तत्र चात्रत्यादित्यस्थस्याग्नित्वे सिद्धे तद्बलेन..
पूर्वपक्षिणा विष्णुपरत्वपक्षे अपूर्वतानिरास:
तात्पर्यचन्द्रिका
तत्र चात्रत्यादित्यस्थस्याग्नित्वे सिद्धे तद्बलेन समाख्याश्रुत्युक्तादित्यस्थस्य पूर्वपक्षिणा विष्णुत्वाक्षेपेऽपि ततः प्राग्विष्णौ समाख्या शङ्का युक्ता । तथा शास्त्रदृष्ट्येत्यत्रोक्तस्य ब्रह्मण्यहंशब्दो मुख्य इत्यस्याच्छादनादग्नेरादित्यस्थस्यौपचारिकत्वोक्तिर्युक्ता । अत्र हि मंचानां क्रोशनमौपचारिकमित्यत्र क्रोशनवत्सुपुरुषेषु मञ्चशब्द इवादित्यस्थत्ववति विष्णावग्निप्रयुक्तोऽहंशब्द उपचरित इति प्रतीयते । अन्यथा समाख्योक्तययोगात् । तथाऽत्यलौकिक ब्रह्मग्रहणेऽग्निग्रहणादप्यपूर्वतातिशयाद्वा । दिवाग्नेः प्रभाया अदर्शनेनादित्यप्रवेशस्यानुमानसिद्धत्वाद्वा । विष्णुग्रहणेऽपूर्वता शङ्का च युक्तेति द्रष्टव्यम् । यद्यप्यपहते पापकृत्यामित्यादि फलम् । तथापि स्तुतिरूपार्थवादताप्यस्तीति वा वस्तुतः फलवत्त्वं फलं फलोक्तिस्त्वर्थवाद इति वा । अपहते पापकृत्यां लोकीभवतीत्यादेः प्रत्येकं फलोक्तित्वेऽपि समुदायस्यानेकफलत्वेनोपसनास्तुतिरूपार्थवादत्वमिति वाऽभिप्रायः । न च ‘‘सर्वमायुरेति ज्योग्जीवती’’ त्यल्पफले न स्तुतिर्ब्रह्मपक्षे युक्ता । तस्मादक्षिस्थोऽग्निरेव । अमृतत्वाभयत्वादिकं तु स्वकार्य ऐश्वर्यमात्रेणाग्नेरिन्द्रत्ववत्स्वाधमदेवतादिभ्योमृतिभयादिराहित्येन वा । उक्तार्थवादसहितबहुश्रुतिबलादात्यंतिकामृतत्वादियोगेन वाऽग्नेरेवेति ।।
प्रकाशिका
ननु टीकायां न समाख्याविरोधाशङ्का युक्ता । पूर्वपक्षे ‘‘यश्चासावादित्य’’ इत्यस्याग्निपरत्वेन विष्णुपरत्वाक्षेपादित्यतस्तत्समाधत्ते ।। तत्र चेति ।। नन्वथाप्यौ पचारिकत्वशङ्का न युक्ता । शास्त्रदृष्ट्या तूपदेश इत्यत्राहंशब्दस्य विष्णौ मुख्यताया उक्तत्वादित्यत आह ।। तथेति ।। अत एव न्यायविवरणटीकायां ‘‘न च प्राणो वा अहमस्मीतिवदन्तर्याम्यपेक्षयेति वाच्यम् । सोऽहमस्मीत्युक्त्वा पुनस्स एवाहमस्मीति सावधारणमुक्तत्वात् । अवधारणेन च प्रकारान्तराणां सर्वेषां व्यावर्तितत्वा’’दिति ग्रन्थेनोपचारचोद्यादपीदं पृथगाशङ्क्य निरस्तमिति भावः । ननु व्यधिकरणमेतत् । टीकायामग्नेरादित्यस्थत्वमौपचारिकमिति शङ्कितम् । नत्वहंशब्द औपचारिक इति । तत्राहंशब्दस्य विष्णौ मुख्यत्वोक्तेः का सङ्गतिरित्यतस्तस्यैवमेवार्थ इत्याह ।। अत्र हीति ।। अत एव न्यायविवरणटीकायां ‘‘आत्मामे भद्रसेन इतिवत्सोऽहमस्मी’’त्युपचारः किं न स्यादित्येवोक्तम् ।। अन्यथेति ।। अग्नेरादित्यस्थत्वस्यौपचारिकत्व इत्यर्थः ।
