यच्चोक्तं अत्तेत्यत्र ..
टीकाक्षरार्थनिरूपणपूर्वं अधिकरणोपसंहार:
तात्पर्यचन्द्रिका
यच्चोक्तं अत्तेत्यत्र साधारणाकारं विहायासाधारणाकारेण गौणार्थो वर्णनीय इति न्यायो व्युत्पादित इति । तन्न । प्रोद्गातॄणामित्यत्र षोडशर्त्विक्साधारणाकारं विहायासाधारणाकारेण भाष्यकारमत उद्गातृप्रस्तोतृप्रतिहर्तृसुब्रह्मण्यानां चतुर्णामेव वार्तिककारमतेऽपसुब्रह्मण्यानां त्रयाणामेव लक्षणायास्तृतीय उक्तत्वात् । ‘‘मासमग्निहोत्रं जुहोती’’त्यत्राग्निहोत्रशब्दस्य होमत्वादिसाधारणाकारं हित्वा सूर्यदेवताकत्वादिनित्याग्निहोत्रासाधारणाकारेणैव मासाग्निहोत्रे गौणतायाश्च सप्तम उक्तत्वेन पुनरिह तस्यावक्तव्यत्वादिति ।। टीकाक्षरार्थस्तु ।। तद्यदा विष्णोरन्यस्यैव स्यादित्यादि । पूर्वत्र सम्भवत्सर्वात्तृत्वं लक्षणत्वेनोक्तम् । ब्रह्मणि चाशुभभोक्तृत्वस्या सम्भवेऽपि ऋतपातृत्वरूपं शुभभोक्तृत्वं सिद्धान्तरीत्या सम्भवति । तत्र च पिबतोर्जीवेश्वरत्वमुपेत्य जीवे पातृत्वं मुख्यमीश्वरे त्वमुख्यमिति स्वीकारेऽसम्भवः । उभयोरपि मुख्यमिति स्वीकारे तु जीवस्यापि शुभभोक्तृत्वेनेश्वरवत्सर्वात्तृत्वस्यापि प्रसङ्गादतिव्याप्तिरित्यर्थः । तथा च द्वयोरपि पातृत्वं मुख्यमिति पूर्वपक्षोऽप्यत्राभिप्रेत इति द्रष्टव्यम् । यद्वा गुहाप्रविष्टत्वादिब्रह्मलिङ्गसहितस्यापि ऋतपातृत्वस्यासम्भवोऽतिव्याप्तिर्वा यदा तदा तत्सहचरितस्य पूर्वोक्तात्तृत्वस्याप्यसम्भवोऽतिव्याप्तिर्वा स्यादित्यर्थः । तथा च लक्षणमयुक्तमिति । यद्यपि सर्वसंहर्तृत्वरूपं लक्षणं ब्रह्मण्येवेति पूर्वपक्षिणापि स्वीकृतम् । अत एव टीका ‘‘कर्मभोगं विनापि संहर्तृत्वमात्रेण तदुपपत्ते’’रिति । तथापि सिद्धांत्यभिप्रेतं संहर्तृत्वविशेषात्मकं भक्षयितृत्वरूपं लक्षणमयुक्तमिति भावः ।। यस्सेतुरिति पिबतोरेकवचनेन विशेषणादित्यादि ।। विशेषणाच्चेति सूत्रं यः सेतुरित्यादिभाष्येणैकवचनेन विशेषणात् ब्रह्मशब्देन विशेषणाच्चेति द्विधा व्याख्यातमिति भावः । उपलक्षणं चैतत् । सेतुत्वाक्षरत्वादिना विशेषणात् । ब्रह्मणश्च परत्वेन विशेषणादित्यपि व्याख्येयमिति ।।
प्रकाशिका
।। यच्चेति ।। अत्तेतिसूत्रे ब्रह्मक्षत्रोपलक्षितचराचरस्य मृत्यूपसेचनत्वविशेषणेनादनीयत्वलाभात्तत्सूचितस्य कृत्स्नात्तृत्वस्य संहर्तृत्वरूपत्वादत्ता विष्णुरित्युक्ते मृत्यूपसेचनत्वस्य मृत्युवशत्वाभावाभिप्रायेणोपपत्तेर्न तद्विशेषणेन ब्रह्मक्षत्रादेरदनीयत्वसिद्धिरित्याशङ्क्य उपसेचनशब्दस्य गौणत्वेऽपि तद्वश्यत्वाभावरूपसाधारणाकारोपचारं विना स्वयमद्यमानत्वे सत्यन्यस्यादनहेतुत्वरूपविशेषाकारेणोपचार इत्यदनीयत्वसिद्धिरित्युक्त्वा साधारणाकारं विहायेत्यादिना सूत्रस्य तात्पर्यार्थ उक्तः । सोऽप्ययुक्तः । पौनरुक्तयादित्यर्थः । तार्तीयं प्रोद्गात्रधिकरणं जन्माधिकरणे साप्तमिकं मासाग्निहोत्राधिकरणं च पादांत्यप्राणनये