सिद्धान्तस्तु
सिद्धान्ते संवत्सरसारत्वरूपसूर्यलिङ्गस्य सावकाशत्वनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ।। ‘‘संवत्सरो वै प्रजापतिः । तत्र संवत्सरं नाम ब्रह्माण’’ मित्यादिश्रुतिस्मृतिषु उत्तराधिकरणभाष्ये वक्ष्यमाणरीत्या संवत्सरशब्दस्य चतुर्मुखे प्रसिद्धत्वात् श्रौतप्रसिद्धेश्च बलवत्त्वात् पूर्ववाक्ये च ‘‘महापुरुष इति यमवोचाम संवत्सर एवे’’ति संवत्सरे महापुरुषपदप्रयोगाच्च संवत्सरशब्दस्य चतुर्मुखपरत्वात् । तस्मादुत्तमत्वरूपस्य च तत्सारत्वस्य विष्णावेव सम्भवात् । यच्छब्दोपबन्धस्य ‘‘स यश्चायं पूरुषे यश्चासावादित्ये’’ इत्यादाविव श्रुत्यादिप्रसिद्धे ब्रह्मण्यपि सम्भवात् । ‘‘आदित्यो ज्योतिरादित्य’’ इत्यादौ च ब्रह्मण्यप्यादित्यशब्दस्य प्रसिद्धेः । ‘‘ शनोपुरुषं पुरुषं प्रत्यादित्यो भवती’’त्यनेन च प्रतिगृहं कूप इत्यनेनेव सर्वपुरुषगतत्वस्यैवोक्तत्वेन तदाभिमुख्योक्त्यभावात् । भावे वाऽऽदित्यमण्डलस्यैव पुरुषाभिमुख्यदर्शनात् अदर्शनेपि देवतायास्तदङ्गीकारे चेश्वरेपि तत्सम्भवात् । सौरमन्त्रेच ‘‘सूर्य आत्मा जगतस्तस्थुषश्चे’’ति ब्रह्मलिङ्गसद्भावात् । मन्त्रस्थस्य च ‘‘चक्षुर्मित्रस्य वरुणस्याग्ने’’रिति चक्षुश्शब्दस्य ‘‘चक्षुर्देवाना’’मिति श्रुत्या ब्रह्मण्येव सम्भवात् । पूर्णदर्शनशक्तित्वादिरूपस्य वा चक्षुरादिस्वामित्वरूपस्य वा चक्षुर्मयत्वादेः ‘‘सर्वेन्द्रियमयो विष्णु’’रित्यादिभाष्योक्तस्मृत्या विष्णौ सम्भवात् जीवेपि चक्षुरादिविकारत्वस्यासम्भवात् एतच्छब्दस्य च ‘‘अथैष ज्योति’’रित्यादावथशब्दादेरिवात्र प्रकरणविच्छेदकस्याभावेन पूर्वोक्ताशरीरप्रज्ञात्मपरत्वात् । वक्ष्यमाणस्यापि चाश्रुतत्वादिगुणैर्विष्णुत्वेन तत्परत्वेप्यनिष्टाभावात् । अल्पौकस्त्वस्य च व्योमवदिति सौत्रपदसूचितेन
एकत्राप्यनवस्थाने सर्वत्रावस्थितिः कथम् ।
एकत्रैव तु संस्थानं नैवात्र प्रतिपाद्यते ।।
इति न्यायेन सर्वगतेऽपि सम्भवात् । अनुव्याख्याने च
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद्ध्रुवम् ।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ।। इत्युक्तत्वात् ।
प्रकाशिका