ननु यदपि विष्णुग्रहणेऽपूर्वत्वं शङ्कितं तन्न । अग्निग्रहणेऽप्यपूर्वतालाभात् । न ह्यग्नेरक्षिस्थत्वमक्षादिसिद्धमित्यत आह ।। तथेति ।। टीकोक्तस्यार्थवादत्वमाक्षिप्याह ।। यद्यपीति ।। अपहते अपहन्ति । अर्थवादेन कथं ब्रह्मपक्षनिरास इत्यत आह ।। न चेति ।। स्वकार्य इति ।। ‘‘ऐन्द्य्रा गार्हपत्यमुपतिष्ठत’’ इति विनियोगवशादिन्द्रप्रकाशके ‘‘कदाचनस्तरीरसिनेन्द्रे’’ति मन्त्रेण गार्हपत्याग्नेर्हविश्श्रपणादिस्वकार्य ऐश्वर्यमात्रेणेन्द्रपदप्रतिपाद्यत्वं तद्वदित्यर्थः । उक्तं च वार्तिके–
स्यादग्रेर्गौणमिन्द्रत्वं यज्ञसम्बन्धकारितम् ।
इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वर ।।
इति । ‘‘अग्निज्ञानात्सर्वपापाश्लेषान्मोक्षोपपत्ति’’ रिति भाष्यसूचितं पक्षमाह ।। उक्तार्थवादेति ।। प्राचीनपक्षस्तु ‘‘आत्मादिशब्दोऽप्यमुख्यार्थोंऽगीकार्य’’ इति न्यायविवरणटीकोक्तः ।
चन्द्रिकाबिन्दुः
ननु टीकायां यश्चासावादित्य इति वाक्ये समाख्यात्वाभ्युपगमोऽनुपपन्नः । तदाक्षेपपूर्वकमेव प्रवृत्तेरित्यत आह ।। तत्र चेति ।। अहंशब्दस्यौपचारिकत्वशङ्कां टीकाकारीयामुपपादयति ।। तथेति ।।
ननु अहंशब्दस्योपचारेणादित्यस्थविष्णुपरत्वमित्यभिप्रायेण न टीका अग्नीनामादित्यस्थत्वमौपचारिकमित्येवाभिप्राया किं न स्यादित्यत आह ।। अत्र हीति ।। अन्यथा अहंशब्दस्योपचारेण विष्णुपरत्वमिति शङ्काभिप्रायाभावे । टीकायां अग्नेरादित्यस्थत्वापेक्षया विष्णुग्रहेऽपूर्वत्वमुक्तमुपपादयति ।। तथेति ।। टीकोदाहृतस्य अपहतपाप्मेत्यादिवाक्यस्यार्थवादत्वं त्रेधा उपपादयति ।। यद्यपीत्यादिना ।। अर्थवादस्याग्नावेव तात्पर्यज्ञापकत्वमुपपादयति ।। न च सर्वमिति ।। स्वकार्यमिति ।। ऐन्द्य्रा गार्हपत्यमुपतिष्ठत इति वाक्ये गार्हपत्ये प्राप्तस्य नेन्द्रसश्चेत्यादिमन्त्रस्थेन्द्रपदस्याग्निपरत्ववर्णनमेव कर्तव्यमिति भावः ।।
पाण्डुरङ्गि
ननु च विष्णुपक्षे ‘‘यश्चासावादित्य’’ इति समाख्या कथं स्यात् । निर्णीतस्थले समानोक्तिर्हि समाख्येत्युच्यते । न च प्रकृते साऽस्ति । य एष आदित्ये पुरुषो दृश्यत इत्यत्रादित्यस्थस्याग्नित्वे सिद्धे ‘‘यश्चासावादित्य’’ इति वाक्योक्तादित्यस्थस्य विष्णुत्वस्य पूर्वपक्षिणाऽनभ्युपगतत्वात् । तथा च कथं समाख्योक्तिरित्यत आह ।। तत्र चेति ।। ततः प्राक् य एष आदित्ये पुरुषो दृश्यत इत्यत्रादित्यस्थस्याग्नित्वे सिद्धे यश्चासावादित्य इति वाक्योक्तादित्यस्थस्याग्नित्वसिद्धेः प्रागित्यर्थः ।
