अन्ये तु

परमतपरीक्षा

तात्पर्यचन्द्रिका

अन्ये तु ।। अस्ति हि ‘‘आत्मन आकाशः सम्भूत’’ इति तैत्तिरीय आकाशस्य प्रथमं जन्म । ‘‘तत्तेजोऽसृजते’’ति छान्दोग्ये तु तेजसः । तथा च तयोरन्योन्यं विरोध इति द्वितीयसूत्रेण पूर्वपक्षयित्वा वियत उत्पत्तिर्न श्रूयते । सम्भूतश्रुतिस्त्वधुनाऽवकाशो जात इतिवद्गौणी । विभोराकाशस्योत्पत्त्यसम्भवात् । ‘‘आकाशवत्सर्वगतश्च नित्य’’ इत्यादिशब्दाच्च । स्याच्चैकस्यैव सम्भूतशब्दस्याकाशे गौणत्वम् । वाय्वादौ तु मुख्यत्वम् । यथाऽऽनन्दमयप्रकरणे ब्रह्मशब्दस्यान्नादौ गौणत्वमानन्दे तु मुख्यत्वम् । तस्मान्न श्रुत्योर्विरोध इत्याद्यतृतीयचतुर्थपञ्चमैः सिद्धान्त्येकदेशिमतमुक्त्वा आकाशस्य ब्रह्मकार्यत्वाभावे तद्य्वतिरेकापत्त्यैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाहानिः । प्रतिज्ञा हि ‘‘यथा सौम्यैकेन मृत्पिण्डेने’’त्यादि शब्दैरव्यतिरेकाभिप्राया ।

किञ्चाकाशः विकारः कार्यं विभक्तत्वाद्भिन्नत्वाद्घटवदिति षष्ठसप्तमाभ्यां सिद्धान्तितमित्याहुः । तत्र विरोधेन पूर्वपक्ष इति तावदयुक्तम् । छान्दोग्ये ह्याकाशस्योत्पत्त्यनुक्तिमात्रम् । न त्वनादित्वोक्तिः । न चानुक्तिस्तैत्तिरीयस्थोत्पत्त्युक्तया विरुद्धा । ननु तैत्तिरीय आकाशस्य पूर्वं जन्मोक्तं छान्दोग्ये तु तेजस इति विरोध इति चेन्न । त्वन्मते जगतो मिथ्यात्वेनात्यन्ताभावप्रतियोगिनो जन्मासम्भवात् । आरोपितस्य जन्मादेः श्रुत्यबोध्यत्वात् । छान्दोग्ये क्रमानुक्तावपि तैत्तिरीयोक्तस्य ‘‘स इदं सर्वमसृजते’’त्यादाविव ग्राह्यत्वेनाविरोधित्वाच्च । श्रुत्यन्तरोक्तोपसंहारश्च सर्ववेदान्ताधिकरणसिद्धः । यद्यपि ‘‘तत्तेजोऽसृजत वायोरग्नि’’रिति श्रुत्योर्विरोधधीः तथापि ‘‘तेजोऽतस्तथा ह्याहे’’त्यत्रैव स निरसिष्यते । किञ्चायं विरोधस्त्वन्मत आद्यस्य चतुर्थपादे ‘‘कारणत्वेने’’त्यत्र शङ्कित इति तत्रैव निरस्यः । न त्वत्र । प्रपञ्चितं चैतदस्माभिस्तत्रैव । किञ्च मम रीत्या ‘‘अनादिर्वा अयमाकाशः आकाशवत्सर्वगतश्च नित्यः स यथाऽनन्तोऽयमाकाशः आकाशः सम्भूत’’ इत्यनादित्वसादित्वश्रुत्योः स्पष्टविरोधेन पूर्वपक्षसम्भवेनास्पष्टश्रुतिविरोधेन स युक्तः । किञ्चाद्येन सिद्धान्त्येकदेशिमतं प्रक्रम्य द्वितीयेन विरोधपूर्वपक्षमुक्त्वा पुनस्तृतीयादिभिरेकदेशिमतस्य विक्षिप्योक्तौ न हेतुरस्ति । किञ्च चेदित्यादिपूर्वपक्षचिह्नस्य नेत्यादिसिद्धान्तचिह्नस्य एक इत्याद्येकदेशिमतचिह्नस्याभावेऽपि तथा मम रीत्याऽऽद्ये पूर्वाधिकरणादनुवृत्तमुत्पत्त्यसम्भवं न वियदनुत्पत्तिमदिति वियति नञा निषिध्य ‘‘अश्रुते’’रित्यनेन तत्रानुत्पत्तिश्रुत्यभावहेतुमुक्त्वा तृतीयआद्योक्तहेतुसिद्ध्यर्थमनुत्पत्तिश्रुतेर्गौणत्वोक्तिरित्येवं सर्वेषां सिद्धान्तसूत्रत्वसम्भवेन सूत्राणि छित्त्वा पूर्वपक्षत्वादिवर्णनं युक्तम् । सिद्धान्तेऽपि षष्ठोक्तो हेतुरयुक्तः । त्वदुक्तस्यैकविज्ञानेन सर्वविज्ञानस्य प्रकृत्यधिकरणादौ निरस्तत्वात् । भावरूपाज्ञानादीनामिवाकाशस्याप्यनादित्वेऽप्येकविज्ञानेन सर्वविज्ञानोपपत्तेश्च । कार्यत्वमारोपितत्वं चेच्छतिसूत्रविरोधः । न हि ‘‘आत्मन आकाशः सम्भूत’’ इत्यादिविषयवाक्येषु तदनुसारिसूत्रेषु चाकाशादेरारोप उच्यते । तथात्व आकाशादेरप्युत्पत्तौ मानाभावेनाविद्यादिवदनाद्यारोपितत्वमेव स्यात् । नात्मा श्रुतेरित्यत्र जीवस्योत्पत्तिनिषेधोऽप्ययुक्तः स्यात् । विशिष्टरूपस्य जीवस्याप्यारोपितत्वात् । असम्भवस्तु सतोऽनुपपत्तेरित्यत्र च ब्रह्मण आरोपमात्रस्य निषेधः स्यात् । न तूत्पत्तेः ।

