सिद्धान्तस्तु

सिद्धान्ते वामनश्रुते: कैमुत्यन्यायेन बलीयस्त्वम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ।।

सहस्रादपि लिङ्गानां श्रुतिर्बलवती स्वतः ।

अवकाशोज्खिता सावकाशात्तु किमु लिङ्गतः ।। १ ।।

वामनश्रुतिर्हिनिरवकाशा । ‘‘एष उ एव वामनिरेष हि सर्वाणि वामानि नयती’’ति श्रुत्यन्तरेऽवधारणात् । ‘‘उपेन्द्रो वामनः प्रांशु’’रिति स्मृतेः । आर्यप्रसिद्धेश्च । वामनवामनिशब्दयोश्च लोकवेदाधिकरणन्यायेन वर्णविकारादिनैकदेशस्यान्यथात्वेपि देवासः देवाः इत्यादाविव लाघवेन प्रत्यभिज्ञयैकत्वे सम्भवति भेदकल्पनायोगात् । नहि ‘‘न किरिन्द्र’’ इत्यादौ किरित्यस्य लोकप्रसिद्धात्क इत्यस्माद्भेदः । तदुक्तं वार्तिके

आकृतीनामभिव्यक्तिर्या कथञ्चिन्निरूपिता ।

नासाववयवाधिक्यविनाशेषु विनश्यति ।। इति ।

एवं च यथा ‘‘यद्योन्यान्तदुत्तरयोर्गायती’’त्यत्रोत्तराशब्द उत्तराग्रन्थे संज्ञारूपो निरपेक्ष इति तत्पर एव । न तु योनिऋग्रूपप्रतियोगसापेक्षोत्तरऋक्परः तथा वामनशब्दोपि रूढ्या विष्णुपरः । न तु दीर्घप्रतियोगिह्रस्वपरः । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘वामनश्रुतेरेवानवकाश’’ इति । लिङ्गानि तु सावकाशानि । सर्वनियामकत्वादिमति प्राणादिनियामकत्वादेः प्रासादवासिन्यायेन सम्भवात् । ऐन्द्राग्नादौ तु देवतात्वं व्यासज्यवृत्तीत्यग्नेः प्रत्येकं तत्र देवतात्वाभावान्नाग्नेयता । नियमनं तु न व्यासज्यवृत्तिः । ‘‘यः पृथिवीमन्तरो यमयती’’त्यारभ्य ‘‘यः प्राणमन्तरो यमयती’’ति प्रत्येकं नियमनश्रवणात् । ‘‘यद्देवान्प्राणयो नव । देवा उपासांचक्रिरे’’ इत्यादिश्रुतिषु ब्रह्मणो विशिष्य प्राणनियामकत्वादिश्रवणाच्च । ‘‘एवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्या’’मिति श्रुत्यन्तरे मुख्यप्राण उक्तस्य सर्वप्राणनियामकत्वस्य ‘‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यती’’त्यनेनाप्रतीतेश्च ।