ननु च न च वक्तव्यमग्नेरादित्यस्थत्वमौपचारिकं किं न स्यादिति टीकायामहंशब्दस्य ब्रह्मण्युपचरितत्वमाशङ्कितम् । तदनुपपन्नम् । शास्त्रदृष्ट्या तूपदेशो वामदेववदित्यत्राहंशब्दस्य ब्रह्मण्येव मुख्यत्वस्य प्रतिपादितत्वादित्यत आह ।। तथेति ।। नन्वत्र शास्त्रदृष्ट्येति न्यायाच्छादनं किमर्थम् । न चान्यथा तन्न्यायेनाहंशब्दस्यात्मनि मुख्यत्वादौपचारिकत्वशङ्कानुपपत्त्या तन्न्यायाच्छादनमिति वाच्यम् । तत्राहंशब्दस्याग्नौ मुख्यत्वाङ्गीकारेणादित्यस्थत्वस्यैवौपचारिकत्वशङ्कनादित्यत आह ।। अत्र हीति ।। अथ ततः प्रतीत एवार्थोऽस्तु बाधकाभावादित्यत आह ।। अन्यथेति ।। न च वक्तव्यमग्नेरादित्यस्थत्ववति विष्णावग्निप्रयुक्तोऽहंशब्द उपचरितः किं न स्यादित्यर्थमनङ्गीकृत्याहंशब्दस्याग्नौ मुख्यत्वमेवाङ्गीकृत्यादित्यस्थत्वकथनस्यौपचारिकत्वमिति शङ्काग्रन्थाभिप्रायकल्पने इत्यर्थः । आदित्यस्थत्ववति विष्णावग्निप्रयुक्तोऽहंशब्द उपचरित इति पक्षे विष्णोरादित्यस्थत्वप्रतिपादक यश्चासावादित्य इति युज्यते अन्यथा तु नेति तदन्यथानुपपत्त्योक्ताभिप्राये कल्पनीये शास्त्रदृष्ट्येति न्यायाच्छादनमावश्यकमेवेत्यर्थः ।
ननु टीकायां न च विष्णुग्रहणेऽपूर्वतयाऽभ्यासस्य बाध इति शङ्कितम् । तदयुक्तम् । विष्णुपक्ष इवाग्निपक्षेऽप्यपूर्वतायास्सत्त्वेन तस्या विष्णोरेवादित्यस्थत्वसाधकत्वादित्यतस्तदुपपादयति ।। दिवेति ।। तथा च स्वबोधनीयपुरुषगताज्ञानविरोधिना स्वानुपजीविना मानान्तरेणाग्राह्यार्थत्वमपूर्वत्वम् । प्रकृते तु य एष आदित्ये पुरुषो दृश्यते इत्येतद्वाक्यबोधनीयास्मदाद्यज्ञानविरोधिना एष आदित्य इत्येतद्वाक्यानुपजीविना दिवा प्रभाया अदर्शनरूपमानान्तरेण ग्राह्यो योऽग्नेरादित्यस्थत्वलक्षणार्थस्तदर्थत्वस्यैवापत्त्याऽग्निपक्षेनापूर्वतेति भावः । ननु स य एतदेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेतीत्यर्थवादादित्युक्तं टीकायाम् । तदनुपपन्नम् । अपहते पापकृत्यामित्यादेः फलत्वेनार्थवादत्वाभावादित्यतष्टीकोक्तमर्थवादत्वमुपपादयितुं शङ्कते ।। यद्यपीति ।। नन्वेवं फलार्थवादयोरभेद इत्यत आह ।। वस्तुत इति ।। नन्वत्रापि शब्दार्थात्मकत्वेन भेदे फल एव पर्यवसानं स्यादित्यतः पक्षान्तरमाह ।। अपहत इति ।। न चापूर्वतया य एष इति वाक्यस्य विष्णुपरत्वे शङ्किते अपहते पापकृत्यामित्याद्यर्थवादस्याग्निपरत्व इव विष्णुपक्षेऽपि सम्भवेन विष्णोरादित्यस्थत्वाबाधकत्वादित्यतोऽर्थवादस्य विष्णुपक्षेऽनुपपत्तिं दर्शयति ।। न च सर्वमायुरेतीति ।। सर्वमेवायुर्यन्तीत्यादिवदस्यापि मोक्षपरत्वे मोक्षप्रदत्वस्याप्यग्नेरेवोक्तत्वात्तदाक्षेप इति द्रष्टव्यम् । नन्वग्नेरेवादित्यस्थत्वेऽमृतत्वाभयत्वादेरनुपपत्तिरित्यतस्सिद्धान्तीयलिङ्गानि सावकाशयति ।। अमृतत्वेति ।।