अपि च मम रीत्या ‘‘स इदं सर्वमसृजते’’ति प्रतिज्ञया साक्षात्सर्वजन्मसिद्धावेकविज्ञानेन सर्वविज्ञानप्रतिज्ञयाऽर्थात्तदुक्तिरयुक्ता । सप्तमे विभागशब्दोक्तोभिन्नत्वरूपो हेतुरप्ययुक्तः । आरोपितस्य धर्मिसत्तासमानसत्ताकस्य तस्याधिष्ठानेऽनृतव्यावृत्तेश्च ब्रह्मण्यपि सत्त्वात् । दृष्टो हि शुक्तौ स्वारोपिताद्रूप्याद्धर्मिसत्तासमानसत्ताको भेदः । सत्यस्य च तस्याकाशेऽप्यभावात् ।

केचित्तु । आकाशस्याजन्यत्वमित्याद्येन पूर्वपक्षे जन्यत्वमिति द्वितीयेन सिद्धान्तः । पुनस्त्रिभिरुत्पत्तिश्रुतिर्गौणीति पूर्वपक्षे एकविज्ञानेन सर्वविज्ञानादियुक्तिभिर्न गौणीति । द्वाभ्यां सिद्धान्त इत्याहुः । तन्न । जीवप्रकृत्यादीनामिवाकाशस्यानादित्वेऽप्येकविज्ञानेन सर्वविज्ञानोपपत्तेरित्याद्युक्तदोषसाम्यात् । मन्मते तु अयमिह शक्तोऽत्र तु नेति विभागरूपः सौत्रो हेतुः ‘‘विभागो ह्यल्पशक्तिः स्या’’दिति स्मृत्याऽल्पशक्तित्वरूपः । स च पराधीनविशेषावाप्तिरूपविकारव्याप्य एवेति न कश्चिद्दोषः ।। छ ।। वियदधिकरणम् ।। १ ।।

प्रकाशिका

अन्ये त्विति ।। ‘‘अस्ति त्वि’’ति सूत्रार्थमनुवदति ।। अस्ति हीति ।। पूर्वपक्षयित्वेति ।। पूर्वपक्षसूत्रमित्युक्त्वा भामत्यां तत्सूत्रभाष्यस्य तथैव व्याख्यानादिति भावः । न वियदश्रुतेरित्येतदर्थमन्वाह ।। वियत इति ।। गौण्यसम्भवादिति तृतीयसूत्रार्थमाह ।। सम्भूतेति ।। शब्दाच्चेति चतुर्थार्थमाह ।। आकाशवदिति ।। स्याच्चैकस्य ब्रह्मशब्दवदिति पञ्चमार्थमाह ।। स्याच्चेति ।। अन्नादाविति ।। ‘‘अन्नं ब्रह्मेति व्यजानात् प्राणो ब्रह्मेति व्यजाना’’दित्यन्नप्राणमनोविज्ञानेष्वित्यर्थः । तेषां ‘‘आनन्दो ब्रह्मे’’त्युक्तानन्दरूपे ब्रह्मणि द्वारत्वेनाब्रह्मत्वादिति भावः ।। सिद्धान्तीति ।। ‘‘एवं सिद्धांत्येकदेशिमते प्राप्त इदमाहे’’ति ‘‘प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्य’’इत्येतद्भामत्यामवतार्य तत्सूत्रभाष्यस्य व्याख्यानादिति भावः । तत्सूत्रार्थमाह ।। आकाशस्येति ।।

