टीकाक्षरार्थस्तु

टीकाक्षरार्थनिरूपणम्

तात्पर्यचन्द्रिका

टीकाक्षरार्थस्तु ।। सेदुराजेत्यादिवदिति ।। यथा स इत्यत्र छान्दसेन विसर्गलोपेन सेदिति गुणस्तथा हारः इत्वेत्यत्रापि हारेत्वेति गुण इत्यर्थः । यद्वा हारेत्वेत्येकं पदम् । व्यत्ययेन च द्विवचनस्यैकवचनमित्याह ।। हारेत्वानाविति ।। दीर्घस्वरार्थत्वेनाद्रवणादित्युक्तमिति ।।

संहितायां यत्र दैर्घ्यं पदे यत्र न विद्यते ।

उक्तार्थस्य महाधिक्यं श्रुतेस्तत्र विवक्षितम् ।।

इत्यादिवचनैः श्रुतौ शूद्रशब्दे ऊ इति दीर्घस्वरः शोकाधिक्यज्ञापनार्थ इति सूचयितुं सूत्र आद्रवणादित्युक्तमित्यर्थः ।। ब्रह्माणनयोग्यानां त्रैवर्णिकानामिति ।। ‘‘आर्जवं ब्राह्मणे साक्षाच्छूद्रो नार्जवलक्षण’’ इति श्रुतिव्याख्यानरूपायां स्मृतौ ब्राह्मणप्रतियोगित्वेन शूद्रस्योपादानाच्छतावपि ब्राह्मणशब्दस्त्रैवर्णिकपर एवेत्यर्थः ।। अविहितोपनयनानामेवेति ।। अविहितोपनयनत्वे सत्यनिषिद्धाध्ययनानामुत्तमस्त्रीतिर्यगादीनामेवापवादविषयता न तु निषिद्धाध्ययनानामित्यर्थः ।।

प्रकाशिका

‘‘हारे त्विति सेदुराजेत्यादिवद्विसर्गलोपेन भवति । हारेत्वानाविति वे’’ति वाक्यद्वयं क्रमेण व्यनक्ति ।। यथेति ।। ‘‘सेदुराजाक्षयतिचर्षणीना’’मित्यत्र स इदुराजेति वक्तव्ये पदकाले श्रूयमाणस्य विसर्गस्य लोपे ‘‘आद्गुण’’ इति गुणे च सति रूपमाश्रित्य सेदिति निर्देशस्तथेत्यर्थः । ननु ‘‘सोऽचि लोपे चेत्पादपूरण’’मित्यनेन सुप्रत्ययस्यैव लोपो विहितो न विसर्गस्य । तत्कथं विसर्गलोपेनेत्युक्तिः । सत्यम् । पदकाले विसर्गस्यैव श्रवणेन संहिताकाले तस्यैवाश्रवणेन विसर्गलोपेनेत्युक्तावपि तत्रैव तात्पर्यादित्याहुः । दीर्घेति वाक्यं दुर्गमत्वात्सप्रमाणं व्यनक्ति ।। संहितायामिति ।। ऊ इति दीर्घस्वर इति ।। शुद्रेत्येव पदकालेऽभिप्रेतत्वादित्यर्थः ।। इत्युक्तमिति ।। सूत्रे आङुच्चारणं कृतमित्यर्थः । ‘‘तदभावे’’ति सूत्रटीकायां ‘‘नैतदब्राह्मणो विवक्तुमर्हती’’ति वाक्ये ब्राह्मणपदस्यैव श्रवणेन शूद्रत्वाभावनिर्णय एव प्रवृत्तेरिति भाष्यादि कथमित्याशङ्क्य ‘‘ब्राह्मणपदेन ब्रह्माणनयोग्यानां त्रैवर्णिकानामुक्ते’’रित्युक्तं वाक्यं रूढार्थत्यागेन यौगिकार्थग्रहणेन हेतुं वदन् व्याचष्टे ।। आर्जवमिति ।। अविहितेत्याद्यन्तिमं वाक्यमस्पष्टत्वाद्व्याचष्टे ।। अविहितेति ।। शिष्टं स्पष्टमिति भावः ।।

चन्द्रिकाबिन्दुः

विसर्गलोपेनेति ।। रोरुत्पत्त्यनन्तरम्भाविसर्गलोपेने इत्यर्थः ।। संहितायामिति ।। अत्र शूद्र इति संहिता शुक् द्र इति विग्रहः इति व्यवस्था ।। शोकाधिक्येति ।। आद्रवणाधिक्येन कार्येण शोकाधिक्यं ज्ञायत इति भावः ।

पाण्डुरङ्गि

अविहितोपनयनत्वे सतीति ।। यद्यपि स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरेत्यादिना शूद्रादेरिव स्त्रीणामप्यध्ययननिषेधेनानिषिद्धानामेवापवादविषयत्वे स्त्रीणामप्यपवादविषयत्वमनुपपन्नम् । तथापि नाग्निर्न यज्ञः शूद्रस्येत्यादिशूद्रस्य विशेषतोऽध्ययननिषेध वत्स्त्रीमात्रस्यैवाध्ययननिषेधा-भावात्तासामनिषिद्धाध्ययनवत्त्वेनाप्यपवादविषयतोपपत्तिरिति भावः ।।

।। इति अपशूद्राधिकरणम् ।। ८ ।।