सिद्धान्तस्तु

उपक्रमादिभिः तात्पर्यनिर्णयसमर्थनम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ।

व्याख्यातृवचनानां यैर्लिङ्गैस्तात्पर्यनिश्चयः ।

उपक्रमाद्यैस्तैरेव श्रुतितात्पर्यनिर्णयः ।

आपातजप्रत्ययाश्च परस्परविरोधिनः ।

अविरुद्धा प्रतीतिस्तु पूर्वापरविमर्शजा ।।

अनिश्चिततात्पर्यस्यागमस्य शास्त्रतात्पर्यानिश्चायकत्वादुपक्रमादिभिरागम-तात्पर्यनिश्चये वेदेऽपि तैरेव लोके क्लृप्तैस्तन्निश्चयोऽस्तु । न हि मानान्तरा-विरुद्धापातधीविषयेऽप्युपक्रमाद्यननुगुणे व्याख्यानेनापि तात्पर्यम् । अन्यथा परेणापि कालादिभेदेन वाक्यद्वयविरोधो न परिहार्यः स्यात् । न च लोके वक्त्रुपदेशेन वा तन्मूलव्याख्यानेन वा तात्पर्यधीर्न तूपक्रमादिनेति शङ्क्यम् । वक्तरि तात्पर्यमनुपदिश्य नष्टेऽपि तात्पर्यधीदर्शनात् । यत्तूक्तमापातप्रतीतत्यागे शब्द एव बाधितः स्यादिति, तन्न ।

आपाततो भ्रमप्राप्तमर्थं हित्वा विमर्शतः ।

गहनश्रुतितात्पर्यविषयोऽन्विष्यते यतः ।।

एवं चापातप्रतीतत्यागे पुरुषे भ्रान्तिरेव त्यक्ता भवति । न वेदार्थः । कुतः ।

 न हीक्षुलेहनेनैव ज्ञात इक्षुरसो भवेत् ।

 न चेक्षुदण्डं निष्पीड्य लब्धो नेक्षुरसो भवेत् ।।

न ह्यनन्तशाखात्मकत्वात्स्वरूपेणैवापरिच्छेद्यो नानानिगमनिरुक्तव्याकरणादिना विना दुर्बोधपदार्थो नानान्यायकलापं च विना दुरधिगमवाक्यार्थश्च वेदः सुबोधार्थः । तदुक्तं वार्तिके–

अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।

अन्यश्च परिपूर्णेन समस्ताङ्गोपसंहृतौ ।।

पौर्वापर्यपरामृष्टः शब्दोऽन्यां कुरुते मतिम् । इति ।।

एतेन पुराणादेरप्यापातप्रतीतार्थं वदन्तो निरस्ताः ।

प्रकाशिका

अन्वीयन्ते शक्तितात्पर्यगोचरेण सम्बध्यन्ते तथा ज्ञायन्त इति यावत् वाक्यानि, एतेनोपक्रमादिलिङ्गसमुदायेन इति सौत्रयौगिकान्वयपदेनोपक्रमादीनामेव तात्पर्यधीहेतुत्वं न तु व्याख्यानप्रतीत्योरित्युक्तम् । तत्र हेतुं वदन् पूर्वपक्षद्वयं क्रमेण निराह ।। व्याख्यात्रिति आपातजेति च । उपक्रमादेरुपजीव्यत्वाद्व्याख्यानस्य तदुपजीव-कत्वात् तथा आपातप्रतीतार्थस्य पूर्वापरविरुद्धत्वादुपक्रमादिपरामृष्टस्याविरुद्धत्वादुप-क्रमादेरेव तात्पर्यधीहेतुत्वं न तु व्याख्यानप्रतीत्योरित्युक्तं भवति । तदुपजीव्यत्वं व्यञ्जय-न्नाद्यं श्लोकं व्याचष्टे ।। अनिश्चितेति ।। आगमादेवागमतात्पर्यनिश्चये आत्माश्रयादिति भावः । लोके पौरुषेयवाक्ये । ननूपक्रमादिनाऽऽगमतात्पर्यनिर्णयेऽपि मानान्तराविरुद्धा-पातप्रतीते वेदार्थे तेनैव तात्पर्यधीरस्त्वित्यत आह ।। न हीति ।। निश्चीयत इति शेषः । अन्यथा तादृशेऽपि तात्पर्यनिर्णये ।। वाक्यद्वयेति ।। विष्णुतदितरकारणत्वबोधकवाक्यद्वये उपपत्तिविरोध इत्यर्थः । यदुक्तमुपक्रमादिभिरागमतात्पर्यनिश्चय इति तदाक्षिप्य निराह ।। न चेति ।। नष्टेऽपीति ।। तत्र द्वयोरप्यभावेन व्यभिचारादुपक्रमादेरेवाव्यभिचारादुक्त-मुपजीव्यत्वं युक्तमिति भावः । उक्तं च सुधायां ‘‘अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वम्’’ इति ।