यावद्विकारं तु विभागो लोकवदित्येतदर्थमन्वाह ।। किञ्चेति ।। अत्यन्ताभावेति ।। तात्विकत्वेनात्यन्ताभावप्रतियोगित्वस्य मिथ्यार्थत्वे तस्य निर्धर्मकब्रह्मण्यतिव्याप्त्या स्वरूपेण तथात्वे वाच्येऽत्यन्तासत्त्वापत्तेरिति भावः । श्रुत्यन्तरोक्तोपसंहारः श्रुत्यन्तरे सङ्ग्रहश्च ‘‘सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषा’’दिति तार्तीयाधिकरणसिद्ध इत्यर्थः । पूर्वपक्षसम्भव इति पदच्छेदः । नास्पृष्टेत्यत्र नञो युक्त इत्यनेनान्वयः । उदाहरणानौचित्यासाङ्गत्यपूर्वपक्षानुत्थानान्युक्त्वा सूत्रयोजनां प्रत्याह ।। किञ्चाद्येनेति ।। अभावेऽपीत्यस्य न सूत्राणीत्यादिनाऽन्वयः । छित्वा विक्षिप्येत्यर्थः । ऐककण्ठ््यमनुपेत्येति वा ।। प्रकृतीति ।। आदिपदेनारम्भणाधिकरणम् ।। भावरूपेति ।। तेषां यथा ब्रह्मण्यारोपितत्वेनैकज्ञानेन सर्वज्ञाननिर्वाहस्तथेत्यर्थः । तथा चात्र नये कार्यत्वोक्तिर्व्यर्थेति भावः । तदेव तदित्युक्तावनेकं दोषमाह ।। कार्यत्वमिति ।। तथात्वे कार्यत्वस्यारोपितत्वरूपत्वे ।। मानाभावेनेति ।। सम्भूतशब्दस्यासृजतेत्यादिशब्दस्य चारोपार्थत्वावश्यम्भावादिति भावः । प्रतिज्ञेति सूत्राक्षरार्थं चानूद्य निराह ।। अपि च ममेति ।। आरोपितस्येति व्यधिकरणषष्ठी । आरोपितप्रतियोगिकस्येत्यर्थः । यद्वा भिन्नत्वादिति किमारोपितभेदो हेतुरथ धर्मिसत्तासमानसत्ताकोऽथ पारमार्थिक इति विकल्प्याद्यद्वये दोषोक्तिः आरोपितस्येत्यादिना । तत्र धर्मिसत्तासमसत्त्वं भेदस्य व्यनक्ति ।। दृष्टो हीति ।। अंत्य आह ।। सत्यस्य चेति ।।

केचित्त्विति ।। तन्मतेऽपि ‘‘न विय’’दित्यारभ्य ‘‘असम्भवस्तु सतोऽनुपपत्ते’’रित्यन्तं नवसूत्र्येकमधिकरणम् । गौण्यसम्भवाच्छब्दाच्चेत्येकं सूत्रम् । प्रतिज्ञाहानिरव्यतिरेकादित्येकम् । शब्देभ्य इत्यपरम् । वियन्नोत्पद्यते । छान्दोग्ये सृष्टिप्रकरणे वियदुत्पत्त्यश्रुतेरिति प्राप्ते ‘‘अस्ति तु’’ । ‘‘आत्मन आकाशस्सम्भूतः खं वायुर्ज्योति’’रित्यादि तैत्तिरीयाथर्वणादावाकाशोत्पत्तिश्रुतिरस्तीति द्वितीयार्थः । सम्भूतादिश्रुतिर्गौणी । ‘‘तत्तेजोऽसृजते’’ति सृष्टेस्तेजआदितायाः प्रतिपादनेन वियदुत्पत्तिप्रतिपादनासम्भवात् । ‘‘वायुश्चान्तरिक्षं चैतदमृत’’मित्यमृतत्वशब्दाच्च । एकस्यापि सम्भूतशब्दस्याकाशे गौणत्वं वाय्वादौ मुख्यत्वं ‘‘ब्रह्मनामरूपमन्नं च जायत’’ इत्यत्र प्रधाने गौणस्यापि ब्रह्मशब्दस्य ‘‘तपसा चीयते ब्रह्मे’’त्यत्र मुख्यत्वमिव युक्तम् । तथा चाकाशस्य ब्रह्माकार्यत्वान्नैकविज्ञानेन सर्वविज्ञानोपपत्तिरिति पुनश्शङ्कायां एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाहानिः । आकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकात् । ‘‘सदेव सोम्ये’’त्यादिशब्देभ्यश्चाकाशोत्पत्तिप्रतीतेः । किञ्च यावद्विकारं तु सर्वोऽपि विकारः । विभागः उत्पत्तिमान् । ‘‘ऐतदात्म्यमिदं सर्व’’मित्याकाशस्यापि विकारवचनादिति सूत्राणामर्थः । ‘‘एतेने’’ति सूत्रद्वयार्थोऽग्रे व्यक्तः ।। द्वाभ्यामिति ।। राद्धान्तसूत्रमवतारयतीति श्रुतप्रकाशोक्तेरिति भावः । इत्याद्युक्तेत्यादिपदेन ‘‘अपि चे’’त्युक्तदोषः, सर्वेषां सिद्धान्तसूत्रत्वसम्भव इत्यादिदोषश्च ग्राह्यः । यत्तु श्रुतप्रकाशे ‘‘यावद्विकारं त्वि’’ति सूत्रं विभक्तत्वेन हेतुना घटादिवन्नभसः कार्यत्वानुमानपरं वर्णितम् । तदयुक्तमित्यादिना विभक्तत्वस्य हेतुत्वखण्डनं तत्परमत एव । न त्वस्मन्मत इत्याह ।। मन्मते त्विति ।। इति स्मृत्येति ।। भाष्योक्तस्मृत्येत्यर्थः ।।