प्रकाशिका

सौत्रैवकारप्रमितशब्दाभ्यां श्रुतेर्जात्याऽनवकाशत्वेन च प्राबल्यसूचनादेकयापि श्रुत्याऽनेकेषां सावकाशलिङ्गानां बाधो युक्त एवेति भावेन ‘‘विष्णुरेवेशान’’ इत्यादि टीकां विवृण्वन् सूत्राद्युक्तन्यायं सङ्गृह्याह ।। सहस्रादिति ।। स्वतोऽनवकाशत्वादिकमनपेक्ष्य स्वभावप्राबल्यमग्रे प्रतिपिपादयिषुरादौ ‘‘तस्याश्च विष्णौ महायोगरूढिसिद्धायास्तत्प्रमापकत्वा’’दिति टीकोक्तयोगरूढी विवृण्वन्नुत्तरार्धोक्तं निरवकाशत्वं तावद्व्यनक्ति ।। वामनेति ।। अत्रैवं क्रमः । ईशानो विष्णुरेव । ‘‘मध्येवामन’’मिति वामनश्रुतेः । ननु सावकाशा श्रुतिरित्युक्तमिति चेदत्रेदमुपतिष्ठते वामनश्रुतिर्हीति । योगमाह ।। एष इति ।। श्रुत्यन्तरे छान्दोग्ये । रूढिमाह ।। उपेन्द्र इति ।। ‘‘उपेन्द्रो वामनः प्रांशुरमोघश्शुचिरूर्जित’’ इति सहस्रनामसु ।। आर्येति ।। वृद्धानां वामनशब्दस्य विष्णावेव प्रयोगादित्यर्थः । ननु वामनिशब्दनिर्वचनेपि वामनशब्दस्य किमायातमित्यत आह ।। वामनेति ।। आद्यस्याध्यायस्य तृतीयपादे ‘‘प्रयोगचोदनाभावादर्थैकत्वमविभागा’’दित्यन्तिमाधिकरणे प्रथमवर्णके लोकवेदयोः पदपदार्थानामन्यत्वमुतानन्यत्वमिति संशये सत्यपि वर्णाभेदे स्वरछान्दसवर्णागमलोपविकारविपर्ययाध्यायानध्यायादिधर्मभेदेन जराराजपदयोरिव क्रमभेदेन व्यपदेशभेदात्स्पष्टः पदानां भेदः । पदान्यत्वादेवार्थभेदोऽपीति प्राप्ते प्रत्यक्षप्रत्यभिज्ञानाद्वर्णाभेदे तदात्मकत्वात्पदानां यत्किञ्चिद्धर्मभेदेऽप्यर्थभेदापादकधर्मभेदस्यैव पदान्यत्वे प्रयोजकत्वाद्यत्किंचिद्धर्मभेदेनाप्यर्थभेदाभावात्पदानामनन्यत्वम् । तदभेदादर्थानामप्यनन्यत्वमिति सिद्धान्तितम् । अत्रोक्तन्यायेन यथा देवास इत्यादौ ‘‘आज्जसेरसु’’गिति जसेः प्रत्ययस्यासुगागमेनैकदेशस्याधिक्येपि देवा इति पदादनन्यत्वं तथेत्यर्थः । आदिपदेन रुद्रेभिः रुद्रैः इत्यादि गृह्यते । उक्तं च महाभाष्ये ‘‘एकदेशविकृतमनन्यवद्भवति ।। श्वा पुच्छे च्छिन्ने नाश्वो नगर्दभ’’ इति । तदेव प्रयोगदर्शनेनाह ।। नहीति ।। ‘‘न किरिन्द्र त्वदुत्तरो न ज्याया अस्ति वृत्रह’’न्नित्यत्र किरित्यस्य क इत्यस्य चाभेदस्तथेहापीत्यर्थः । कथञ्चिन्निरूपिताया देवतात्वाद्याकृत्यभिव्यक्तिरसाववयवाधिक्यविनाशमात्रेण न नश्यतीति तन्त्रवार्तिकार्थः । ननूक्तमल्पमात्रपरिमाणवत्त्वरूपं वामनत्वं कथं ब्रह्मणि युक्तमित्यतो नायमत्रान्यसापेक्षशब्दः किं तु रूढ इति सदृष्टान्तमाह ।। एवं चेति ।। नवमस्य द्वितीये पादे ‘‘नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत’’ इति षष्ठाधिकरणे ‘‘यद्योन्यान्तदुत्तरयोर्गायती’’ त्यत्र किं योनिनामकऋगपेक्षयोत्तरदेशेऽधीतयोर्ऋचोर्गानमुतोत्तरासंज्ञकग्रन्थविशेषाधीतयोरिति संशये उत्तराशब्दस्य सम्बन्धिशब्दत्वाद्यैव योनेः परत्र पठिता सैवोत्तरा । ततश्च (योनिपदापेक्षया) रथन्तरयोनेः परतो बृहद्योनेः पठितत्वात्तस्यां गानम् । उत्तराग्रन्थे तु रथन्तरयोनेः परतो ‘‘नत्वावा अन्योदिव्य’’ इत्यस्याः पठितत्वात्तस्यां गानम् । अतोपि विकल्पः । द्वयोरपि रथन्तरयोन्युत्तरत्वादिति प्राप्ते यद्यप्ययं सम्बन्धिशब्दो लोके तथाप्युत्तराग्रन्थे संज्ञारूपेण प्रसिद्धः । तत्र संज्ञाशब्दस्यानपेक्षवृत्तित्वात्सापेक्षवृत्तेस्सम्बन्धिशब्दाद्बलीयस्त्वम् । प्रकरणपाठाच्चोत्तराग्रन्थः क्रत्वङ्गम् । तस्मादुत्तराग्रन्थाधीतास्वेव गानमिति सिद्धान्तितम् । अत्र यथोत्तराशब्दः प्रतियोगिनिरपेक्षार्थस्तथा वामनशब्दोपीत्यर्थः । ननूक्तं लिङ्गान्यप्यनवकाशानीत्यतो न्यायविवरणोक्तं सावकाशत्वं ‘‘तच्च लिङ्गं विष्णोरेवे’’ति भाष्यादौ किञ्चिद्विवृतं प्रपञ्चयति ।। लिङ्गानि त्विति ।। प्राणादिनियन्तृत्वं विष्णावाह ।। सर्वेति ।। प्रासादेति ।। केचित्प्रासादवासिनः केचिद्भूमिवासिनः केचिदुभयवासिनः । तत्र यथोभयवासिनः प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च गृह्यन्ते तथेहापि प्राणादिनियामकग्रहणेन प्राणतदितरसर्वनियामको ग्रहीतुं शक्य इत्यर्थः । विवृतश्चायं प्रासादवासिन्यायो महाभाष्ये प्रथमपादे ‘‘मुखनासिकावचनोऽनुनासिक’’ इत्यत्र । प्रागुक्तैन्द्राग्नादिवैषम्यमाह ।। ऐन्द्रेति ।। ‘‘ऐन्द्राग्नमेकादशकपाल’’मित्यादाविन्द्राग्नीदेवता अस्येति विगृह्य ‘‘सास्यदेवते’’त्यण्प्रत्ययस्योभाभ्यां परत उत्पादितत्वेन द्वयोरन्योन्यसापेक्षयोरेकमेव देवतात्वं व्यासज्यवृत्तिः । अन्यथा प्रत्येकं देवतात्वे ‘‘समर्थः पदविधि’’रिति सूत्रात्समर्थानुवृत्तेस्तद्धितेपि भावेन प्रत्येकं देवताकारकात्तद्धितोत्पत्तेरैन्द्रमाग्नेयमिति पृथङ्निर्देशस्स्यात् । आग्नेयमित्यत्र त्वितरनिरपेक्षाग्नेरेव देवतात्वस्य तद्धितेन बोधितत्वात्तदाऽत्र तस्यैव ग्रहणं नान्यस्येत्यर्थः ।। प्रत्येकमिति ।। अन्यथा पृथिव्यप्तेजोवाय्वादीन् यमयतीति श्रूयेतेति भावः । यद्देवानिति । तद्वैत्वं प्राणोऽभवः । महान् भोगः प्रजापतेः । भुजः करिष्यमाणः । यद्देवा’’निति तैत्तिरीयवाक्यस्य वैष्णवत्वं च ‘‘अत एव प्राण’’ इत्यत्र सिद्धमिति भावः । उक्तं च भाष्ये ‘‘तस्यैव प्राणत्वोक्तेस्तद्वैत्वं प्राणोऽभव इती’’ति । ‘‘तं भूतिरिति देवा उपासांचक्रिर’’ इत्यैतरेये ‘‘प्राणस्तथे’’त्यत्रोक्तरीत्या विष्णोरेव सर्वदेवतोपास्यत्वश्रवणादित्यर्थः । श्रुत्यन्तरे षट्प्रश्ने । प्राणशब्दितसर्वेन्द्रियाभिमानिनियामकत्वश्रवणेऽपीह प्राणापाननियामकत्वस्यैव श्रुतत्वेन वायुलिङ्गाप्रतीतेरित्यर्थः ।

