नापीशपक्षे द्विवचनानुपपत्तिः

द्विवचनानुपपत्तिपरिहार:

तात्पर्यचन्द्रिका

नापीशपक्षे द्विवचनानुपपत्तिः । यतः

‘‘यथैकस्मिन्नेव पाशेऽदितिः पाशानिति श्रुतिः ।

 तथैकस्मिन्नीश्वरेस्तु पिबन्ताविति वागपि’’ ।। १ ।।

यथा नवमे द्विबहुपत्नीकेष्वपि प्रयोगेषु पत्नीं सन्नह्येत्येकवचनान्तो मन्त्रः । यथा वाग्नीषोमीयपशु सम्बन्धिन्येकस्मिन्नेव पाशे ‘‘अदितिः पाशा’’नित्यग्नीषोमीयपशुप्रकरणस्थमन्त्रगतं बहुवचनम् । अन्यथाहि बहुपाशयुक्तेषु पशुगणेषु पाशमन्त्रस्योत्कर्षः स्यात् । स च नेष्टः । गुणभूतप्रत्ययार्थबहुत्वस्यानुसरणाय तदाश्रयत्वेन प्रधानभूतप्रातिपदिकार्थोत्कर्षायोगेनैकस्मिन्नपि बहुवचनस्य कथञ्चिन्नेयत्वात् । तथेहाप्येकस्मिन्नपि ब्रह्मणि द्विवचनमन्येन सह द्वित्वादस्तु । अस्यापि ब्रह्मप्रकरणस्थत्वात् । ‘‘युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्या’’दिति श्रुतं यजमानद्वित्वादि तु द्व्यादिप्रातिपदिकार्थत्वात् सङ्ख्यानभिधानेऽपि कारकाभिधानेन प्रत्ययस्य सार्थक्यवत् प्रातिपदिकस्य सार्थक्यासम्भवात् । रामकृष्णावित्यादाविव च प्रकृतेरूपविशेषेणेव यजमाने रूपविशेषेण द्वित्वासम्भवाच्चैक यजमानकज्योतिष्टोममास प्रकरणादुत्कृष्टम् । यस्मिन्पञ्चपञ्चजना इत्यत्र तु बहुत्वस्य प्रातिपदिकार्थत्वेऽपि ब्रह्मणो बहुरूपत्वाददोषः ।

