सिद्धान्तस्तु..

आनुकूल्येन गृह्यमाणत्वं विष्णोरेवेति सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु । उपसंहारे ‘‘न तत्र सूर्यो भाति न चन्द्रतारक’’मिति सूर्याद्यप्रकाश्यत्वं ‘‘तमेव भान्तमनुभाति सर्व’’मिति सूर्यादिप्रकाशहेतुत्वं ‘‘तस्य भासा सर्वमिदं विभाती’’ति सर्वजगत्प्रकाशकत्वं चोक्तम् । तानि च भाष्योक्तश्रुत्यादिभिर्ब्रह्मण एव । ‘‘न तत्र सूर्य’’ इत्यादिना च ‘‘कथं नु तद्विजानीया’’मित्यादिसन्निहितवाक्यप्रकृतमानुकूल्येन गृह्यमाणमेवोच्यत इत्त्यानुकूल्येन गृह्यमाणत्वं ब्रह्मण एव ।

ननु यद्यपि ‘‘नित्योनित्याना’’मित्यादिकमीश्वरवाक्यं ‘‘न तत्र सूर्यो भाती’’त्यस्य व्यवहितम् । ‘‘कथं नु तद्विजानीया’’मित्यादिकं तु सन्निहितम् । तथापि ‘‘तमेव भान्त’’मित्यत्र तमिति शब्दस्तावत्पुल्लिङ्गत्वात्प्रकृतेश्वरपर एवेति तदेकार्थत्वाय ‘‘न तत्र सूर्यः’’ ‘‘तस्य भासे’’त्यादिकमपि तत्परमेवेति सूर्यादिप्रकाशहेतुत्वादिकं नानुकूल्येन गृह्यमाणगतमिति चेन्न । ‘‘किमु भाति न भाति वे’’त्यत्रोक्तस्य दुर्ज्ञेयत्वस्यैव ‘‘न तत्र सूर्यो भाती’’त्यत्र प्रत्यभिज्ञानात् । गुणभूतप्रत्ययार्थलिङ्गानुग्रहाय प्रधानभूतानां तत्र तमेव तस्येत्यनेकेषां प्रातिपदिकानां स्वतः प्राप्तसन्निहितपरत्वत्यागायोगाच्च । पाशमन्त्रादौ हि प्रातिपदिकानुसारेण प्रत्ययास्वारस्यमाश्रितम् । तथा ‘‘प्रयाजशेषेण हवींष्यभिघारये’’दित्यादौ प्रयाजशेषप्रातिपदिकस्वारस्याय तृतीयाव्यत्ययेन द्वितीयार्था स्वीकृता । न तु तृतीयानुसारेण प्रातिपदिकस्य लक्षणा । एवं च

प्रयाजशेषेणेतिवत् प्रकृत्यर्थानुसारतः ।

प्रत्ययस्य स्वरसताभङ्ग एवात्र युज्यते ।। १ ।।

उपपत्स्येते च सिद्धान्तरीत्या ‘‘तदेत’’दित्यादेः ‘‘कथं नु तदि’’त्यादेश्चेश्वररूपैकार्थपरत्वे तमित्यस्य पुल्लिङ्गत्वसन्निहितपरत्वे ।

