यद्वा अन्तरधिकरणन्यायेन..
लिङ्गस्य निरवकाशत्वानुपपत्तिं आशङ्क्य समाधानम्
तात्पर्यचन्द्रिका
यद्वा अन्तरधिकरणन्यायेन रूढिबाधेन श्रुतेर्ब्रह्मपरत्वसम्भवेऽपि ‘‘अनश्न’’ न्नित्यादिश्रुत्याऽनत्तुर्ब्रह्मणोऽत्तृत्वरूपादितित्वलिङ्गं न सम्भवतीति टीकाभिप्रायः । न च कर्मफलात्तृत्वसाधकेनोत्तराधिकरणेनात्रत्यानत्तृत्वशङ्का दण्डापूपनयहतेति वाच्यम् । तत्रात्र सिद्धमत्तृत्वसामान्यमुपेत्य कर्मफलात्तृत्वरूपस्तद्विशेषो नेति या शङ्का तस्या निरसिष्यमाणत्वेनात्र त्यपूर्वपक्षदशायां तत्रत्यसिद्धान्तानुन्मेषात् । अत एव तत्र भाष्ये विशेषाक्षेपार्थं ‘‘सर्वात्तैकः पर उक्त’’ इत्यत्तृत्वसामान्यानुवादः । अथवा वक्ष्यमाणरीत्याऽत्र विष्णुलिङ्गाभावेनान्तरधिकरणन्यायाविषयतया अदितेरित्यत्रेवादितित्वमित्यत्राप्यदितिप्रातिपदिकस्य प्रसिद्धादितिपरत्वात्ततः परेण त्वप्रत्ययेनापि तद्गतधर्म एव वक्तव्यः । एवं च ‘‘तद्दध्नो दधित्व’’मित्यादाविव प्रसिद्धादित्युद्देशात् प्रसिद्धार्थ एव शब्दान्वाख्यानस्याकाङ्क्षितत्वाच्च । श्रुतिर्लिङ्गं च निरवकाशमिति न्यायविवरणाभिप्रायः । अत एव न्यायविवरणस्थचशब्दस्वारस्यम् । टीकायां श्रुतेः सावकाशत्वोक्तिस्तु सजातीयदेवतावाचिशब्दसमन्वयस्य सिद्धत्वमभिप्रेत्येति द्रष्टव्यम् ।
प्रकाशिका
पूर्वमदितित्वं गोत्वादिवज्जातिरूपमित्युपेत्य समाहितम् । अधुनाऽदनकर्तृत्वमित्यभिप्रेत्याह ।। यद्वेति ।। अत्रापि भगवल्लिङ्गमस्तीत्युपेत्याह ।। अन्तरधिकरणन्यायेनेति ।। पूर्वपादे प्रतिनयं लिङ्गादिभिर्नाम्नां तत्परत्वमेवोक्तं न तु तत्र शक्तिरपीति पक्षमुपेत्योक्तं ब्रह्मपरत्वसम्भवेऽपीति ।। अनश्नन्नित्यादीति ।। यद्यपीयं श्रुतिः कर्मफलाशनं नेत्याह ।। पिप्पलमिति सन्निधानात् । अन्यथोत्तराधिकरणपूर्वपक्षटीकादावेतदुक्तिर्न स्यात् । तथापि ‘‘न तदश्नाति किंचने’’त्यादौ तात्पर्यम् । अत एवादिपदोक्तिः । एतच्छत्युक्तिस्तूत्तरनयवैषम्योक्त्यर्थं शङ्कोत्थापनायवा सामान्यनिषेधपरत्वमप्यभिप्रेत्य वेति ।। दण्डापूपेति ।। यथादण्डं भक्षयतोऽपूपभक्षणं न दुश्शकं तद्वददनविशेषसाधनेऽदनसामान्यस्यानायासेन सिद्धत्वादित्यर्थः । एतत्सिद्धान्तोपजीवनेनैव तस्य प्रवृत्तेरित्याह ।। तत्रेति ।। अन्यथा भावार्थाधिकरणेन