श्रुतौ भूतपदस्य च तत्रोपासनार्थत्वात्सर्वपदेन ..

स्वपक्षसाधकप्रसिद्धोपदेशादीनां निरवकाशत्वोपपादनम्

तात्पर्यचन्द्रिका

श्रुतौ भूतपदस्य च तत्रोपासनार्थत्वात्सर्वपदेन चादित्यस्यापि ग्रहणसम्भवेनादित्येऽनुक्तत्वाभावात् । उक्तरीत्या च बाधकाभावेन ब्रह्मशब्दस्याश्रुतत्वादेश्चामुख्यत्वायोगात् । भाष्योक्तश्रुत्यादिषु च ब्रह्मशब्दस्य विष्णावेव प्रसिद्धत्वात् प्रसिद्धिसम्भवे चाप्रसिद्धग्रहणायोगस्य च सौत्रप्रसिद्धपदेन सूचनात् । ब्रह्मशब्दस्य जीवरूपामुख्यार्थत्वे च जीवादन्यस्य मुख्यब्रह्मणो विष्णोरमुख्यब्रह्मणश्च जात्यादेः सत्त्वेनान्यसम्बन्धनिराकरणासम्भवेनावधारणायोगात् । ईश्वररूपमुख्यार्थत्वे चान्यस्य मुख्यब्रह्मणोऽसत्त्वेनान्यसम्बन्धनिराकरणसम्भवात् । भाष्योक्तश्रुत्यादौ च सावधारणब्रह्मशब्दस्य विष्णावेव प्रयोगदर्शनेनेहापि तेन तस्यैव प्रत्यभिज्ञानात् ‘‘ब्रह्मेत्याचक्षत’’ इत्यनेनोक्तप्रसिद्धेश्च ब्रह्मशब्दार्थत्वेनाप्रसिद्धजीवपरत्वेऽनुपपत्तेः अश्रुतत्वादेश्चोपसंहारस्थत्वेन बलवत्त्वात्तदनुसारेणोपक्रमस्थादित्यश्रुतेरर्भकौ-कस्त्वादिलिङ्गानां च नेतव्यत्वात् । अणोश्च जीवस्य सर्वगतत्वायोगात् । योगे वाऽनादितः सर्वजीवानां सर्वशरीरसम्बन्धे शरीरकर्मादिव्यवस्थायोगेनाभिमानस्यापि प्रसङ्गेन सर्वेषां सर्वशरीरगतदुःखादिभोगप्रसङ्गात् । व्रीह्यादिशरीरगतजीवान्तरस्य तत्तदिन्द्रियाभिमानिनां च तदीयसर्वशरीरसम्बन्धाभावेन भोगाप्रसङ्गात् । ईश्वरस्य तु स्वाभाविकशक्तिविशेषेण तदप्रसङ्गात् ‘‘आत्मानं वेद आत्मानं परस्मै शंसति यस्तित्याज सचिविदं सखाय’’मिति च सर्वगतस्यात्मनो वेदनशंसनत्यागेषु कर्मत्वेन जीवस्य तु कर्तृत्वेन निर्देशात् । कर्मकर्त्रोश्चोत्सर्गतो भिन्नत्वात् । ‘‘मामहं जानामि तदात्मानमेवावेदहं ब्रह्मास्मी’’त्यादाविव च प्रकृतेऽपवादकाभावात् ‘‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’’ इति स्मृतिसमाख्यानाच्चात्रोक्तः सर्वगतो विष्णुरेवेति । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘तथापि निरवकाशा एतमेवेत्यवधारणादय’’ इति ।। अनुव्याख्याने तु सर्वसंयोगित्वादिमात्रं नात्र प्रतिपाद्यम् । तस्यानन्दादिवद्गुणत्वाभावात् । किन्तु तत्तच्छक्तिप्रबोधनार्थं तत्र तत्रावस्थानम् । तच्चायुक्तम् । ईश्वरस्य दूरस्थत्वेऽपि तत्र शक्तत्वादिति प्राप्ते तत्र तत्रावस्थानं न दूरस्थस्याशक्त्या । किन्तु लीलयेति सिद्धान्त इत्युक्तम् । तत् ‘‘विवक्षितगुणोपपत्ते’’रिति सूत्रस्य विवक्षितः दूरे शक्तस्यापि तत्तच्छक्तिबोधनार्थं तत्र तत्रावस्थानरूपो यो गुणस्तस्य लीलयोपपत्तेरिति वर्णकान्तरमभिप्रेत्य ।