प्रकाशिका

अनुकृतेस्तस्य चेति सूत्रोपात्तश्रौतोपसंहारस्थलिङ्गैश्श्रौतोपसंहारस्थानेकतच्छब्दप्रातिपदिकस्वारस्यानुरोधेन चानुकूल्येन गृह्यमाणो विष्णुरेवेति तदेतदिति सर्वनाम्नो व्यवहितेश्वरपरत्वं न्याय्यमिति भावेन सिद्धान्तटीकां विवृण्वन् ‘‘तमेव भान्तमनुभाति सर्वमिति वाक्यशेष’’ इत्यादिटीकां तावद्विवृणोति ।। उपसंहार इति ।। टीकायामाद्यसूत्रे यथाभाष्यं लिङ्गद्वयमात्रोपादानेऽपि द्वितीयसूत्रे ‘‘किञ्च न तत्र सूर्यो भाती’’त्याद्युक्तेबोधसौकर्याय लिङ्गत्रयमप्येकत्रैवोक्तम् । श्रुत्यादिभिरिति ।। ‘‘अहं तत्तेजोरश्मीत्,न तद्भासयते सूर्यः, यदादित्यगतं तेज’’ इत्यादिभिरित्यर्थः । श्रुतौ तेजः सर्वजगत्प्रकाशकम् । रश्मीत् रश्मिप्रेरकमिति सर्वजगत्प्रकाशकत्वसूर्यादिप्रकाशहेतुत्वयोरुक्तया तयोश्श्रुत्यन्तरसिद्धत्वेऽपि सूर्याद्यप्रकाश्यत्वस्य श्रुत्यन्तरसिद्धत्वं भाष्येऽनुक्तत्वादूह्यम् । स्मृतौ ‘‘मामक’’मित्यस्य मदधीनं मदीयं चेति व्याख्यानेन लिङ्गद्वयस्य स्मृतिसिद्धब्रह्मधर्मत्वं, ‘‘न तद्भासयत’’ इत्यनेन च सूर्याद्यप्रकाश्यत्वस्य स्मृतिसिद्धं तथात्वमिति ध्येयम् । ननूक्तं नैतान्यानुकूल्येन गृह्यमाणनिष्ठानीति । तत्राह ।। न तत्रेति ।। ‘‘न च मन्तव्य’’मित्यादिटीकां विवृण्वन्पूर्वोक्तपुल्लिङ्गविरोधशङ्कां विस्तरेणानूद्यापाकरोति ।। नन्विति ।। नन्वियं शङ्का पूर्वपक्षावसर एव कुतो न सम्यगुपपादितेति चेन्मैवम् । न तत्रेत्यादेस्सन्निहितपरत्वानवकाशत्वयोरुक्तयैतद्बाधकत्वेनोपपादनस्यात्रैव सङ्गतत्वात् अनेक प्रातिपदिकभङ्गादिरूपदूषणस्य सुखबोधत्वाच्चात्रोपपादितेति । टीकोक्तं दुर्ज्ञेयत्वप्रत्यभिज्ञानमुपलक्षणमिति भावेनाह ।। गुणेति ।। न्यायसिद्धोऽयमर्थ इत्याह ।। पाशेति ।। उक्तं पाशाधिकरणशरीरं गुहामित्यत्र । अत्र यद्यपि प्रधानभूतकर्मकारकरूपप्रत्ययार्थानुग्रहाय सङ्ख्यानादरो न प्रातिपदिकस्वारस्यानुग्रहायेत्यपि सुवचम् । तथापि–

प्रकृत्यर्थस्य पाशस्य विभक्तयर्थस्य कर्मणः ।

उभयोः प्रकृते भावान्नोत्कर्षोऽस्यावकल्पते ।।

इत्युक्तत्वादेवमुक्तम् । अत एवोदाहरणान्तरम् ।। तथेति ।। चतुर्थे ‘‘अभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदस्स्यात्’’ इत्याद्यपादीयत्रयोदशाधिकरणे ‘‘प्रयाजशेषेण हवींष्यभिघारयती’’ति वाजपेयगतं वाक्यमुदाहृत्य किं हविस्संस्कारार्थमभिघारणमुत प्रयाजशेषप्रतिपत्तिरिति संशये उपयोक्ष्यमाणसंस्कारस्योपयुक्तसंस्कारापेक्षयाऽभ्यर्हि तत्वाद्द्वितीयातृतीयाभ्यां प्रधानोपसर्जनभावावगमाच्च न्यायतश्शब्दतश्च हविस्संस्कारार्थमिति प्राप्ते शेषस्य प्रतिपत्त्यपेक्षत्वात्तादर्थ्यादभिघारणं दृष्टार्थम् । हविस्संस्कारोऽनपेक्षितोऽदृष्टः कल्प्येत । न च दृष्टे सत्यदृष्टकल्पनं न्याय्यमिति प्रयाजशेषं हविष्षु क्षारयेदिति वाक्यार्थवर्णनेन प्रतिपत्तिरिति सिद्धांतितम् । तत्र यथा प्रातिपदिकस्वारस्यानुग्रहाय प्रत्ययस्वारस्यत्यागः तथाऽत्रापीत्यर्थः । अत्र वक्तव्यो विशेषो ‘‘न सङ्ख्योपसंग्रहा’’दित्यत्र वक्ष्यते । उक्तं सङ्गृृह्णाति ।। एवं चेति ।। अत्रेति ।। तमिति शब्दे इत्यर्थः । अभ्युपेत्येदमुक्तम् । वस्तुतस्तु ‘‘यस्यैवं सुखं रूपं तत्रेति वाक्ययोजनोपपत्तेश्चे’’ति टीकोक्तरीत्या प्रत्ययार्थास्वारस्यमपि नेत्याह ।। उपपत्स्येते चेति ।। पुल्लिङ्गत्वेति ।। रूपशब्दापेक्षया मध्ये तदित्यादेर्नपुंसकत्वेऽपि ‘‘एको वशी’’त्यादिना सर्वत्रेश्वरस्य पुल्लिङ्गशब्दैः प्रकृतत्वेन तत्परामर्शितया पुंस्त्वमानुकूल्येन गृह्यमाणपरत्वाच्च सन्निहितपरत्वं चेत्यर्थः ।