चन्द्रिकाविवृतिः

अस्ति त्विति सूत्रस्य पूर्वपक्षसूत्रत्वं इतरसूत्राणां मध्ये केषांचिदेकदेशमतावाम्बनेन समाधानपरत्वं आकाशानादित्त्वाङ्गीकारेण प्रवृत्तेः प्रतिज्ञाहानिः । अव्यतिरेकादित्यादिसूत्रस्य तु परमसिद्धान्त-समर्पकत्त्वमाकाशोत्पत्यङ्गीकारेण प्रवृत्तेरिति परेषां सूत्रार्थवर्णनप्रकारं दूषयितुमनुवदति ।। अन्ये त्विति ।।

तद्य्वतिरेकापत्या तेन भेदापत्या । अव्यतिरेकादित्यस्यार्थमुक्त्वा शब्देभ्य इत्यस्यार्थमाह ।। प्रतिज्ञाहानिरिति । उत्तराधिकरणे टीकायां अंत्ये उक्तां युक्तिमाह ।। छान्दोग्ये हीति ।। विरोध इति ।। पूर्वं ब्रह्मजातपदार्थविषये इति शेषः ।। नन्वत्यन्ताभावप्रतियोगिनो वास्तवजन्मा सम्भवेऽप्यारोपितं जन्म बोधयितुं शक्यमेव श्रुत्येत्यत आह ।। आरोपितस्येति ।। श्रुतेरतत्त्वावेदकत्वप्रसङ्गादिति भावः । विरोध इति ।। एका श्रुतिस्तेजसो वायुकारणकत्त्वमाह ।। अपरा ब्रह्मकारणकत्त्वमतो विरोध इति भावः ।। नास्पष्टश्रुतिविरोधेनेति ।। छान्दोग्ये तत्तेजोऽसृजतेति तेजसादीनामेव सृष्टेरुक्तत्वेनाकाशस्यानुत्पत्तिं-सिद्धवत्कृत्वा सम्भूतश्रुतिविरोधो वक्तव्य इति भावः ।। ननु चेत्यादि पूर्वपक्षचिह्नाभावेऽप्यर्थान्तरा-भावेनागत्या एवमर्थ उक्त इत्यत आह ।। तथा मम रीत्येति ।। उत्पत्ताविति ।। अभूत्वाभवनरूपोत्पत्तौ मानाभावेनारोपितत्त्वमात्रमेव सिध्द्येदिति भावः । अस्मिन्पादे आरोपितत्त्वमुत्पत्तिर्न विवक्षितेत्यत आह ।। नात्माश्रुतेरित्यत्रेत्यादिना ।। तदुक्तिः सर्वज्ञ इत्यादिसिध्युक्तिः ।। आरोपितस्येति ।। भिन्नत्त्व-रूपहेतोरिति शेषः ।। धर्मिसत्तेति ।। ब्रह्मगतानृतव्यावृत्तेः ब्रह्मसमानसत्ताकत्त्वाभावे ब्रह्म परमानृतमेव स्यादिति भावः ।। तस्य भिन्नत्वस्य । विभागशब्देनाल्पशक्तिलाभप्रकारं दर्शयति ।। मन्मते त्विति ।।