प्रपञ्चितम् । भाष्यकृन्मते प्रोद्गातृशब्दस्य षोडशर्त्विक्साधारणाकारं प्रकरणगतत्वं विहाय छन्दोगत्वरूपेणासाधारणाकारेणोद्गात्रादीनां चतुर्णां लक्षणयोक्तत्वात् । वार्तिकमते तु स्तोत्रकारित्वसदस्सन्निहितत्वादिना ततोऽप्यसाधारणाकारेणापसुब्रह्मण्यानां त्रयाणामेव लक्षणयोक्तत्वात् । तथैव मासाग्निहोत्रेऽग्निहोत्रशब्दस्यासाधारणाकारेण गौणताया उक्तत्वादित्यर्थः । एतेन रामानुजरीतिं प्रायोऽनुसरतः कस्यचिन्मतमपि निरस्तं ध्येयम् । ‘‘आत्मान्तरात्मेति हरिरेक एव द्विधा स्थित’’ इत्यादिवचनविरोधेन शिव इति सिद्धान्तस्यायुक्तत्वाच्चेति । अत्र टीकायां ‘‘तदृतपानकर्तृत्वं यदि विष्णोरन्यस्यैव स्यात्तदा न तस्य सर्वात्तृत्वम् । यदि चान्यस्यापि भवेत्तदा लक्षणस्यातिव्याप्ति’’रित्युक्तम् । तत्रानुपपत्तयः । पूर्वं सर्वात्तृत्वस्य लक्षणत्वेनाभिमतत्वादेकदेशस्यान्यगतत्वेऽपि नासम्भवः । न चैकदेशाभावादेव सर्वात्तृत्वमपि नेत्युच्यत इति वाच्यम् । सिद्धान्तेऽप्यशुभभोक्तृत्वाभावेन तद्दोषतादवस्थ्यापातादित्येका । पूर्वपक्षे ऋतपातृत्वस्य जीवेश्वरोभयगतत्वोपगमेनान्यस्यैवेत्ययुक्तमित्यन्या । यदि चेत्यत्रापि भगवति पातृत्वस्यैव पूर्वपक्षेऽनङ्गीकृतत्वेनान्यस्यापीत्यपिपदास्वारस्यमित्येका । एकदेशस्यान्यमात्रगतत्वेऽपि कृत्स्नात्तृत्वस्यातिव्याप्त्यप्रसरादित्यपरा । ता एता निरसितुमाह ।। सम्भवति ।। असम्भव इत्यन्तेनाद्ययोर्निरासः । मुख्यमित्युक्तया द्वितीयायाः । शेषेणाद्याया इति विवेकः । उभयोरपि मुख्यमित्यनेन तृतीयायाः । सर्वात्तृत्वस्यापि प्रसङ्गादित्यनेनान्त्यानिरस्तेति ध्येयम् । नन्वत्र छत्रिन्यायस्य टीकायामुक्तेः कथमुभयोर्मुख्यत्वोक्तिरित्यत आह ।। तथा चेति ।। छत्रिन्यायोऽसम्भवपक्ष एवेति भावः । पूर्वं सर्वात्तृत्वं सङ्कुचितमुपेत्यासम्भवातिव्याप्ती उपपादिते । अधुनाऽसङ्कुचितमेव तदादाय तदुपपादयति ।। यद्वेति ।। पिबतोर्जीवेश्वरत्वमुपेत्य ब्रह्मलिङ्गसहचरितमपि पातृत्वं जीवे मुख्यमीश्वरे त्वमुख्यमिति स्वीकारे चराचरवाचकसर्वत्वरूपब्रह्मलिङ्गसहचरितमपि प्रागुक्तं सर्वात्तृत्वं जीव एव मुख्यमीश्वरे त्वमुख्यमित्यापत्त्याऽसम्भव इत्यर्थः । यद्युभयोरपीदं मुख्यं तदा प्राक्तनमपि सर्वात्तृत्वं द्वयोस्स्यात् । ब्रह्मलिङ्गबाधस्योभयत्र तुल्यत्वात् । तथा चातिव्याप्तिरित्यर्थः । ननु टीकायां ‘‘तथा च लक्षणमयुक्त’’मिति पूर्वपक्षोपसंहारोऽयुक्तः । ‘‘कर्मफलभोगं विनापी’’त्यादि पूर्ववाक्ये प्रागुक्तसंहर्तृत्वाङ्गीकारप्रतीतेरित्याशङ्कापूर्वं तद्व्याचष्टे ।। लक्षणमयुक्तमितीति ।। ‘‘यस्सेतुरिति पिबतोरेकवचनेन विशेषणादेक एव पाता । स च ब्रह्मत्वविशेषणाच्च विष्णुरेवे’’ति वाक्यस्योद्भाष्यत्वभ्रमं निराह ।। यस्सेतुरित्यादिना ।। ‘‘सेतुत्वादक्षरत्वत’’ इति स्वोक्तं टीकाविरुद्धमिति भ्रमं वारयति ।। उपलक्षणमिति ।। व्याख्येयमिति ।। ‘‘यस्सेतुरीजानानामक्षरं ब्रह्म यत्पर’’मिति भाष्यं सूत्रस्य सेतुत्वादिविशेषणादित्यर्थवर्णनपरतया व्याख्येयमित्यर्थः । शिष्टं स्पष्टमिति भावः ।। गुहाधिकरणम् ।। ३ ।।