चन्द्रिकाबिन्दुः

(इदं च दूषणं स्वार्थे ।। द्रव्यमिति ।। द्रव्यस्यैव प्रातिपदिकार्थत्वपक्षे बोध्यम्(?) ।।) लिङ्गानुग्रहायेति ।। तमेवेति पुल्लिङ्गानुग्रहायेत्यर्थः । प्रकृत्यर्थानुसारेण प्रत्ययास्वारस्ये दृष्टान्तमाह ।। पाशमन्त्रादाविति ।। प्रत्ययास्वारस्यमिति ।। पाशानिति बहुवचनस्य पाशावयवगतबहुत्वविवक्षया प्रवृत्तिरित्यत्र स्फुटम् ।। प्रयाजशेषेण हवींषीति ।। द्वितीयया हविषां संस्कार्यत्वं प्रतीयते । प्रयाजशेषस्य तु तृतीयया करणत्वं प्रतीयते । एवं च पित्रे प्रयाजशेषो नास्ति । हविस्संस्कारार्थं पुनः प्रयाजं कृत्वा शेषं सम्पाद्य तेन हविस्संस्कारः कर्तव्य इति तृतीयाख्यप्रत्ययस्वारस्येन पूर्वपक्षे शेषेति प्रातिपदिकस्वारस्यमहिम्ना प्रतिपत्तिकर्मत्वावगतौ प्रत्ययार्थबाधेन प्रयाजशेषं हविष्षु क्षारयेदित्यर्थः कल्प्यते इति शास्त्रदीपिकायां स्फुटम् ।

पाण्डुरङ्गि

प्रथमसूत्रसूचितान् हेतूनाह ।। सिद्धान्तस्त्विति ।। यद्यप्यत्र सूत्रे प्रथमत उक्तत्वात्सूर्यादिप्रकाशनियामकत्वस्यैव वक्तव्यत्वाच्चशब्दोक्तस्य सूर्याद्यप्रकाश्यत्वस्य प्रथममुक्तिरनुपपन्ना । तथापि विषयवाक्ये सूर्याद्यप्रकाश्यत्वस्य प्रथममुक्तत्वात्तत्प्रतिपादकवाक्योदाहरणं युक्तमेवेति ।। भाष्योक्तश्रुत्यादिभिरिति ।। अहं तत्तेजोरश्मीत्, यदादित्यगतं तेजः, न तद्भासयते सूर्य इत्यादिश्रुतिस्मृतिभिरित्यर्थः । गुणभूतप्रत्ययार्थलिङ्गानुग्रहाय प्रधानभूतस्य तत्रेत्यादिप्रातिपदिकस्य स्वतः प्राप्तसन्निहितपरत्वत्यागे बाधकमाह ।। पाशमन्त्रादाविति ।। अन्यथा अदितिः पाशानित्यत्रापि प्रत्ययार्थभूतबहुत्वानुसारेण पाशप्रातिपदिकस्यास्वारस्यं स्यादिति भावः ।। तथेति ।। प्रयाजशेषेणेत्यत्र तृतीयया प्रयाजशेषस्य करणत्वस्य बोधितत्वेन प्रत्ययार्थभूतकरणत्वानुसरणे प्रातिपदिकस्य लक्षणापत्त्या तस्याश्चानङ्गीकृतत्वेन प्रयाजशब्दप्रातिपदिकस्वारस्यार्थं तृतीयाया व्यत्ययेन द्वितीयार्थत्वं वदतां मीमांसकानामपि प्रातिपदिकस्वारस्यार्थं प्रत्ययास्वारस्यं सम्प्रतिपन्नमित्यर्थः ।

Load More