चन्द्रिकाबिन्दुः

स्वतः उत्सर्गतः ।। आकृतीनामिति ।। जातीनां ज्ञानमस्माभिश्शब्दैर्भवतीति निरूपितम् । इयं च शब्दैः प्रतीतिः वर्णानामाधिक्येन वा नाशेन वा न विनश्यतीति श्लोकार्थः ।। यद्योन्यामिति ।। यत् साम योन्यां आद्यऋचि गायति तदुत्तरयोरित्यत्रोत्तरशब्देनाद्यापेक्षया उत्तरयोरिति नार्थः किन्तूत्तरासंज्ञकयोरुत्तराग्रन्थस्थयोः ऋचोरित्यर्थः । प्रासादे सत्यर्थ इति निर्णीतं प्रासादेति । प्रासादे तदितरत्र च चरत्स्वपि जनेषु प्रासादवासिशब्दः विशेषाविवक्षया प्रवर्तत इति न्यायार्थः ।। अग्नेः प्रत्येकमिति ।। यद्यपि अग्नावपि देवतात्वमस्ति । अन्यथा व्यासज्यवृत्तित्वायोगात् । तथापि तदिन्द्रसापेक्षं देवतात्वं न स्वतन्त्रम् । अन्यसापेक्षे च देवतात्वे न प्रत्ययः । ढकः समर्थ एव स्मरणादिति भावः ।

पाण्डुरङ्गि

ननु वामनिशब्दस्य एष उ एव वामनिरित्यादिश्रुत्यादिभिर्ब्रह्मनिष्ठत्वेऽपि वामनशब्दस्य न युक्तः तयोर्भिन्नविषयत्वादित्यत आह ।। वामनवामनिशब्दयोश्चेति ।। लोकवेदाधिकरणन्यायेनेति ।। य एव लौकिकास्तएव वैदिका इति लोकवेदाधिकरणन्यायेनेत्यर्थः । ननु ब्रह्मणि वामनशब्दो न युज्यते । तत्राल्पमात्रपरिमाणत्वादिरूपवामनत्वायोगादित्यत आह ।। एवं चेति ।। ननु परमात्मनः सर्वनियामकत्वाद्विशेषाकारेण प्राणादिनियामकत्वव्यपदेशोऽनुपपन्न इत्यत आह ।। सर्वनियामकत्वादिमतीति ।। प्रासादवासिन्यायेनेति ।। प्रासादाधो वसति ऊर्ध्वं च वसत्यपि कदाचित्प्रासादवासित्वस्यापि सत्त्वात्प्रासादवासित्वव्यपदेशवदित्यर्थः । नन्वेवमाग्नेयं चतुर्धा करोतीत्युक्त ऐन्द्राग्नस्यापि धीः स्यादित्यत आह ।। ऐन्द्राग्नादौ त्विति ।। परोक्तं समाख्यानं दूषयति ।। एवमेवैषप्राण इति ।। अप्रतीतेश्चेति ।। अप्रतीतेर्वाक्यद्वये प्राणस्य स्थानभेदोक्तिरिति भावः ।