प्रकाशिका

ननूक्तमत्र भूतपदोपादानात्तन्मात्रस्थत्वं सिध्यति । अन्यथा तद्व्यर्थमिति तत्राह ।। श्रुताविति ।। भूतपदस्य चेति ।। एतेन निचाय्यत्वादिति सूत्रांशटीकायामर्भकौकस्त्वपदेन भूतावस्थितत्वं ग्राह्यम् । न तु भूतमात्रावस्थितत्वमिति सूचितम् । यदप्यादित्येऽनुक्तत्वमादित्यप्रापकमिति तत्प्राक् परिहर्तव्यमपि प्रसङ्गादत्र परिहरति ।। सर्वेति ।। ननूक्तमत्र विशिष्यादित्येऽनुक्तत्वलिङ्गादितीति चेन्न । ‘‘सर्वप्राणिषु च स्थितः । सर्वनामाभिधेय इति स्मृत्याऽऽदित्यगतस्यैवादित्यनामवत्त्वोक्तेरिति टीकोक्तरीत्या यश्चासावादित्य इत्यादिना लब्धत्वादिति तात्पर्यात् । तत्रादित्यस्थत्वमस्पष्टमित्येवं समाधानमुक्तम् । एवमर्भकौकस्त्वादिति सूत्रे निरवकाशत्वादिनाऽऽदित्यश्रुत्यादितो बलवत्त्वेन प्राधान्यादन्योपलक्षणत्वेनोपात्तस्यार्भकौकस्त्वस्य समाधानेन तदुपलक्षितानां संवत्सरसारत्वादीनां सौत्रपदोपात्तानां चादित्यादिप्रापकाणां स्वपक्षबाधकानां समाधानस्य व्योमवन्निचाय्यत्वादिति सूत्रांशलब्धस्योक्त्या तद्विवृतिपरटीकां व्याख्याय इदानीं ‘‘प्रसिद्धोपदेशात् विवक्षितगुणोपपत्तेश्च शब्दविशेषा’’दित्यादिसूत्रोक्तश्रुतिलिङ्गादिरूपस्वपक्षसाधकसत्त्वादत्रोक्तस्सर्वगतो विष्णुरिति भावेन तत्तत्सूत्रटीकां विवृण्वंस्तेषां पूर्ववाद्युक्तममुख्यत्वं परिहृत्य निरवकाशत्वमाह ।। उक्तरीत्येति ।। एतेन स्वपक्षसाधकानि यथा सूत्रविन्यासं प्रागुपन्यस्य स्वबाधकभूतानि परसाधकानि पश्चान्निरस्यानि न तु वैपरीत्यमिति निरस्तम् । तेषां बाधकानां स्वपक्षसाधकानामन्यथासिद्ध्यापादकत्वेन बाधकतया तन्निरासस्यैव प्रथममुपयुक्तत्वात् । सूत्रक्रमबीजं तु वक्ष्याम इति भावः । अत एवान्ते टीकायामेवमीश्वरपक्षे विरोधाभावाद्ब्रह्मशब्दस्यामुख्यार्थग्रहणमश्रुतत्वादीनां भाक्तत्वकल्पनमित्यादि निरस्तं भवतीत्युक्तम् ।