अत्र पृथिव्यादिसर्वगतस्य विष्णुत्वे ब्रह्मशब्दोऽश्रुतत्वादिलिङ्गं च हेतूकृतम् । तच्चादित्यादिप्रापकवशादमुख्यार्थमिति न विष्णुप्रापकमिति यदुक्तं पूर्वपक्षिणा तत्रादित्यप्रापकत्वेनोक्तानां भगवत्येव युक्तत्वेनादित्यप्रापकत्वायोगात्तद्बाधाभावेन ब्रह्मशब्दादेरमुख्यार्थत्वायोगात् मुख्यब्रह्मशब्दादिना सर्वगतो विष्णुरेवेति भावेन सिद्धान्तयति ।। सिद्धान्तस्त्विति ।। तत्र यदुक्तं संवत्सरसारत्वादिलिङ्गैश्श्रुतेः प्रसिद्धादित्यपरत्वमिति तत्राद्यं लिङ्गं तावन्नेत्याह ।। संवत्सर इति ।। विष्णावेव सम्भवादित्यन्तेन । अत्र पञ्चम्यन्तप्रधानहेतूनां बाधकाभावेनेति वक्ष्यमाणसाध्येनान्वयः । संवत्सरशब्दस्य विरिंचिपरत्वे श्रौतस्मार्तप्रसिद्धिं महापुरुषपदप्रयोगं च साधकद्वयमाह ।। संवत्सरो वा इत्यादिना ।। आदिपदेन ‘‘प्रजापतिः प्रजास्सृष्ट्वा व्यस्रंसत संवत्सरो ब्रह्मा विश्वः कतमः स्वयं भूः प्रजापतिः संवत्सर’’ इत्यादिश्रुतिः ‘‘ततस्संवत्सरोनाम ब्रह्मा समभवत्प्रभो’’रित्यादि स्मृतिश्च गृह्यते । ननु ब्रह्मणि श्रौतप्रसिद्धिरिव कालविशेषे लोकप्रसिद्धिरप्यस्तीति चेन्न । ‘‘शास्त्रस्थावातन्निमित्तत्वा’’दिति यववराहाधिकरणन्यायेन श्रौतप्रसिद्धेरेवान्तरङ्गत्वेनाविप्लुतत्वेन च शास्त्रे ग्राह्यत्वेनाज्ञप्रसिद्धितो बलवत्त्वादित्याह ।। श्रौतेति ।। कालपरत्वे महापुरुषपदायोगात् । ‘‘संवत्सराभिमानी तु ब्रह्मैव हि महापुमा’’निति स्मृतिसिद्धत्वात् ।। तस्मादिति ।। ‘‘ब्रह्मा देवानां प्रथमस्सम्बभूवे’’त्यादिना सर्वदेवोत्तमत्वेनोक्तचतुर्मुखसारत्वं विष्णावेवेत्यर्थः । यच्छब्दोपबन्धरूपलिङ्गं चान्यथयति ।। यच्छब्देति ।। पुरुषे जीवे । आदित्ये देवतायां च । तत्र लोकप्रसिद्धस्य कस्यचिदभावेऽपि श्रुत्यादिसिद्धस्य हरेरेव ग्रहणं तद्वदित्यर्थः । ननु तत्र ‘‘य आत्मनि तिष्ठन्य आदित्ये तिष्ठ’’न्नित्यादौ पुरुषादित्यान्तस्स्थः प्रसिद्धः प्रकृते कथमादित्यत्वेन हरिः प्रसिद्ध इत्यत आह ।। आदित्य इति ।। ‘‘आदित्यो ज्योतिरादित्यस्सहिष्णुर्गतिसत्तमः’’ इति सहस्रनामसु विष्णौ प्रयोगादित्यर्थः । नन्वनादौ वेदे कथं सादिपौरुषेयग्रन्थप्रसिद्ध्युपबन्ध इति चेत् स्मृतिमूलश्रुतिप्रसिद्धौ तात्पर्यात् । स्मृतेस्सादित्वेऽपि तदर्थस्यानादित्वाच्च । उक्तं च विष्णुतत्वनिर्णये ‘‘पुराणानि तदर्थानि सर्गे सर्गेन्यथैव तु । क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गव’’दिति । यदप्युक्तं सर्वपुरुषाभिमुख्यं सूर्यलिङ्गमिति तन्नेत्याह ।। पुरुषं पुरुषमिति ।। सर्वपुरुषगतत्वं च ‘‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’’ इत्यादिश्रुत्याऽल्पौकस्त्वस्य चेत्यादिना वक्ष्यमाणरीत्या च युज्यत इति भावः ।
