पूर्वपक्षस्तु
ईशानो वायुरेव न विष्णुरिति पूर्वपक्ष:
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु ।। अयमीशानो वायुरेव । ईशाने ‘‘ऊर्ध्वं प्राण उन्नयती’’ति प्राणव्यवस्थापकत्वस्य ‘‘मध्ये वामनमासीन’’मिति मध्यमत्वस्य ‘‘विश्वेदेवा उपासत’’ इति सर्वदेवोपास्यत्वस्य च श्रवणात् । तेषां च ‘‘एवमेवैष प्राणः योऽयं मध्यमः प्राणः कुविदङ्गे’’ति भाष्योक्तश्रुतिभिर्वायुर्धर्मत्वात् । ‘‘एवमेवे’’त्यत्र च प्राणशब्दो मुख्यप्राणपरः । ‘‘आत्मत एष प्राणो जायत’’ इति पूर्ववाक्ये तस्यैव प्रकृतत्वात् । विष्णुलिङ्गाभावाच्च । अत एव ‘‘कुविदङ्गे’’ति ऋच्यपि वायुशब्दो न विष्णुपरः । न च ऋचि देवोपास्यत्वमात्रमिहतु सर्वदेवोपास्यत्वमिति भेदः । ऋच्यपि ‘‘देवा’’ इति बहुत्वस्यासङ्कोचाय कार्त्स्न्येऽपि पर्यवसानात् । त्रित्वे पर्यवसाने गुणातिशयासिद्धेः । न हि ‘‘नरेन्द्रं चराः सेवन्त’’ इत्यादौ त्रित्वे पर्यवसानम् । ‘‘वसन्ताय कपिञ्जला’’नित्यत्र तु त्रित्वापर्यवसाने सर्वकपिंजलालम्भनस्याशक्यानुष्ठानत्वादष्टदोषदुष्टविकल्पापातात् । ‘‘न हिंस्या’’दिति शास्त्रस्यासङ्कोचसम्भवे सङ्कोचायोगाच्च त्रित्वे पर्यवसानम् ।
प्रकाशिका
उत्तरोत्तरचिन्ताफलत्वं पूर्वपूर्वचिन्तायाः प्रदर्शयन् लिङ्गानेकत्वव्यक्तिपूर्वं तन्निरवकाशत्वकथनेन पूर्वपक्षयन् ‘‘स ईशानो वायुरेवे’’त्यादिटीकां विवृणोति ।। पूर्वपक्षस्त्वित्यादिना ।। अत्र त्रयः पूर्वपक्षप्रापकाः । एकस्तावल्लिङ्गानामनेकत्वाद्वामनश्रुतेरेकत्वादनेकैरेकस्य बाध इत्यनेकत्वरूपस्सौत्रावधारणसूचितः । अयं च स्पष्टत्वाद्भाष्यटीकयोर्न प्रपञ्चितः । द्वितीयस्तु सौत्रप्रमितपदसूचितो निरवकाशत्वादिरूपः । सत्वस्पष्ट इति ‘‘यथासम्रा’’डित्यादौ टीकायां प्रपञ्चितः । तं व्यनक्ति ।। तेषामित्यादिना ।। तृतीयस्तु द्वितीयसूत्रसूचितोंऽगुष्ठमात्रत्वरूपोऽग्रे स्पष्ट इति ध्येयम् । ‘‘यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान्ग्रामानधितिष्ठस्वैतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्त’’ इति षट्प्रश्ने प्राणव्यवस्थापकत्वस्य ‘‘अथेममेव नाप्नोद्योयं मध्यमः प्राण’’ इति वाजसनेये मध्यमत्वस्य ‘‘कुविदंगनमसा ये वृधासः पुरा देवा अनवद्यास आसन् । तेवायवे मनवे बाधितायावासयन्नुषसं सूर्येणे’’त्यस्यामृचि देवोपास्यत्वस्य वायुधर्मत्वेन सिद्धत्वादित्यर्थः । ऋगर्थस्तु ‘‘ओति सम्बोधनम् । ये देवा वायोर्नमस्कारादिना ज्ञानादिगुणपूर्णा अज्ञानाद्यवद्यविधुराश्च पुराऽऽसन् ते क्वचिद्रहस्यस्थाने सूर्येण साकं ज्ञानिने संसारबाधवद्भिश्शरणं प्राप्ताय वायवे बुद्धिमवासयन् । तद्विषयामकुर्वन्’’ इति टीकायां व्यक्तः ।