ब्रह्मशब्दस्येति ।। आद्यसूत्रोक्तस्य ब्रह्मशब्दस्य द्वितीयोक्तस्याश्रुतत्वादिलिङ्गस्येत्यर्थः । अत्रापि पञ्चम्यन्तप्रधानहेतूनां सर्वगतो विष्णुरेवेति साध्येनान्वयः । ‘‘ब्रह्मशब्दस्य श्रुत्यादौ नारायण एव प्रसिद्धत्वा’’दिति टीकां व्यनक्ति ।। भाष्योक्तेति ।। ‘‘तदेव ब्रह्म परमं कवीनां परमं यो महद्ब्रह्मेत्यादि’’ष्वित्यर्थः ।। प्रसिद्धेति ।। अन्यथा ब्रह्मशब्दोपदेशादित्येव ब्रूयादिति भावः । यद्यपि लोकतो जीवादावपि प्रसिद्धिः तथापि वैदिकप्रसिद्धियुक्तस्यैवोपादानमिति भावः । ननु ‘श्रुत्वाप्येनं वेद न चैव कश्चि’दिति जीवस्याप्यश्रुतत्वाद्युपपत्तेश्चक्षुर्मयत्वादिवशेन ब्रह्मशब्दो जीवेऽमुख्यः किं न स्यादित्यतः ‘‘शब्दविशेषा’’दिति सूत्रभाष्यटीकाभिप्रायं व्यनक्ति ।। ब्रह्मशब्दस्येति ।। ‘‘सावधारणब्रह्मशब्दवाच्यत्वे मुख्यब्रह्मत्वं स्यात् । न च तज्जीवस्योपपद्यत’’ इति टीकोक्तमुपपादयति ।। जीवरूपेति ।। जीवरूपामुख्यार्थत्वे एतमेवेत्यवधारणमन्यस्य मुख्यवृत्त्या ब्रह्मशब्दार्थत्वं वाऽमुख्यवृत्त्या तदर्थत्वं वा व्यवच्छिंद्यात् । न द्वयमपि युक्तम् । तथाभूतस्य ब्रह्मादेस्सत्त्वादित्यर्थः । स्वपक्षेऽवधारणं युक्तमित्याह ।। ईश्वरेति ।। भाष्योक्तेति ।। ‘‘एष उ एव ब्रह्मे’’त्यादावित्यर्थः ।। प्रसिद्धेश्चेति ।। वृद्धप्रसिद्धेरित्यर्थः । पूर्वं श्रौतप्रसिद्धिरुक्तेति भेदज्ञापनाय इत्यनेनोक्तेत्युक्तम् । श्रुतेर्निरवकाशत्वमुक्त्वा लिङ्गस्य तदाह ।। अश्रुतत्वादेरिति ।। विवक्षितेति सौत्रपदतात्पर्योक्तिः ।। उपसंहारस्थत्वेनेति ।। ‘‘तेषां च विष्णोरेव योग्यत्वेने’’ति टीकोक्तिरूपलक्षणमिति भावः । एवं परमते साधकानि निरस्य स्वपक्षसाधकानि चोक्त्वा ‘‘अनुपपत्तेस्तु न शारीर’’ इति सूत्रोक्तपरपक्षबाधकोक्तिपरटीकां विवृण्वन् परपक्षे बाधकमाह ।। अणोश्चेति ।। मिलितसर्वजीवानां सर्वगतत्वपक्षस्य ‘‘स्वस्वदेहस्थितिमात्रस्य सर्वेषां सिद्धत्वा’’दिति टीकायामेव स्पष्टत्वादित्येकस्य सर्वगतत्वपक्षदूषणस्य विस्तृतिरियम् । टीकायां ‘‘सुखदुःखप्राप्त्यैकस्य सर्वगतत्वानुपपत्ते’’रित्युपलक्षणमिति भावः । अणुत्वं ‘‘उत्क्रान्तिगत्यागतीना’’मित्यत्र साधयिष्यत इति भावः । नन्वात्मनो विभुत्वमेवोपेयते । गत्यादेरुपाधिवशेनोपपत्तेरिति भावेनाह ।। योगेवेति ।। अयमर्थः । सर्वजीवानां प्रत्येकं सर्वगतत्वे सर्वशरीरगतसुखदुःखादिभोगस्स्यात् । न च यथा स्वर्गाच्च्युतस्य स्थूलदेहप्राप्त्यै मातृयोनिं प्राप्तुमागच्छतो मध्येऽन्यकर्मनिर्मितजीवान्तराधिष्ठितदेहं प्राप्तस्य यथा वा तत्तदिन्द्रियाभिमानिनां तत्तज्जीवशरीरगतानां तत्तच्छरीरगतसुखादिभोगाभावः तथेहापि यदीयकर्मनिर्मितो यो देहस्स एव तस्य सुखादिभोगापादको नान्यस्य तद्गतस्यापीति वाच्यम् । अनादितस्सर्वेषां सर्वशरीरगतत्वे कर्मव्यवस्थायोगात् । न च यस्य यस्मिन्देहेऽभिमानस्तस्मिन्देहे कृतं कर्म तदीयमिति वा कर्मनिर्मितत्वाविशेषेपि यस्य यत्राभिमानस्तस्य तद्गतसुखादिभोग एव नान्यगततद्भोग इति वा युक्तम् । अनादिकालं सर्वदेहसम्बन्धे सर्वत्र तस्याप्यवर्जनीयत्वादिति ।