प्रतिपूरुषमेतस्मात्स्थितो विष्णुर्नियामकः ।
आदित्यादिषु च स्थित्वा द्योतकोऽसौ प्रति प्रति ।।
इति तद्भाष्यं हृदि कृत्वाऽह ।। भावे वेति ।। आभिमुख्योक्तिभावेऽपि तस्य त्वन्मतेऽप्यादित्यदेवताया अतीन्द्रियत्वेन तत्रादर्शनात् मण्डलस्याभिमुख्यदर्शनात्तद्द्वारा तत्रत्यदेवतायामङ्गीकारे तन्निष्ठभगवतोऽपि तद्द्वारा स्यादेवेत्यर्थः । एवं लिङ्गानामपाकरणे तन्मूलकश्रुतिप्रसिद्धिरप्यपाकृतेति न तत्र यतितव्यमिति भावः । नन्वस्त्वेवमाद्यकल्पे श्रुतेर्लिङ्गैरेवोज्जीवनात्तेषामन्यथासिद्धौ श्रुतेरप्यन्तर्नयन्यायेनान्यथासिद्धिः । उत्तरकल्पद्वये तु कथं स्वत एव तत्र श्रुतेर्निरवकाशतोक्तेरिति चेदित्थम् । वक्ष्यमाणदिशा ब्रह्मश्रुत्यादेर्मुख्यतया विष्णुसाधकत्वेनान्तरधिकरणन्यायविषयतयाऽऽदित्यश्रुतेर्विष्णुपरत्वम् । तत्र मुख्यत्वं वा सेत्स्यतीति । ननु चैवं ब्रह्मश्रुत्यादेरत्र मुख्यत्वे तद्बलादादित्यश्रुतिर्विष्णुपरा, सिद्धे च तस्या विष्णुपरत्वे बाधकाभावेन ब्रह्मशब्दादेर्मुख्यत्वमित्यन्योन्याश्रयः । न चार्भकौकस्त्वमेव बाधकं न श्रुतिरित्यस्ति विशेषः । श्रुतेरप्यस्मिन्पक्षे निरवकाशत्वोक्तेरिति चेन्न । ‘‘आदित्यो ज्योतिरादित्य’’ इत्यादिप्रयोगादादित्यशब्दस्य विष्णावेव सावकाशत्वेन सावकाशत्वस्य ब्रह्मशब्दमुख्यत्वानधीनत्वात् । एतेन तदावृत्तिर्बाधिकेत्यपि निरस्तम् । सावकाशत्वादेवेति । यद्वा ब्रह्मश्रुत्यादेरुपसंहारस्थत्वेन बलवत्तयाऽऽदित्यश्रुतेर्विष्णुपरत्वम् । वक्ष्यति चैतदुपक्रमस्थादित्यश्रुतेरित्यादि । एवमादित्यश्रुत्युज्जीवकलिङ्गानामन्यथासिद्धिमुक्त्वा इदानीं यदपि मन्त्रे चक्षुष्ट्वलिङ्गात्सूर्यशब्द आदित्यप्रापक इत्युक्तं तदयुक्तं अन्तरधिकरणन्यायविषयतयाऽत्रत्यसूर्यशब्दस्य विष्णुपरत्वादिति भावेन निरवकाशविष्णुलिङ्गं वदन्नन्यलिङ्गस्यान्यथासिद्धिमाह ।। सौरमन्त्रेऽपीति ।।
आदानात्सर्ववस्तूनामत्तृत्वात्प्रलयेऽपि च ।
आत्मेत्युक्तस्स भगवान् जगतः स्थावरस्य च ।।
इत्युक्तदिशा सर्वनियामकत्वरूपविष्णुलिङ्गादित्यर्थः । ‘‘चक्षुर्देवानामुतमर्त्याना’’मिति यजुश्शाखास्थश्रुत्येत्यर्थः । ‘‘सर्वनामाभिधेयश्चेत्यनेनैवादित्यशब्दस्येश्वरवाचित्वं चोक्तं भवती’’ति टीका उपलक्षणमिति भावः । यदप्युक्तं चन्द्रादावुक्त्वाऽऽदित्येऽनुक्तत्वमप्यादित्यलिङ्गमिति तत्त्वग्रे निरसिष्यत इति भावेन चक्षुश्शब्दस्य विष्णावुक्ततया तत्सङ्गतत्वेन चक्षुर्मयत्वादिजीवप्रापकाण्यपि सावकाशयति ।। पूर्णेति ।।