द्वितीयश्लोक आपातप्रतीतत्यागे विमर्शप्रतीतग्रहणे विरोधाविरोधौ हेतू उक्तौ । तत्र प्रागुक्तदोषमुद्धरति ।। यत्त्विति ।। आपातत इति ।। गहनतात्पर्यार्थस्यान्विष्यमाणत्वान्न शब्दबाध इत्यर्थः । प्रतीतस्य वेदार्थस्य त्यागात्कथं न तद्बाध इत्यत आह ।। एवं चेति ।। तात्पर्यार्थोपादाने सतीत्यर्थः । गहनतात्पर्यार्थस्यैव वेदार्थत्वं न त्वनीदृशस्येत्यत्र को हेतुरिति भावेन कुत इति प्रश्ने यथेक्षुनिष्पीडनेन लब्धस्येक्षुरसत्वं दृष्टं न त्वनीदृशस्य तथेति भावेन दृष्टान्तं तावदाह ।। न हीति ।। ननु तत्र कठिनत्वात्पीडनापेक्षा न त्विहेत्यतोऽस्यापि दुर्बोधत्वादिना काठिन्यं हेतुमाह ।। न ह्यनन्तेति ।। स्वरूप-पदार्थवाक्यार्थानां दुर्ग्रहत्वादित्यर्थः ।। अन्य इति ।। महावाक्यैकदेशभूतेनाङ्गवाक्येन प्रधानवाक्येन च तत्तत्कर्तव्यतारूपः शास्त्रार्थैकदेशः प्रतीयते । प्रधाने सर्वाङ्गोपसंहारे कर्तव्येऽङ्गवाक्यैर्वाक्यैकवाक्यतामुपगतेन परिपूर्णेन प्रधानवाक्येन साङ्गप्रधानकर्तव्यता-रूपोऽन्यः परिपूर्णः शास्त्रार्थः प्रतीयते इति पूर्वापरपर्यालोचनावशात्प्रथमोत्पन्नप्रतीतेरन्यां प्रतीतिं शब्दः करोतीति तदभियुक्तोक्तार्थ इव निगमन्यायादिसमस्तवेदाङ्गोपसंहारे सति परिपूर्णार्थः प्रतीयत इत्यपि तस्यार्थः प्रतीयत इत्युक्तार्थे सम्मतिरियमिति वदन्ति ।। एतेनेति ।। आपातप्रतीतादेः पूर्वापरविरुद्धत्वादिनेत्यर्थः ।

चन्द्रिकाबिन्दु

व्याख्यानप्रतीतिभ्यां हि द्वौ पूर्वपक्षौ दर्शितौ । तौ क्रमेण श्लोकद्वयेन निरस्यति ।। व्याख्यात्रिति ।। आगमस्येति ।। व्याख्यानरूपस्यागमस्य तात्पर्यनिश्चयार्थमुपक्रमादीनामावश्यकत्वात् वेदेऽपि तैरेव निश्चयोऽस्त्विति भावः । ननु लोके व्याख्यानेनापि तात्पर्यनिश्चयो दृष्टः मानान्तराविरुद्धस्थले । तथा चोपक्रमादिभिरेव तात्पर्यनिश्चय इति कथमुच्यते इत्यत आह ।। न हीति ।। उपक्रमादिकमेव तत्रापि तात्पर्यनिश्चायकमिति भावः ।