प्रकाशिका

एवमभोक्तृत्वं बाधकं नेत्युपपादनेन तस्य कर्मफलभोगाभावा’’दित्यादि टीकां विवृत्याधुना द्विवचनमपि न बाधकमित्याह ।। नापीत्यादिना विष्णोरेव द्विरूपत्वादित्यन्तेन ।। द्विवचनानुपपत्तेश्चतुर्धापरिहारं विवरिष्यन् द्विवचनमनुपपन्नमिति वदतो यदभिप्रेतं द्विवचनबोध्यस्य द्वित्वस्यैकस्मिन्ब्रह्मण्ययोगात्तदनुरोधेन पिबत्प्रातिपदिकं छत्रिन्यायेन भोक्त्रभोक्तृसमुदाये लक्षणयावर्तत इति तत्तावदयुक्तम् । गुणभूतप्रत्ययार्थानुरोधेन प्रधानभूतप्रातिपदिके लक्षणाया अन्याय्यत्वात् । किन्तु प्रातिपदिकस्य मुख्यार्थं भोक्तारमुपेत्यैव तदनुरोधेन प्रत्ययार्थो द्वित्वमेव कथञ्चिन्नेयमित्येकं परिहारं ‘‘अभेदैकत्ववत्येवघटे द्रव्यान्तरसहिते द्वित्वदर्शना’’दिति सुधावाक्यानुसारेण सदृष्टान्तमाह ।। यत इत्यादिना किंचेत्यन्तेन ।। यत इत्यस्य श्लोकेनान्वयः । यस्मात्पाशानिति बहुवचनमिवैकस्मिन्नपि द्विवचनं युज्यते तस्मान्नद्विवचनानुपपत्तिरिति । पाशानितिश्रुतिरित्येतदुपलक्षणमिति भावेन पूर्वार्धं व्यनक्ति ।। यथा नवम इति ।। तृतीये पादे ‘‘अपूर्वे त्वविकारो प्रदेशात्प्रतीयते’’ इति पञ्चमाधिकरणे दर्शपूर्णमास प्रकरणे ‘‘पत्नीं सन्नह्ये’’ति मन्त्रः किमेकद्विबहुपत्नीकेष्व विकारेण प्रयोक्तव्य उत द्विबहुपत्नीक प्रयोगयोर्द्विवचनबहुवचनाभ्यामूहितव्य इति विशये एकपत्नीके समवेताभिधायित्वसम्भवादन्यत्रैकवचनमन्याय्यनिगदम् । अतो द्विवचनबहुवचन योरूहितव्य इति प्राप्ते स्यादेवं यद्येकपत्नीकाभिप्रायमिदमाम्नानं स्यात् । न चैवम् । सर्वप्रयोगाणां समानविधानत्वात्सर्वाभिप्रायेणेदमाम्नानम् । तस्मात्सर्वेषु प्रयोगेष्वविकारेणैकवचनान्त एव प्रयोज्य इति सिद्धान्तितम् । तत्र यथैकत्वाभावेऽप्येकवचनान्तो मन्त्रो निविशते तथेहापि ब्रह्मणि द्वित्वाभावेऽपि द्विवचनान्तवागस्त्वित्यर्थः ।। यथावेति ।। अत्रैव ‘‘विप्रतिपत्तौ विकल्पस्स्यादसमर्थत्वाद्गुणे त्वन्याय्य कल्पनैकदेशत्वा’’दिति चतुर्थेऽधिकरणे अग्नीषोमीये पशौ ‘‘अदितिः पाशान्प्रमुमोक्तुदेव’’ इति बहुवचनान्तः पाशमन्त्रश्श्रुतः । स किं प्रकृतावेव निविशतेऽथबहुपाशकेषु ‘‘आग्रेयं कृष्णग्रीवमालभेते’’त्यादिना विहितेषु पशुगणेषूत्कृष्यत इति संशये एकस्मिन्बहुवचनस्यायोगादुत्कर्ष इति प्राप्ते पाशप्रातिपदिकार्थान्वितं विभक्त्यभिहितं कर्मकारकं प्रकृतावपि पाशकर्मक मोचनाभिधानेन सम्भवन्निवेशं नोत्कर्षं सहते । सङ्ख्यामात्रं त्वसम्भवदपि गुणत्वान्न प्रातिपदिकं प्रधानभूतं कारकं चालमुत्क्रष्टुम् । अतो न सङ्ख्यावशेन मन्त्रस्योत्कर्षः । बहुवचनस्य त्वेकस्मिन्नपि पाशे योगोऽवयवबहुत्वाभिप्रायेण छान्दस इति सिद्धान्तितम् । तथेहाप्येकस्मिन्नेव ब्रह्मण्यन्येन सह द्वित्वादस्तु द्विवचनमित्यर्थः । एकवचनस्याद्यं बहुवचनस्य द्वितीयमिति विवेकः ।। अन्यथेति तदधिकरण पूर्वपक्षापादनमस्त्वित्यत आह ।। स चेति ।। उक्तं च शाबरभाष्ये ‘‘गुणे त्वन्याय्यकल्पना स्यान्न प्रधाने गुणश्च विभक्त्यर्थः प्रधानं प्रातिपदिकार्थ इत्यादि’’ नन्वस्याग्नीषोमीय प्रकरणस्थत्वात्तत्प्रकरणानुग्रहाय तत्र कथञ्चिन्निवेश उक्तः । अत एव तत्र ‘‘प्रकरणाच्चे’’ति गुणसूत्रमित्यत आह ।। अस्यापीति ।। उत्तरत्र ‘‘यस्सेतु’’रित्यादिभिः पूर्वत्र ‘‘यस्य ब्रह्म च क्षत्रं चे’’त्यादिभिर्ब्रह्मविषयैर्वाक्यैस्सन्दष्टत्वेन गुहाविष्टत्वादिना लिङ्गेन च ब्रह्मप्रकरणत्वावगमात् । एवं चान्येन सह द्वित्वादेव द्विवचनोपपत्तौ न तदनुरोधेन लक्षणया प्रकृत्यर्थो बाधनीय इति ।

