्य सिद्धतया तदर्थं पृथक् सूत्रस्यानारभ्यत्वात् । तत्तच्छरीरकब्रह्मजातत्वोक्त्यर्थमिदमित्यप्ययुक्तम् । अस्य सूत्रेऽप्रतीतेः । पूर्वसूत्रेणैव तदर्थस्य लाभाच्च । अवश्यं निरसनीयस्य लयक्रमश्रुतिविगानस्यास्मद्भाष्योक्तस्य तन्मते निरासाभावप्रसङ्गाच्चेति ।। छ ।। विपर्ययाधिकरणम् ।। ८ ।।

चन्द्रिकाविवृतिः

ॐ विपर्ययेण ॐ ।। स्रष्टृत्त्वसंहर्तृत्त्वादेरिति ।। अत्र व्युत्क्रमश्रुतेरप्रामाण्येन खलु पूर्वपक्षस्तद-प्रामाण्येन विष्णोर्लयकर्तृत्त्वप्रतिपादकश्रुतेरप्रामाण्यं समानन्याय्यत्त्वात्स्रष्टृत्त्वश्रुतेरपि प्राप्नोत्यप्रामाण्यमिति स्रष्टृत्त्वसंहर्तृत्त्वादेरित्युक्तम् ।। क्रमव्युत्क्रमयोः क्रमपदप्रवेश इत्युक्तम् । क्रमस्य सामान्यतया तत्र क्रमपदप्रवेशस्य सर्वैरङ्गीकृतत्त्वेन विशेषयोरेव सामान्यपदप्रवेशोक्तया भवितव्यमित्यभिप्रेत्याह ।। अनुत्क्रमव्युत्क्रमयोरिति ।। आरोहक्रमादिति ।। आरोहक्रमस्य क्रमत्त्वेऽपि तद्वदेव अवरोहक्रमोऽपि क्रम एव । एवमनुक्रमवत् व्युक्रमोऽपि क्रम एवेत्यर्थः ।। सप्तमीपक्ष इवेति ।। एतेषामिति उत्तरत्र बहुत्त्वश्रवणात् प्रथमपक्षः स्वीकृतः । सप्तमीपक्षे तदा नानुगुण्यं वीप्सायां विद्यमानायामपि द्रष्टव्यम् ।। सजातीय इति ।। श्रौतत्त्वेन साजात्यं वक्तव्यम् । श्रौतक्रमः सृष्टिक्रम एवेति कृत्वा स एवयेऽपि स्वीकर्तव्य इति भावः ।। उपादानाय इति ।। आकाशादिाये वाय्वादेरवस्थानं स्यादिति भावः ।। विजातीय इति ।। श्रौतत्त्वाभावे दृष्टत्त्वेन विजातीय इत्यर्थः ।। अध्यायासङ्गतेरिति ।। विरोधनिरासकत्त्वाभावादध्यायासङ्गतिः, श्रुतिविरोधनिरासकत्त्वाभावात् पादासङ्गतिरिति भावः ।। नन्वध्यायाद्यसङ्गतावपि प्रासङ्गिकमिदमधिकरणं भवत्वित्यत आह ।। मम रीत्येति ।। क्रमस्य व्युत्क्रमरूपस्य ।। एतेनेति ।। तेजआदीनां चेतनत्त्वेन पूर्वपूर्वचेतनस्योत्तरोत्तरचेतनं प्रत्युपादानत्वाभावेन उत्तरोत्तरस्य पूर्वपूर्वलय इत्यस्य न्यायस्य विघटनात् जडत्त्वेहि तेज आदीनां न्यायो न

विद्यत इति भावः ।। छ ।।