श्रुत्यन्तराणां वायुपरत्वं टीकायामस्पष्टमिति स्वयं साधयति ।। एवमेवेत्यादिना ।। ननु ‘‘अत एव प्राण’’ इति न्यायेनोपक्रमबाधेन प्राणशब्दो विष्णुपरः स्यादित्यत आह ।। विष्ण्विति ।। अत एव विष्णुलिङ्गाभावादेव । ननु कथं तर्हि कपिंजलाधिकरणे त्रित्वे पर्यवसानमुक्तमित्यत आह ।। वसन्तायेति ।। एकादशाध्याये ‘‘बहुवचनेन सर्वप्राप्तेर्विकल्पस्स्या’’दित्याद्यपादीयाष्टमाधिकरणे ‘‘वसन्ताय कपिञ्जलानालभते’’ इत्यत्र किं त्रयाणामेवालम्भ उत त्रिप्रभृतीनामिति संशये बहुवचनस्य सर्वत्रप्रवृत्तेस्सर्वसङ्ख्यानां शास्त्रार्थत्वाच्छास्त्रीयाच्च प्रयासगौरवात् फलभूयस्त्वमिति यावदुत्साहं विकल्पेन नानासङ्ख्योपादानमिति प्राप्ते बहुत्वमात्रस्यैव शास्त्रार्थत्वात् त्रीननालभ्य चतुर्थालम्भासम्भवादवश्यं त्रयाणामालम्भे तावतैव शास्त्रार्थसिद्धेर्नाधिकालम्भं शास्त्रं कारयतीति निवृत्तव्यापारे विधौ ‘‘नहिंस्या’’दिति निषेधशास्त्रप्रवृत्तेरष्टदोषदुष्टविकल्पापाताच्च त्रयाणामेवालम्भ इत्युक्तम् । बहुवचनार्थो मुख्य उपादीयते अथ यथोत्साहं कदाचित्किंचित्सङ्कुचितः । आद्ये दोषमाह ।। सर्वेति ।। द्वितीये दोषमाह ।। अष्टदोषेति ।। एकस्योपादाने तस्याप्रामाण्यत्यागः प्रामाण्यस्वीकारोऽन्यस्य प्रामाण्यत्यागोऽप्रामाण्यस्वीकार इति चत्वारो दोषाः । अन्यस्योपादानदशायां तस्य पूर्वक्लृप्ताप्रामाण्यत्यागस्त्यक्तप्रामाण्यस्वीकारस्तत्प्रतियोगिनोऽन्य स्य तु प्राक् क्लृप्तप्रामाण्यत्यागस्त्यक्ताप्रामाण्यस्वीकारश्चेति चत्वारो दोषा इति मिलित्वा अष्टौ दोषा ध्येयाः ।। असङ्कोचेति ।। त्रित्वव्यतिरिक्ते प्रवृत्तिसंभवे सर्वकपिंजलव्यतिरिक्तत्वरूपसंकोच इत्यर्थः ।
चन्द्रिकाबिन्दुः
स चेशानो वायुरेवेत्यादिटीकाभिप्रायं कथयति ।। अयमीशान इति ।। ननु भाष्योदाहृतश्रुतीनामपि विष्णुपरत्वमेव किं न स्यादित्यतस्तदुपपादयितुमारभते ।। एवमेवेत्यत्र चेत्यादिना ।। तस्यैवेति ।। जनिमत्त्वेन मुख्यप्राणस्यैव प्रकृतत्वादित्यर्थः ।। अत एवेति ।। वायुशब्दस्य विष्णुपरत्वज्ञापकलिङ्गाभावादेवेत्यर्थः ।। इह त्विति ।। विषयवाक्य इत्यर्थः । विश्वे देवा इत्युक्तेरिति भावः । तथा च भिन्नविषयत्वात् न ऋचः समाख्यात्वमिति भावः ।
ननु कपिञ्जलानिति बहुवचनं कदाचित् त्रित्वाभिप्रायेण कदाचित् चतुष्ट्वाद्यभिप्रायेण प्रवृत्तं भविष्यति । व्रीहियववद्विकल्पसम्भवादित्यत आह ।। अष्टदोषेति ।। अष्टौ दोषाश्चेवमूह्याः । यदा व्रीह्यनुष्ठानं तदा यवशास्त्रे प्राप्तप्रामाण्यपरित्यागः अप्राप्ताप्रामाण्यस्वीकारः । यदा तूभयानुष्ठानं तदा परित्यक्तप्रामाण्यस्वीकारः स्वीकृतप्रामाण्यपरित्यागः । व्रीहिशास्त्रे प्राप्तप्रामाण्यपरित्यागः अप्राप्ताप्रामाण्यस्वीकारः । यदा न व्रीहिशास्त्रस्वीकारः तदा परित्यक्तप्रामाण्यस्वीकारः । स्वीकृतप्रामाण्यपरित्यागः । आहत्य (अष्टौ) ।। न चैवमव्यवस्थया दश षोडशादिदोषाः स्युरिति वाच्यम् । सर्वथा अत्रैव पर्यवसानादिति ।।