ननु विषमोयमुपन्यासः । तत्र प्रकृत्यर्थस्योत्कर्षभिया प्रत्ययार्थस्य बाध उक्तः । इह तूक्तरीत्येश्वरस्य भोक्तृत्वाज्जीवस्य च भोक्तृत्वस्य प्रत्यक्षादिसिद्धत्वात्पिबत्प्रातिपदिकेन जीवेश्वरयोर्ग्रहणे प्रातिपदिकार्थस्य भोक्तृत्वस्य प्रत्ययार्थस्य द्वित्वस्य च मुख्यस्यैव सम्भवादिति चेन्मैवम् । ऋतशब्दितधर्मफलभोक्तृत्वस्य जीवेऽनुपपत्त्या तस्य लक्षणीयत्वात् । अत एव टीकादौ पूर्वं द्विवचनस्यैवेश्वरे सावकाशत्वोक्तावप्यत्र पूर्वमृतपानकर्तृत्वस्येश्वरैकनिष्ठत्वमुक्तम् । ननु तर्हि कथं तृतीयाध्यायस्य तृतीयपादे ‘‘द्वित्वबहुत्वयुक्तं वा चोदनात्तस्य’’ इति चतुर्दशेऽधिकरणे ‘‘युवं हिस्थस्स्वर्पती’’ इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् । एते असृग्रमिन्दव इति बहुभ्योयजमानेभ्य’’ इत्यत्र प्रत्ययार्थ सङ्ख्यानुरोधेन प्रातिपदिकमुकृष्यत इत्युक्तमित्यतस्तद्वैषम्यमाह ।। युवं हिस्थ इति ।। स्तोत्रस्यादौ पठनीया ऋक् प्रतिपदित्युच्यते । एतामृचं प्रतिपदं प्रथमां कुर्यादित्यर्थः । नन्विदं सूत्रकृदेव पर्यहार्षीत् । यदाह ‘‘अर्थाभावात्तु नैवं स्याद्गुणमात्रमितर’’दिति । सत्यम् । तस्य प्रत्ययार्थाधीनोत्कर्षभ्रमव्युदासाय स्पष्टीकरणमेतत् । तत्र किं प्रतिपदावेकयजमानकज्योतिष्टोमे एवऽथ द्विबहुयजमानकेषु कुलायाहीनादिषूत्क्रष्टव्ये इति संशये नित्ये कर्मण्यशक्तिकृताङ्गत्याङ्गीकाराद्यदैको यजमानो ज्योतिष्टोममनुष्ठातुं न शक्नुयात्तदा ‘‘वसन्ते वसन्ते ज्योतिषा यजेते’’त्याख्यातोपात्तगुणभूतोपादेय कर्तृगतमेकत्वं क्रत्वङ्गमपि त्यक्त्वा द्वौबहवोवायजेरन्निति ज्योतिष्टोम एव प्रतिपन्निवेशसम्भवान्नोत्कर्ष इति प्राप्ते अशक्तिन्यायस्योपादेयाङ्गविषयत्वाद्यजमानगतैकत्वस्य कालादिवदनुपादेयत्वात्तत्त्यागायोगेन प्रकृतौ निवेशासम्भवात्कुलायादिषूत्कर्ष इति सिद्धान्तितम् । तत्र प्रकृतौ यजमानद्वित्वाभावादुत्कर्ष इति सत्यम् । तथापि प्रत्ययार्थाभावान्नोत्कर्षः । तस्य कारकाभिधानेनापि चारितार्थ्यात् । किन्तु पातिपदिकार्थाभावेनैवेति प्रातिपदिकार्थस्य प्रकृतौऽनवकाशं द्वेधाह ।। सङ्क्येति ।। दर्शपूर्णमासप्रकरणादिति लेखकदोष मूलः पाठोयम् । ज्योतिष्टोमप्रकरणस्थत्वात्सौत्रप्रतिपद्विधानस्येत्याहुः । ननु प्रातिपदिकार्थसङ्ख्यायाः प्रकृतावसम्भवेन यद्युत्कर्षस्तर्हि ‘‘न सङ्ख्योपसङ्ग्रहा’’दिति नये ‘‘यस्मिन्पञ्चपञ्चजना’’ इति प्रातिपदिकार्थस्य बहुत्वस्यैकस्मिन्नसम्भवेऽपि कथं तत्रैव निवेशोऽभ्युपगत इत्यत आह ।। यस्मिन्निति ।। न च तथा यजमाने सम्भवतीत्युक्तमिति भावः ।