स्वर्गकामाधिकरणवैयर्थ्यापत्तेः स्वर्गकामनयसिद्धापूर्वोपजीवनेनैव तस्य प्रवृत्तेरिति भावः । एवं टीकोक्तं श्रुतेस्सावकाशत्वेऽपि लिङ्गनिरवकाशत्वं द्वेधोपपाद्याधुना प्रागुक्तन्यायविवरणस्य तात्पर्यान्तरमाह ।। अथवेति ।। सर्वशब्दस्तु योग्यसर्वपर इति वक्ष्यमाणरीत्येत्यर्थः ।। अदितेरित्यत्रेवेति ।। श्रुतिबाधकलिङ्गाभावेनान्तर्नयन्याय अविषयत्वे श्रुतेर्विष्णौ निरवकाशत्वाद्यथा प्रसिद्धादिति देवतापरत्वं तद्वदित्यर्थः । तावता वाक्यस्य कोर्थ इत्यत आह ।। एवं चेति ।। श्रुतेः प्रसिद्धार्थत्वे सतीत्यर्थः ।। तद्दध्न इति ।। ‘‘एतदस्मै दधिकुरुतेत्यब्रवीत् । तदस्मै दध्यकुर्वन् । तदेनमधिनोत् । तद्दध्नो दधित्व’’मिति पूर्ववाक्ये प्रकृतस्य प्रसिद्धस्यैव दध्नः ‘‘तदेनमधिनोत्’’धिनु पुष्टौ अपुष्णात् । धिवि प्रीणने अप्रीणाद्वा । तत्पोषकत्वाद्येव प्रसिद्धदध्नो दधिपदवाच्यस्य दधित्वं दधिपदप्रवृत्तिनिमित्तमिति प्रसिद्धस्यैव दधिपदेनोद्देशात्तद्वाक्यं यथा तत्र तच्छब्दान्वाख्यानपरं तथेदमपि देवमातर्यदितावदितिशब्दप्रवृत्तिनिमित्तोक्तिपरमित्यर्थः । एतेन ‘‘अदितेरदितित्वमिति हि श्रूयते । त्वप्रत्ययश्च जातेर्वाचकः । यथा पृथिवीत्वं गोत्वमित्यादौ । तदसम्भवे स्वरूपस्यैव । यथाऽऽकाशत्वं चन्द्रत्वमित्यादौ । न चादितित्वं जातिः सम्भवति ।। व्यक्तेरभेदात् । ततोदितित्वमदितेस्स्वरूपमेव । न चादितिस्वरूपमीश्वरस्य भवति । अत्यन्तभिन्नत्वात् । न चादितिशब्दो भगवत्पर इत्यनुपपत्त्यभावः । अदितित्वेनादितिशब्दस्य तत्र विधित्सितत्वेनानुवादानुपपत्तेः । अन्यथाऽन्योन्याश्रयप्रसङ्गादिति । पूर्वपक्षी मन्यत’’ इति न्यायविवरणटीका विवृता । टीकाविरोधं निराह ।। टीकायामिति ।। सजातीयेति ।। अत एव न्यायविवरणटीकायां ‘‘न च श्रुतिरिन्द्रादिश्रुतिरिव विष्णौ सावकाशे’’त्येवोक्तमिति भावः ।
चन्द्रिकाबिन्दुः
प्रयोगस्याज्ञानादिनाप्यन्यथा सिद्धेरित्यस्वरसादाह ।। यद्वेति ।। न चेति ।। कर्मफलात्तृत्वाख्यविशेषनिश्चये ब्रह्मणि अत्तृत्वसामान्यसन्देहानुदयादिति भावः ।। अनुन्मेषादिति ।। तथा चोपजीव्यसामान्यसिद्ध्यङ्गत्वान्नेदमधिकरणं गतार्थमिति भावः ।। वक्ष्यमाणरीत्येति ।। श्रुतौ सर्वशबब्दस्तु अदनयोग्यसर्वपर इत्यादिनेति शेषः ।। तद्गतधर्म इति ।। अदितौ सम्भावितधर्मपरतयैवादितित्वं व्याख्येयमिति भावः । अस्मिन् पक्षे टीका गौणतया व्याख्येयेत्याह ।। टीकायामिति ।।