पूर्णदर्शनशक्तित्वाच्चक्षुर्मय इतीरितः ।
तादृक्श्रवणशक्तित्वात्तथा श्रोत्रमयस्स्मृतः ।।
इत्यैतरेयभाष्यदिशा मयटः प्राचुर्यार्थत्वेनायमाद्योऽर्थः । ‘‘इन्द्रियस्वामित्वेने’’ति टीकोपलक्षणमिति भावः । द्वितीयस्त्वेतद्भाष्यदिशेति व्यक्तम् । स्मृत्येत्युक्त्याऽयमेवार्थस्स्मार्तत्वादत्र ग्राह्यो न तु प्रसिद्धकरणसम्बन्ध इति सूचितम् । यदपि जीवपक्षे एतच्छब्दोऽथैष ज्योतिरित्यादाविव वक्ष्यमाणपर इति तत्राह ।। एतच्छब्दस्येति ।। अथैष ज्योतिरित्यादौ ज्योतिष्टोमप्रकरणविच्छेदकस्याथशब्दस्य श्रवणात्तत्र तथात्वेऽपि प्रकृते तथाप्रकरणभेदकं न किञ्चिदस्तीत्यर्थः । ननूक्तमत्र बाध्वचिह्नितोपक्रमोपसंहाराभ्यां भिन्नवाक्यत्वं तस्यावगतमिति । तथा च कथं न प्रकरणविच्छेद इति चेन्मैवम् । ‘‘एतामनुविधं संहितां संधीयमानां मन्य इति हस्माह बाध्व’’ इत्यनिरुद्धादिचतुर्मूर्त्यात्मकस्य विष्णोस्संहितादेवतात्वरूपावान्तरप्रमेये तात्पर्यख्यापनाय तदुपक्रमादेरुपपत्तेरविच्छेदकत्वात्पुनस्तस्यैव परामर्शेन गुणान्तरविधिसम्भवादिति तात्पर्यात् ।। पूर्वोक्तेति ।। ‘‘स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्या’’दित्यशरीरप्रज्ञात्मन आदित्यनाम्नश्चैकत्वादिति । आदित्यपरत्वादित्यनुक्त्वाऽशरीरेत्युक्तिर्विष्णुपक्षेऽशरीरत्वयुक्तिसूचनार्था । एतेन ‘‘स यश्चायमशरीर’’ इत्यादिटीका विवृता । उपक्रमादिवशेन भिन्नवाक्यत्वमुपेत्याप्याह ।। वक्ष्यमाणेति ।। प्रकृतपरत्वं तु टीकाद्युक्तसमर्थनार्थमिति भावः । अनिष्टेति ।। जीवलिङ्गानां सावकाशितत्वादिति भावः । यदप्युक्तमर्भकौकस्त्वाच्च न विष्णोरत्रोक्तसर्वगततेति तदपि न बाधकमिति भावेनाह ।। अल्पेति ।। सूचितेन न्यायेनेत्यन्वयः । तमेव न्यायं स्वयं सङ्गृह्याह ।। एकत्रेति ।। अर्भकौकस्त्वं नामाल्पदेशेऽवस्थितत्वम् । नत्वल्पदेश एवावस्थानवत्त्वम् । तच्च सर्वगतस्य विष्णोराकाशवदेव युज्यते । अल्पदेशेऽविद्यमानस्य सर्वगतत्वायोगात् । ‘‘यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुया’’दिति न्यायादित्यर्थः ।। एकत्रैवेति ।। सूत्रेष्वेवेत्यश्रवणात् । तथाश्रवणे हि तन्नोपपद्येत । न चैवमित्यर्थः । उक्तन्यायस्य भाष्यादावस्फुटत्वादाह ।। अनुव्याख्यान इति ।। द्वितीये वैशेषिकनये
महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् ।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ।
स्थितस्यही’’त्यादिनाऽस्य न्यायस्य विवृतत्वादित्यर्थः । यथा खल्वेकैकं वर्णमुच्चारयत एव सर्ववेदोच्चारणं न त्वेकमप्यनुच्चारयतः तथाऽल्पदेशेषु स्थितस्यैव सर्वगतत्वं भवेदित्यर्थः । एतेनात्र टीकादावेतदविवृतौ बीजमुद्भावितम् ।
चन्द्रिकाबिन्दुः
इत्यादाविति ।। स यश्चायं पुरुषे इति यश्चासावादित्ये इति सप्तम्यन्तादित्यादिप्रतिपाद्याधिष्ठानगतः आदित्याद्यतिरिक्तः कश्चन श्रुत्यादिप्रसिद्धः यथा यत्र यच्छब्दार्थत्वेन स्वीकार्यः तथेहापि इत्यर्थः । आदित्यशब्दार्थत्वेनैव ब्रह्मणः प्रसिद्धत्वं वक्तव्यं चेत्तदप्यस्तीत्याह ।। आदित्य इति ।। ज्योतिरादित्यः ज्योतिषामादौ विद्यमानः ज्योतिष्षु प्रधान इति स्वामिनः । प्रतिपुरुषाभिमुख्यं श्रुतेर्नैवार्थ इत्याह ।। पुरुषं पुरुषं प्रतीति ।। अत्र प्रतिगृहमितिवत् प्रतिपुरुषमिति नित्यसमासेन भवितव्यं न तु पुरुषं प्रत्यादित्यो भवति व्यासेन प्रतिशब्दस्य वीप्सार्थकत्वात् वीप्सायाश्च यथाशब्दार्थकत्वात् । यथाशब्दार्थे यदव्ययं तस्य नित्यसमासाङ्गीकारात् । अत एव यथाशब्दार्थे यदव्ययं तन्नित्यं समस्यते इति वार्तिकम् । अत एव प्रतिगृहमिति समासः । तथा च प्रकृते प्रतिगृहमिति दृष्टान्तोपपादनमयुक्तम् । व्यस्तस्य प्रतिशब्दस्याभिमुख्यार्थत्वादिति चेत् न । यदि प्रतीत्यव्ययमेव वीप्सार्थकं तदा प्रतिगृहमितिवत् प्रतिपुरुषमिति समासो भवेदेव । न चैवं किन्तु पुरुषं पुरुषं इति द्विर्वचनमेव वीप्सार्थकं दृष्टान्तोपपादकं वीप्सार्थसाम्याभिप्रायेणैव । न च द्विर्वचनस्यैव वीप्सार्थकत्वं न दृष्टमिति वाच्यम् । ‘‘कबले कबले कुर्वन्नि’’त्यादौ द्विर्वचनस्यापि वीप्सार्थकत्वदर्शनात् इति समाधानमूचुः स्वामिनः ।। आदित्यमण्डलस्यैवेति ।। त्वया च सर्वं सर्वपतित्वादिलिङ्गेन देवतायामेवाभिमुख्यस्योक्तत्वादिति भावः ।।
चक्षुर्देवानामिति ।। यद्यपीदं वाक्यं ऋत्विक्कर्तृकाग्निप्रार्थनपरम् । तथा च चक्षुष्ट्वमप्यग्नेरेवेति प्राप्तं तथापि ज्योतिरधिकरणन्यायेनाग्निशब्दस्य विष्णुपरत्वमभिप्रेत्यैवमुक्तम् । चक्षुर्मयशब्दस्य टीकानुसारेणैकमर्थं कथयित्वा भाष्यानुसारेणार्थान्तरमाह ।। चक्षुरादिस्वामित्वेति ।। इतः परं बहूनि वाक्यानि टीकार्थकथनपराणि तदभिप्रायपराणि । टीकादिक्रमोल्लङ्घने