चन्द्रिकाबिन्दुः

अप्राकृते अतिसाम्येन कारिकायां सङ्गृहीतं दृष्टान्तमुत्तरत्र कथयिष्यन् तदुपलक्षणमित्यभिप्रायेण दृष्टान्तान्तरं दर्शयति ।। यथा नवम इति ।। अन्यथा पाशानिति बहुवचनवत् एकस्मिन् ब्रह्मणि यथा कथञ्चिदस्त्वित्यत आह ।। सहेति ।। अयं च पक्षः अन्येन सह ब्रह्मण्यपि द्वित्वसम्भवादिति सुधया सूचितः ।। अन्येन घटादिना ।। अग्नीषोमीयप्रकरणवदत्र ब्रह्मप्रकरणमस्तीत्याह ।। अस्यापीति ।। ननु दर्शपूर्णमासप्रकरणे द्वयोर्यजमानयोरिव प्रतिपदकरणमुच्यते तस्य चोत्कर्षोऽङ्गीकृतः । दर्शपूर्णमासयोर्यजमानद्वयासम्भवात् स न स्यात् । यथा कथञ्चित् द्वित्वस्य एकस्मिन्नेव यजमाने उपपादयितुमशक्यत्वादित्यतः तद्वैषम्यं दर्शयति ।। युवं हि स्थः इत्यादिना ।। ननु यस्मिन् पञ्च पञ्च जना इत्यादिवाक्यस्यापि द्वयोर्यजमानयोरिति वाक्यवत् ब्रह्मप्रकरणादुत्कर्षः स्यात् । पञ्चेति प्रातिपदिकार्थबहुत्वस्य एकस्मिन् ब्रह्मण्यसम्भवादित्यत आह ।। यस्मिन् पञ्चेति ।।