अन्यथेति ।। उपक्रमादीनामप्रयोजकत्वं स्वीकृत्य व्याख्यानमात्रस्यैव तात्पर्य-निश्चायकत्त्वं यथा तथा व्याख्यानविरोधादिपरिहारोऽपि न स्वीकार्य इति भावः । न चेति ।। लोकशब्देन आगमरूपव्याख्यानमुच्यते । वक्त्रुपदेशेन व्याख्यानकर्त्रुपदेशेन । व्याख्यानेन उपदेशमूलकव्याख्यानान्तरेण तात्पर्यनिश्चयः । तथा चोपक्रमादिकं नावश्यकमिति भावः । आपातत इत्यस्य भ्रमप्राप्तार्थस्यैव त्यागः न तु श्रुतिबाधक-मित्यर्थः । ननु आपाततः प्रतीतार्थव्यतिरेकेण वेदार्थ एव नास्ति । तथा चापाततः प्रतीतार्थत्याग एव वेदार्थत्याग इत्याशयेनाशङ्कते । कुत इति ।। तत्रोत्तरमाह श्लोकेन ।। न हीति ।। निष्पीडनमावश्यकमिति दर्शयितुं पूर्वोक्तश्रुतेर्गहनत्वमुपपादयति ।। न ह्यनन्तेत्यादि ।। निगमादिशब्दार्थस्तु विवरणतत्वप्रदीपनादवगन्तव्यः । पौर्वापर्येति ।। अर्थस्य पौर्वापर्यार्थं प्रति हेतुत्वेन योजना ।

पाण्डुरङ्गि

व्याख्यानेन वेदतात्पर्यनिश्चय इत्युक्तम् । तत्र प्रष्टव्यम् । व्याख्यानस्यापि तात्पर्यनिर्णयः किं व्याख्यानान्तरेणोतोपक्रमादिना । नाद्यः । अनवस्थापातात् । न द्वितीयः । एवं हि तद्धेतोरेवेति न्यायेन सिद्धान्तयति ।। सिद्धान्तस्त्विति ।। ननु नोपक्रमादीनां तात्पर्यनिश्चायकत्वम् । तेषां विरुद्धप्रतीतिजनकत्वादित्यत आह ।। आपातजेति ।। यद्वा द्वितीयं पूर्वपक्षं प्रत्याह ।। आपातजेति ।। तथा चापाततोऽर्थ-प्रत्ययस्य परस्परविरुद्धत्वेन पूर्वोत्तरपरामर्शेन सावकाशत्वनिरवकाशत्वादिना विचारितोप-क्रमादेर्जातायाः प्रतीतेर्विरुद्धत्वाभावाद्युक्तं तात्पर्यनिर्णायकत्वमिति भावः । यद्वा नोपक्रमादिना व्याख्यातृवचनतात्पर्यनिश्चयः । प्रतीतिमात्रेणैव तात्पर्यनिर्णयोपपत्तेरिति चेत् । अत्र वक्तव्यम् । किमापातजप्रतीतिमात्रं तात्पर्यनिश्चायकमविरुद्धा प्रतीतिर्वा । नाद्य इत्याह ।। आपातजेति ।। न द्वितीय इत्याह ।। अविरुद्धेति ।। तथा चाविरुद्ध-प्रतीतेरुपक्रमादिसापेक्षत्वान्नोपक्रमादिकं विना तात्पर्यनिश्चय इति भावः ।

ननु व्याख्यातृवचनतात्पर्यनिश्चयार्थमुपक्रमाद्यपेक्षा यदि स्यात्तदा तेनैव वेदतात्पर्य-निश्चयोपपत्तौ व्याख्यातृवचनमनर्थकं स्यात् । न चैवम् । अनिश्चिततात्पर्यकस्यैव व्याख्यातृवचनस्य वेदतात्पर्यनिश्चायकत्वाङ्गीकारादित्यत आह ।। अनिश्चितेति ।। अन्यथाऽनिश्चिततात्पर्यकस्यापि वेदस्यार्थनिश्चायकत्वोपपत्तौ तात्पर्यनिश्चयार्थं व्याख्यान-मप्यनपेक्षं स्यादिति भावः । ननु नोपक्रमादिना तात्पर्यनिश्चयः । मानान्तराविरुद्धा-पातप्रतीतेऽर्थे व्याख्यानेन तात्पर्यनिश्चयसम्भवादित्यत आह ।। न हीति ।। तथा च सत्यपि व्याख्याने उपक्रमाद्यानुगुण्याभावे तात्पर्यनिश्चयाभावाद्व्याख्यानाभावेऽप्युपक्रमा-द्यानुगुण्यसत्त्वेन तन्निश्चयादन्वयतो व्यतिरेकतश्च व्यभिचारान्न व्याख्यानस्य तात्पर्य-निश्चायकत्वं किन्तूपक्रमादेरेवेति भावः । व्याख्यानेनोपक्रमादेरन्यथासिद्धेस्त्याग इत्यतो वाऽऽह ।। न हीति ।। अन्यथेति ।। मानान्तराविरुद्धापातधीविषये उपक्रमाद्यननुगुणे व्याख्याने न तात्पर्यनिश्चयाङ्गीकार इत्यर्थः ।