चन्द्रिकाबिन्दुः
साधारणेति ।। रामानुजमतेऽपि बुद्धिजीवाविति पूर्वः पक्षः । जीवेश्वराविति सिद्धान्तः । पिबत्प्रातिपदिकं तन्मतेऽपि च्छत्रिन्यायेनैव नेयम् । ईश्वरे कर्मफलभोक्तृत्वानङ्गीकारात् । साधारणाकारेण तदायत्तत्वादिना लक्षणामाश्रित्य बुद्धिजीवाविति पूर्वपक्षो न युक्तः । किं तु असाधारणचेतनाद्याकारमाश्रित्य लक्षणाश्रयणेन जीवे चेति न्यायो व्युत्पाद्यत इत्यर्थः । पूर्वमीमांसायामेवैतद्व्युत्पादनं सिद्धमित्याह ।। प्रोद्गातॄणामिति ।। आसाधारणाकारेण उद्गातृगणस्थत्वाकारेण वार्तिककारमते सदो मध्यस्थोद्गातृगणस्थत्वासाधारणाकारेण पूर्वोक्तधर्मापेक्षया एतस्यान्तरङ्गत्वात् सुब्रह्मण्यायाः सदो मध्यस्थत्वाभावादिति ।। गौण्यामुदाहरणं दर्शयति ।। मासमग्निहोत्रमिति ।। सम्भवदिति ।। न सर्वातृत्वमात्रं अशुभफलभोक्तृत्वाभावात् । तस्यैवेति टीकावाक्यमुपपाद्य तस्यापीति वाक्यमुपपादयति ।। उभयोरपि मुख्यमिति ।। ननूभयोरपि मुख्यत्वाभिप्रायेणातिव्याप्तिरिति पूर्वः पक्षः टीकायां नोक्त इत्यत आह ।। तथा चेति ।। तत्सहचरितस्येति ।। ब्रह्मलिङ्गसहचरितस्येत्यर्थः । अविशेषादिति भावः ।
पाण्डुरङ्गि
तद्यदीत्यादिटीकाऽनुपपन्ना । कर्मफलभोक्तृत्वस्यान्यनिष्ठत्वेऽपि जन्मादिसूत्रोक्तसर्वसंहर्तृत्वादिरूपसर्वात्तृत्वस्य ब्रह्ममात्रनिष्ठत्वोपपत्त्याऽसम्भवाभावात् । न च भक्षयितृत्वरूपमपि सर्वात्तृत्वं ब्रह्मलक्षणत्वेनाभिमतमित्यन्यस्य तदङ्गीकारे तदसम्भव इति वाच्यम् । सर्वात्तृत्वमित्यत्र सर्वशब्दस्य सङ्कुचितवृत्तित्वाभ्युपगमे कर्मफलभोक्तृत्वांशेऽपि सङ्कोचापत्त्या असङ्कुचितत्वे चाशुभफलभोक्तृत्वस्यापत्त्या तस्य लक्षणत्वासम्भवात् । न च सम्भवत्सर्वात्तृत्वमेव लक्षणत्वेनाभिमतमिति वाच्यम् । कर्मफलभोक्तृत्वस्यापि कर्मबन्धरहिते ब्रह्मण्यसम्भवात् । तथा च कथमसम्भवः । एवं यदि चान्यस्यापीत्यादिटीकाप्यनुपपन्नैव । कर्मफलभोक्तृत्वरूपस्य ऋतपानकर्तृत्वस्यान्यनिष्ठत्वेऽपि लक्षणत्वेनाभिमतस्य सर्वात्तृत्वस्य ब्रह्ममात्रनिष्ठत्वेनान्यत्राभावेन लक्षणस्यातिव्याप्त्यसम्भवादित्यतो व्याचष्टे ।। पूर्वत्रेत्यादिना ।। अस्मिन्पक्षे द्वयोरपि पातृत्वं मुख्यमिति कुत्राप्यनुक्तस्य पूर्वपक्षस्य कल्पनं समायातीत्यतः पक्षान्तरमाह ।। यद्वेति ।। टीकाकारैः स्पष्टतया ब्रह्मशब्देन विशेषणादित्यनुक्त्वाऽस्पष्टत्वादेकवचनेन विशेषणादिति व्याख्यातम् । तेन च तावन्मात्रमेवार्थ इति भातीत्यतो व्याचष्टे ।। विशेषणाच्चेतीति ।। पिबतोर्ब्रह्मत्वसाधकत्वेन स्वोक्तस्य सेतुत्वाक्षरत्वादेरुत्सूत्रितत्वभ्रांतिवारणाय तदप्युपलक्षणत्वेन सूत्रार्थतया योजनीयमित्याह ।। उपलक्षणं चैतदिति ।।
।। इति गुहाधिकरणम् ।। ३ ।।