पाण्डुरङ्गि

एवं प्रकृत्यर्थकर्मफलभोक्तृत्वस्य ब्रह्मणि सावकाशत्वमुपपाद्य प्रत्ययार्थस्यापि सावकाशत्व मुपपादयितुं शङ्कते ।। न चेति ।। कथं चिन्नेयत्वादिति ।। अवयवभेदादिनेत्यर्थः ।। अन्येन सह द्वित्वादस्त्विति ।। पाकानन्वयेऽपि द्वित्वस्योपपत्त्यर्थमेवान्यसा हित्यस्योप योगाद्द्विवचनं छान्दसमस्मिन्पक्ष इति भावः । ननु च दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । दृष्टान्ते अदितिः पाशानिति बहुवचनस्याग्नीषोमीय प्रकरणस्थमन्त्र गतत्वेन बहुपाशयुक्तेषूत्कर्षा सम्भवेन तत्र गुणभूतप्रत्ययार्थबाहुल्यस्यानुसरणाय प्रधानभूतप्रातिपदिकार्थोत्कर्षायोगेनैकस्मिन्नपि बहुवचनस्यास्वारस्यसम्भवेऽपि प्रकृतेपि बन्तावित्यादि द्विवचनस्य ब्रह्मप्रकरणस्थत्वाभावेनान्यत्रोत्कर्षसम्भवेन प्रकृत्यर्थस्वारस्यानुसारेण प्रत्ययास्वारस्य कल्पनस्यासम्भवादित्यत आह ।। अस्यापीति ।। नन्वदितिः पाशानित्यत्र प्रकृत्यर्थस्वारस्यानुसारेण प्रत्ययार्थास्वारस्य दर्शनात् ऋतं पिबन्तावित्यत्र प्रकृत्यर्थस्वारस्यानुसारेण प्रत्ययार्थास्वारस्यं चेत्कल्प्यते तर्हि दर्शपूर्णमास प्रकरणस्थस्य युवं हिस्थः स्वर्पतीति द्वयोर्यजमानयोः प्रतिपदं कुर्यादिति श्रुतस्य यजमानादि द्वित्वस्य प्रकरणान्तर उत्कर्षस्य दर्शनात्प्रकृतेऽपि ऋतं पिबन्तावित्यस्य प्रकरणान्तर उत्कर्षोऽपि किं न स्यादित्यतस्तद्वैषम्यमुपपादयति ।। युवं हीति ।। श्रुतं यजमानद्वित्वादि एकयजमानकदर्शपूर्णमासप्रकरणादुत्कृष्टमित्यर्थः ।

तत्र हेतुमाह ।। द्व्यादीति ।। तथाच तत्र प्रकरणादुत्कर्षाभावे प्रकृत्यर्थस्यैवास्वारस्यापत्त्या प्रकरणादुत्कर्षः । ननु प्रत्ययार्थास्वारस्यवत्प्रकृत्यर्थस्यास्वारस्यं भवत्वित्याशङ्क्य प्रत्ययार्थो द्विविधः । सङ्ख्यारूपः कारकरूपश्चेति । तत्र सङ्ख्यारूपार्थानभिधानेऽपि कारकरूपप्रत्ययार्थस्याभिधानेन प्रत्ययस्य सार्थक्यं सम्भवतीत्याह ।। सङ्ख्येति ।। रामकृष्णावित्यादाविति ।। रामकृष्णयोर्द्विरूपत्वेन सर्वत्र प्रसिद्धत्वादृतपानकर्तुर्द्वित्वस्योपपादयिष्यमाणत्वादद्याप्यसिद्धत्वेऽपि रामकृष्णादिवत्सम्भावनामात्रस्य कर्तुं शक्यत्वाद्यजमानद्वित्वस्य रूपभेदेनाप्य सम्भावितत्वात्तस्योत्कर्षेऽपि न प्रकृत उत्कर्ष इति भावः । ननु श्रुतस्य यजमानद्वित्वस्येव यस्मिन्पञ्चपञ्चजना इत्यत्र बहुत्वस्यापि प्रकृत्यर्थत्वात्तस्य चैकस्मिन्ब्रह्मण्यसम्भवात्तस्मात्प्रकरणादन्यत्रोत्कर्षः स्यादित्यत आह ।। यस्मिन्निति ।। दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमात्रप्रदर्शनार्थं पूर्वं द्वयोर्यजमानयोरित्यत्र द्वित्वस्य प्रातिपदिकार्थतोक्तिः । अत एव तत्र रामकृष्णावित्यादिना रूपविशेषेणैवेत्यादिना वस्तुस्थितिरुक्तेति हृदयम् ।।