पाण्डुरङ्गि
नन्वन्तरधिकरणन्यायेन श्रुतेर्मुख्यत्वाल्लिङ्गस्यापि ब्रह्मणि मुख्यत्वमेवेत्यभ्युपगन्तव्यम् । तथाच श्रुतेर्ब्रह्मण्यमुख्यत्वेन सम्भवेऽपि लिङ्गस्यामुख्यत्वेनाप्यसम्भव इति कथं टीकाभिप्राय इत्यरुचेराह ।। यद्वेति ।। अभ्यधिकाशङ्कापक्षानुसारेण वाह ।। यद्वेति ।। दण्डापूपनयेति ।। वेणुदण्डापाश्रितमध्यापूपपातनायदण्डपातनन्यायेनेत्यर्थः । तथाच वेण्वग्रापाश्रितापूपपातनार्थं न पृथक्प्रयासः । वंशपातनेनैव तत्सम्भवादिति भावः । एवं सामान्यस्यानुस्यूतत्वेन विशेषसिद्ध्या सामान्यस्यापि सिद्धेः । अन्यथा ऋग्वेदित्वे सिद्धेऽपि ब्राह्मण्याभावशङ्का स्यादिति भावः ।। तत्रेति ।। दण्डस्यापूपार्थमेव हन्तव्यत्वात्कर्मफलात्तृत्वस्यात्तृत्वसामान्यसिद्ध्यर्थमेव असाधनात् । सर्वात्तृत्वकर्मफलभोक्तृत्वयोः प्रत्येकं स्वप्रधानत्वेनासिषाधयिषितत्वात् सामान्यविशेषभावस्य च पौर्वापर्यमात्रनिमित्तत्वान्नान्यतरेणान्यतरगतार्थतेति भावः । ननु चान्तरधिकरणन्यायो निरवकाशलिङ्गेन सावकाशश्रुत्यादि बाधः । तथाच तत्तच्छब्दप्रवृत्तिनिमित्तस्य भगवद्गतत्वात् सर्वेषामपि शब्दानां भगवति मुख्यत्वमित्यप्यन्तरधिकरणन्यायः । तत्र पूर्वाधिकरण इव नात्र निरवकाशब्रह्मलिङ्गमस्ति । येनादितिश्रुतेर्भगवति मुख्यत्वं स्यात् । नापि तच्छब्दप्रवृत्तिनिमित्तस्य भगवद्गतत्वेन भगवति तच्छब्दस्य मुख्यत्वम् । अनश्नन्नन्य इति च श्रुत्याऽनत्तृत्वेन प्रमिते ब्रह्मण्यदितिशब्दप्रवृत्तिनिमित्तस्य सर्वात्तृत्वस्याभावात् । तथाच कथमन्तरधिकरणन्यायेन श्रुतेर्भगवति मुख्यत्वमित्यपरितोषादाह ।। अथवेति ।। ननु प्रातिपदिकस्य प्रसिद्धादितिपरत्वेऽपि त्वप्रत्ययस्य तद्गतधर्मप्रतिपादकत्वं कुतः । कुत्राप्यदर्शनादित्यत आह ।। एवं चेति ।। प्रसिद्धादित्युद्देशादिति ।। प्रसिद्धामदितिमुद्दिश्येत्यर्थः । ननु चादितिर्देवतामयीत्यादावदितिशब्दस्य भगवत्यपि प्रयोगोऽस्तीत्यत आह ।। प्रसिद्धार्थ एवेति ।। अत एवेति ।। श्रुतिलिङ्गयोरुभयोरपि निरवकाशत्वादेवेत्यर्थः । नन्वेवं टीकोक्तायाः सावकाशत्वोक्तेः का गतिरित्यत आह ।। टीकायामिति ।।