स चेशानो वायुरेवेत्यादिटीकाभिप्रायं कथयति ।। अयमीशान इति ।। ननु भाष्योदाहृतश्रुतीनामपि विष्णुपरत्वमेव किं न स्यादित्यतस्तदुपपादयितुमारभते ।। एवमेवेत्यत्र चेत्यादिना ।। तस्यैवेति ।। जनिमत्त्वेन मुख्यप्राणस्यैव प्रकृतत्वादित्यर्थः ।। अत एवेति ।। वायुशब्दस्य विष्णुपरत्वज्ञापकलिङ्गाभावादेवेत्यर्थः ।। इह त्विति ।। विषयवाक्य इत्यर्थः । विश्वे देवा इत्युक्तेरिति भावः । तथा च भिन्नविषयत्वात् न ऋचः समाख्यात्वमिति भावः ।
ननु कपिञ्जलानिति बहुवचनं कदाचित् त्रित्वाभिप्रायेण कदाचित् चतुष्ट्वाद्यभिप्रायेण प्रवृत्तं भविष्यति । व्रीहियववद्विकल्पसम्भवादित्यत आह ।। अष्टदोषेति ।। अष्टौ दोषाश्चेवमूह्याः । यदा व्रीह्यनुष्ठानं तदा यवशास्त्रे प्राप्तप्रामाण्यपरित्यागः अप्राप्ताप्रामाण्यस्वीकारः । यदा तूभयानुष्ठानं तदा परित्यक्तप्रामाण्यस्वीकारः स्वीकृतप्रामाण्यपरित्यागः । व्रीहिशास्त्रे प्राप्तप्रामाण्यपरित्यागः अप्राप्ताप्रामाण्यस्वीकारः । यदा न व्रीहिशास्त्रस्वीकारः तदा परित्यक्तप्रामाण्यस्वीकारः । स्वीकृतप्रामाण्यपरित्यागः । आहत्य (अष्टौ) ।। न चैवमव्यवस्थया दश षोडशादिदोषाः स्युरिति वाच्यम् । सर्वथा अत्रैव पर्यवसानादिति ।।
पाण्डुरङ्गि
प्राणव्यवस्थापकत्वेन कुत ईशानस्य वायुतेति शङ्कानिरासाय टीकायां यथा सम्राडित्यादिना प्राणव्यवस्थापकत्वस्य वायुधर्मत्वादित्युक्तम् । तदयुक्तम् । तत्रापि प्राणशब्दस्य अत एव प्राण इत्यधिकरणन्यायेन विष्णुपरत्वे तद्बलेन वायोरीशानत्वालाभादित्यतस्तां टीकामुपपादयति ।। एवमेवेत्यत्रेति ।। किञ्च विष्णुलिङ्गे सति तच्छब्दानां विष्णुपरत्वमिति हि प्राणाधिकरणन्यायः । न चात्र विष्णुलिङ्गमस्तीति न प्राणाधिकरणन्यायविषयतेत्याह ।। विष्णुलिङ्गाभावाच्चेति ।। अत एवेति ।। ऋचि विष्णुलिङ्गाभावेन प्राणाधिकरणन्यायविषयत्वाभावादेवेत्यर्थः । कुविदङ्गेत्यस्य सर्वदेवोपास्यत्वमुपपादयितुं तावच्छङ्कते ।। न च ऋचीति ।। कपिञ्जलाधिकरणन्यायविरोधं परिहरति ।। वसन्ताय कपिञ्जलानिति ।। ननु नैकदा सर्वकपिञ्जलालम्भ उच्यते । किं तु कदाचित्कस्यचित् । अत उक्तं विकल्पापातादिति । अस्तु विकल्पोपीत्यत उक्तं अष्टदोषेति । आग्नेयोष्टाकपाल इत्यादिवाक्यनिर्दिष्टपुरोडाशाक्षेपादेव व्रीहियवश्यामाकादिषु प्राप्तेषु द्रव्यान्तरप्रसक्तिनिमित्तानियमनिरासाय व्रीह्यादिशब्दैर्नियम आश्रीयते व्रीहिभिरेव यवैरेवेति । तथा च व्रीहिपुरोडाशप्रयोगे यवशास्त्रे प्रतीतप्रामाण्यत्यागः । निर्दोषवेदे दोषजन्यसंशयविपर्ययरूपाप्रामाण्यायोगात् प्रामाण्योपलम्भे सत्यपि प्रामाण्यानुपलम्भरूपानुपलब्धिगम्यप्रामाण्याभावरूपाप्रामाण्यस्वीकारः । यवपुरोडाशप्रयोगे तु पूर्वकल्पिताप्रामाण्यस्य पूर्वत्यक्तप्रामाण्यस्य च यवशास्त्रस्याप्रामाण्यत्याग प्रामाण्यस्वीकारौ विना तदर्थानुष्ठानायोगाद्यवशास्त्रे त्यक्तप्रामाण्यस्वीकारोऽङ्गीकृतप्रामाण्यपरित्याग इति च दोषद्वयम् । एवं च यवशास्त्रे दोषचतुष्टयम् । एवं यवपुरोडाशप्रयोगे व्रीहिशास्त्रे दोषद्वयं पुनर्व्रीह्युपादाने दोषद्वयमिति व्रीहियवशास्त्रेऽपि दोषचतुष्टयमित्यष्टदोषदुष्टो विकल्पः । एवं ग्रहणाग्रहणवाक्ययोरपि योजनीयम् । तदुक्तं वार्तिके–
प्रमाणस्याप्रमाणत्वकल्पनाच्च द्विदोषभाक् ।
प्रमाणत्वं प्रतीतं यदुज्ज्वलं तदपह्नुतम् ।।
एकस्तावदयं दोषः प्रमाणार्थविपर्ययात् ।
तथा तदप्रमाणत्वं यदभावप्रमाणकम् ।।
भावेपि सत्यभावेन विनैव परिकल्पितम् ।
सोऽपि स्यादपरो दोषः प्रमाणार्थविपर्ययात् ।।
अङ्गीकृत्यापि तौ दोषौ पूर्वं केनापि हेतुना ।
प्रयोगान्तरकाले च पुनर्दोषद्वयं भवेत् ।।
यदभावप्रमाणत्वं पूर्वमेतस्य कल्पितम् ।
सम्प्रत्यपह्नुवानस्य दोष एकोहि जायते ।।
प्रत्यक्षं दृढरूपं च यत्पुरस्तान्निराकृतम् ।
उपजायेत दोषोऽन्यस्तदुज्जीवयतः पुनः ।।
एवमेकत्र चत्वारो दोषा वाक्ये प्रदर्शिताः ।
तत एव प्रसज्येरन् द्वितीयेऽपि प्रकल्पिते ।।
एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः ।
विकल्प आश्रितस्तत्र गतिरन्या न विद्यत ।। इति ।
अस्यार्थः– द्विदोषभागित्युक्तदोषद्वयमुपपादयति । प्रमाणत्वमिति । प्रमाणत्वापह्नवस्य दोषत्वमुपपादयति । प्रतीतमिति । प्रतीतप्रमाणत्वापह्नवः प्रतीतिविरोधादेव दोष इत्यर्थः । अप्रतीताप्रामाण्यकल्पनं द्वितीयो दोष इत्याह । तथेति । तस्य प्रमाणस्य सतोऽप्रमाणत्वकल्पनमित्यर्थः । अभावेति । प्रामाण्यानुपलम्भरूपाभावप्रमाणकमित्यर्थः । सन्देहविपर्यययोर्दोषजन्यत्वा न्निर्दोषवेदे च दोषाभावात्प्रामाण्याभावरूपमेवाप्रामाण्यं वाच्यम् । तस्मिंश्च प्रामाण्योपलम्भाभावः प्रमाणं वाच्यम् । स च न सम्भवति । प्रामाण्योपलम्भस्य भावे सत्त्वे सत्यपीत्यर्थः । प्रमाणेति । प्रमाणस्योपलम्भाभावस्यार्थस्य प्रमेयस्याप्रामाण्यस्य विपर्ययात् विरोधादित्यर्थः । ।। अभावेति ।। प्रामाण्योपलम्भाभावप्रमाणकत्वं एतस्याप्रमाणत्वस्येत्यर्थः । इदमप्रामाण्यं स्वीकृतं पूर्वं तस्य त्यागस्तृतीयो दोषः । प्रत्यक्षमिति । यत्प्रामाण्यं पूर्वं निराकृतं तस्योज्जीवनं स्वीकारश्चतुर्थो दोषः । सङ्ग्रहश्च
व्रीहेरेते यवस्योक्तेर्मात्वस्य त्यागकल्पने ।
यवे नैवं चेति दोषा व्रीहेश्चैवं द्वयेऽष्टता ।। इति ।
व्रीहिमये पुरोडाशे कृते यवस्योक्तेर्यववाक्यस्य द्वौ दोषौ । यवमये पुरोडाशे कृतेऽपि यववाक्यस्य द्वौ दोषौ । एवं यववाक्ये चत्वारो दोषाः । एवं मिलित्वोक्तेर्द्वये ते दोषा अष्टौ ।