पूर्वत्र पृथगधिकरणीयाद्य सूत्रोक्तो..

पुंस्त्वाधिकरणम्

तात्पर्यचन्द्रिका

अद्वैताभिमतव्याख्यानपरीक्षा

ॐ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॐ ।।

पूर्वत्र पृथगधिकरणीयाद्य सूत्रोक्तो ‘‘बन्धान्मोक्षं तत एवाभिवांछे’’दित्युपदेश उपपादितः । इह तु तदीयसूत्रोक्तं तद्गुणसारत्वमुपपाद्यत इति सङ्गतिः । अत्र जीवस्यानन्दादिरूपत्वश्रुतिः किमनुपलब्धियुक्तयनुगृहीतयाऽनानन्दादिरूपत्वश्रुत्या बाधितोत नेति चिन्ता । (अत्र श्रुतिसमन्वयेनोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकं किमयुक्तं न वेति चिन्ता । तदर्थं श्रुतिरप्रमाणं नवेति । तदर्थं जीवस्यानन्दादिरूपत्वश्रुतिः किमनुपलब्धियुक्तयनुगृहीतयाऽनानन्दादि रूपत्वश्रुत्या बाधिता उतनेति ।) तदर्थं सतोऽप्यानन्दादेरज्ञानावरणादनुपलब्धिरयुक्तोत युक्तेति । तदर्थमावरणमज्ञानं किं ज्ञानाभाव एव किं वा ज्ञानाभावादिनिमित्तं भावान्तरमिति । भाष्योदाहृतायां ‘‘विज्ञानात्मे’’ति षट्प्रश्नोपनिषदि ‘‘स आनन्द’’ इति श्रुत्यन्तरे च जीवलिङ्गाभावात्पूर्वपक्षानुदय इति न शङ्क्यम् । आद्यश्रुतौ ‘‘प्राणा भूतानि सम्प्रतिष्ठन्ति यत्रे’’ति वाक्यशेषे द्वितीयश्रुतौ च ‘‘स परेणामुं लोकं नीयते स विमुच्यत’’ इति वाक्यशेषे जीवलिङ्गश्रवणादित्याह ।। प्राणा भूतानीत्यादिना ।। तस्यैवानुपपत्तेरिति ।। ज्ञानाभाव एवाज्ञानमिति मते ।। वैपरीत्यादिति । शरीरस्यानन्दाद्यनुभवरूपभोगायतनत्वेन भोगप्रतिबन्धकत्वायोगादित्यर्थः । भाष्ये असुराणामावरणाभावेनानन्दाद्यनुपलब्ध्यापादनमयुक्तम् । स्वरूपानन्दादेरभावादेवानुपलब्ध्युपपत्तेः । अनावरणस्यानुपलब्धिं प्रत्यप्रयोजकत्वाच्चेत्याशङ्क्य आनन्दाद्यनुपलब्धिर्नापाद्यते । किन्तु तत्प्रयोजिका सुखाद्युपलब्धिविरुद्धा स्वरूपदुःखाद्युपलब्धिरापाद्यत इत्याह ।। दुःखाद्यनुभव एव भवेदिति ।। भाष्ये मध्यममनुष्याणामानन्दोपलब्धितदभावावापादितौ । तत्रोपलब्ध्यभावापादनमयुक्तम् । आवरणाभावस्यानुपलब्धिं प्रत्यप्रयोजकत्वादित्याशङ्क्य सुखोपलब्धेरेवाभावो नापाद्यते । किन्तु केवलायाः दुःखाद्यनुपलब्धिविशिष्टायाः सुखोपलब्धेरभावः । ततश्च सुखाद्यनुपलब्ध्यापादनेन दुःखाद्युपलब्धिरेवापादिता भवति । अतो न दोष इत्याह ।। केवलतदुपलब्ध्याभाव इत्यादिना ।।

समैवेति ।। मध्यममनुष्याणां मिश्रत्वात्सुखस्य दुःखस्य चोपलब्धिः समैव स्यादित्यर्थः । एवं च सूत्रे सुराणां नित्यं सुखस्यैव असुराणां नित्यं दुःखस्यैव मनुष्याणां तद्वयोरुपलब्धिरापाद्यते । सूत्रेऽनुपलब्धिशब्देन ‘‘असुरा’’ इत्यादाविव प्रकृतसुखोपलब्धिविरुद्धदुःखोपलब्धेरेव विवक्षितत्वात् । अन्यतरशब्देन द्वयोरपि विवक्षितत्वादिति द्रष्टव्यम् ।। एवं सुरा इति हृदयमिति ।। श्रुतौ परमात्मशब्देनोत्तमजीवराशिर्वा ‘‘परमात्मे’’त्यस्यानन्तरं ‘‘एवं सुरा’’ इत्यध्याहारो वा विवक्षणीयः । नैवमसुरा इत्युत्तरवाक्येऽसुरजीवानां प्रतियोगित्वेनोक्तेः । भाष्योक्तस्मृतिसमाख्यानाच्चेति भावः ।

प्रकाशिका

‘‘अस्येति तद्गुणसारत्वं प्रकृतं परामृश्यत’’ इति टीकोक्तिसूचितामाह ।। पूर्वत्रेति ।। ‘‘पृथगुपदेशा’’दित्यधिकरणीयेत्यर्थः । पूर्वपक्षादिटीकासूचितचिन्ता आह ।। अत्र जीवस्येति ।। दुर्गमानि टीकावाक्यानि व्यनक्ति ।। भाष्येति ।। टीकोक्तार्थस्य भाष्यानुगुण्यं प्रदर्श्य सूत्राक्षरानुगुण्यं च प्रदर्शयति ।। एवं च सूत्र इति ।।

चन्द्रिकाविवृतिः

।। ॐ पुंस्त्वादिवत् ॐ ।। पूर्वाधिकरणं इदंचाधिकरणद्वयमपि पृथगधिकरणानन्तरसङ्गतमेकभावापन्नं पूर्वं पृथगधिकरणीयपूर्वसूत्राक्षेपसमाधानपरम् । इदं तु द्वितीयसूत्राक्षेपसमाधानपरमित्यनन्त-रसङ्गतिमभिप्रेत्याह ।। पूर्वत्रेति ।। तथा च पृथगधिकरणीयाद्यसूत्राक्षेपसमाधानानन्तरमेतद-धिकरणीयद्वितीयसूत्राक्षेपसमाधानमनेनाधिकरणेन क्रियत इति पूर्वाधिकरणानन्तरसङ्गतिरपि सूक्ता ।। ज्ञानाभावादिनिमित्तं ज्ञानाभावादेर्निमित्तम् ।। भावरूपाज्ञानपरत्वेऽनुपपत्तिमाशङ्क्याह ।। ज्ञानभाव एवेति ।। केवलोपब्ध्यभाव इत्यस्यैवार्थान्तरमाह ।। एवं च सूत्र इत्यादिना ।। भाष्योक्तस्मृतीति ।। नित्यानन्दज्ञानबला इत्यादिका ।।

Load More