निमित्तभूतस्वारस्योपेतानि आलोच्य व्याख्येयानीति ध्येयम् ।। अशरीरप्रज्ञात्मपरत्वादिति ।। आदित्यदेवतायाश्चाशरीरत्वाद्यभावेनादित्यशब्दो विष्णुपर इति स्वीकर्तव्यमिति विशेषणदातुरभिप्रायः । ननु बाध्वचिह्नितोपसंहारवाक्यैकवाक्यत्वमेव प्रकरणाविच्छेदे ज्ञापकमिति अस्वरसादाह ।। वक्ष्यमाणस्यापि चेति ।। व्योमवदिति ।। सौत्रपदसूचितेनेति ।। तथा च व्योमवदित्यस्य न केवलमयुक्तत्वशङ्कानिरास एव व्यापारः किं त्वेकदेशावस्थानद्वारा सर्वगतत्वोपपादनार्थमपि व्यापार इति ध्वनयति ।
पाण्डुरङ्गि
अभ्यधिकाशङ्काविघटनक्रममालम्ब्य सौत्रक्रमोल्लङ्घनेन सिद्धान्तमाह ।। सिद्धान्तस्त्विति ।। आदित्यश्रुतेः प्रसिद्धादित्यपरत्वं उपोद्बलकत्वेनोक्तसंवत्सराधिपतित्वरूपं लिङ्गं ब्रह्मणि सावकाशयति ।। संवत्सर इति ।। यच्छब्दोपबन्धोप्यादित्यश्रुतेर्न प्रसिद्धादित्यपरत्वसंपादनायां क्षम इत्याह ।। यच्छब्देति ।। तृतीयं लिङ्गं सावकाशयति ।। पुरुषं पुरुषमिति ।। प्रतिशब्द एवाभिमुख्यवाचक इति भावेनाह ।। भावेवेति ।। नन्वादित्यमण्डलस्य पुरुषाभिमुखत्वात्तच्छरीरकस्यादित्यस्य पुरुषाभिमुख्यमुपपन्नमित्यतः तर्ह्यादित्यशरीरकस्य ब्रह्मण एव पुरुषाभिमुख्यं सम्भवतीति न ब्रह्मपक्षे तस्य बाधकतेत्याह ।। अदर्शनेऽपीति ।। यदुक्तं ज्ञानकरणतया प्रसिद्धचक्षुरादिसम्बन्धस्य नित्यज्ञानेंऽतर्यामिण्य सम्भवेन तत्प्राचुर्यं सुतरां न सम्भवतीति तत्पराचष्टे ।। पूर्णदर्शनेत्यादिना ।। ननु चक्षुर्मयत्वं न पूर्णदर्शनशक्तित्वादिरूपम् । येन ब्रह्मणोऽपि तत् स्यात् । किं नाम चक्षुर्विकारत्वमेव । तच्च निर्विकारे ब्रह्मण्यनुपपन्नमेवेत्यतः तर्हि जीवस्यापि निर्विकारत्वेन चक्षुर्विकारत्वरूपचक्षुर्मयत्वासम्भवात्कथं चक्षुर्मयत्वेन जीवप्राप्तिरित्याह ।। जीवेऽपीति ।। यदुक्तमथैषज्योतिरित्यादेरिव एतं ह्येव बह्वृचा इत्यादेरपि वक्ष्यमाणचक्षुर्मयजीवपरत्वमिति तदेतद्दृष्टान्तदार्ष्टान्तिकयोर्वैषम्येण परिहरति ।। एतच्छब्दस्येति ।। ननु सर्वत्राप्यथशब्द एव प्रकरणविच्छेदक इति न नियमः । तथासति एष तु वा अतिवदतीत्यत्र प्रकरणविच्छेदकस्याथशब्दस्याभावात्प्रकरणविच्छेदो न स्यात् । किं तर्ह्यथैषज्योतिरित्यादावथशब्दादेरिवेह प्रकरणेपि चत्वारः पुरुषा इति बाध्व इति बाध्वचिह्नितोपक्रमस्य इति हस्माह बाध्व इति बाध्वचिह्नितोपसंहारवाक्यैकवाक्यत्वमेव प्रकरणविच्छेदकमित्यत आह ।। वक्ष्यमाणस्यापीति ।।