ननु व्यभिचारेण यथा व्याख्यानस्य तात्पर्यनिश्चायकत्वाभावः तथोपक्रमाद्यानु-गुण्याभावेऽपि वक्त्रुपदेशेन वा वक्त्रुपदेशमूलकव्याख्यानेन वा तात्पर्यनिश्चयेन व्यभिचारान्नोपक्रमादीनामपि तात्पर्यनिश्चायकत्वमिति । अत्र प्रष्टव्यम् । आपात-प्रतीतार्थत्यागे वा शब्दबाधः सर्वथा त्यागे वा । नाद्य इत्याह ।। आपातत इति ।। तथा चापातभ्रमप्राप्तपरित्यागे शब्दबाधस्याभावान्नायं बाध इति भावः । न द्वितीय इत्याह ।। गहनेति ।। तथा च सर्वथाऽर्थत्यागाभावान्न शब्दबाध इति भावः । नन्वापातप्रतीतत्यागे शब्दो बाधित एव स्यात् । आपातप्रतीतस्य स्वरसप्राप्तत्वात् । तथा च न पूर्वोत्तर-परामर्शसिद्धार्थो ग्राह्य इत्याक्षिपति । कुत इति ।। नन्वापातप्रतीतार्थत्याग एव वेदार्थत्याग इत्याक्षिपति ।। कुत इति ।। उत्तरमाह ।। न हीति ।।

ननु वेदार्थस्य सुबोधत्वात्तदर्थज्ञानाय नोपक्रमापेक्षेत्यत आह ।। न हीति ।। वेदस्य सुबोधार्थत्वं किं स्वरूपेणाल्पत्वादुतान्यानपेक्ष्येण सुबोधार्थत्वात्, यद्वा तादृश-वाक्यार्थत्वात् । नाद्य इत्याह ।। अनन्तेति ।। द्वितीयं प्रत्याह ।। नानेति ।। तृतीयं निराह ।। नानान्यायेति ।। पूर्वोत्तरपरामर्शेन विचारितो यः स एव वेदार्थ इत्यत्र भट्टवार्तिकसम्मतिमाह ।। तदुक्तमिति ।। अयमर्थः । महावाक्यैकदेशभूतेनाङ्गवाक्येन प्रधानवाक्येन च तत्तत्कर्तव्यतारूपशास्त्रार्थैकदेशः प्रतीयते । प्रधाने सर्वाङ्गोपसंहारे कर्तव्येऽङ्गवाक्यैर्वाक्यैकवाक्यतामुपगतेन परिपूर्णेन प्रधानवाक्येन साङ्गप्रधानकर्तव्यता-रूपोऽन्यः परिपूर्णः शास्त्रार्थः प्रतीयते । पूर्वापरपर्यालोचनया प्रथमोत्पन्नप्रतीतितोऽन्यां प्रतीतिं शब्दः करोति चेति । नन्वथापि नोपक्रमादिना वेदतात्पर्यनिश्चयः । पुराणादिनापि तन्निश्चयोपपत्तेरित्यत आह ।। एतेनेति ।। आपातप्रतीतेर्विरुद्धायास्तात्पर्यनिश्चायकत्वा-भावेनाविरुद्धप्रतीतेश्चोपक्रमादिसापेक्षत्वेनोपक्रमादेरावश्यकत्व कथनेनेत्यर्थः ।

Load More