कथं तर्हि व्रीह्यादिगतजीवादौ गतिरित्यत आह ।। व्रीह्यादीति ।। इन्द्रियाभिमानिनां प्रतिकल्पं भिन्नत्वादिति भावः । एतेन ‘‘सर्वशरीरगतसुखदुःखादिप्राप्त्ये’’ति टीका ‘‘ब्रह्मादिसर्वशरीरस्थत्वानुपपत्ते’’रिति टीकाच विवृता । नन्वीश्वरस्यानादितः सर्वदेहसम्बन्धादुक्तदोषसाम्यमित्यतः ‘‘सम्भोगप्राप्तिरिति चेन्न वैशेष्या’’दिति सूत्राभिमतं ‘‘सामर्थ्यवैशेष्या’’दिति टीकाद्युक्तं समाधिमाह ।। ईश्वरस्यत्विति ।। परपक्षे ‘‘कर्मकर्तृव्यपदेशा’’दिति सूत्रोक्तं बाधकान्तरं तदुपात्तवाक्योक्तिपूर्वमाह ।। आत्मानमिति ।। ‘‘मामहं जानामि स्वाध्यायोऽध्येतव्य’’ इत्यादावेकस्यैव द्वयं दृष्टमित्यत आह ।। कर्मकर्त्रोश्चेति ।। विवृतं चैतत् ‘‘कर्मकर्त्रोरुत्सर्गतोभिदे’’त्यनुव्याख्यानसुधायाम् ।। प्रकृत इति ।। तत्रैक्यग्राहकप्रमाणमपवादकमिह च चक्षुर्मयादिजीवलिङ्गस्य विष्णाववकाशितत्वादिति भावः । एतेन ‘‘अत्रोक्तसर्वगतस्यात्मानमिति कर्मत्वेने’’त्यादि टीका विवृता । ‘‘स्मृतेश्चे’’ति सूत्रोक्तं स्वपक्षे साधकान्तरमाह । अहमात्मेति ।। न च स्मृतेरपि स्ववचनत्वेन विप्रतिपन्नं प्रति सूत्रकारः कथं तामुपादत्त इति वाच्यम् । ‘‘तस्याः परोक्तानुवादरूपत्वा’’दिति टीकायामेवोक्तेरिति भावः । तथापि पूर्वपक्षप्रापकश्रुतिलिङ्गभावेपि । अवधारणादयः अवधारणसहितब्रह्मशब्दादय इत्यर्थः । एतेन भाष्याद्युक्तं न्यायविवरणोक्तं चैकार्थमिति दर्शितम् ।

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।

दूरतोप्यतिशक्तस्सलीलया केवलं प्रभुः ।।

इत्यनुव्याख्यानेऽन्यथाव्याख्यानं प्रतीयते । तत्सुधायामस्फुटत्वात् सूत्रारूढतया व्यनक्ति ।। अनुव्याख्यानेत्विति ।। सर्वसंयोगित्वेति ।। एतेन ‘‘अथवा न सर्वगतत्वं हरेरुपपादनीयम् । तस्यानन्दादिवत्स्रष्टृत्वादिवद्वागुणत्वाभावा’’दिति सुधानुवादः कृतः । ‘‘तत्किं दूरे स्थितः शक्तिप्रबोधनेन शक्तः । येन तत्र तत्र तिष्ठतीति सुधास्थाशङ्काभागानुवादः तच्चायुक्तमित्यादि । ‘‘यद्यपि सप्रभुर्विष्णुर्दूरतोतिशक्त’’ इत्यादिसुधार्थानुवादः तत्र तत्रेति ।

चन्द्रिकाबिन्दुः

तत्र भूतेष्विदानीं निर्बाधं साधकं दर्शयति ।। उक्तरीत्या चेति ।। तस्यैव सावधारणब्रह्मशब्दस्यैव । ब्रह्मेत्याचक्षत इति पूर्वमश्रौतप्रसिद्धिरिति कृत्वा भेदः । अनुपपत्तेस्तु न शारीर इति सूत्रस्य अर्थान्तरं स्वयमभिप्रेत्याह ।। अणोश्चेति ।।

भाष्यकारीयमर्थमाह ।। योगे वेति ।। सम्भोगप्राप्तिरिति सूत्रमाह ।। ईश्वरस्य त्विति ।। तत्तदिन्द्रियेति ।। अस्मदादिसर्वशरीरस्वम्बन्धित्वमस्माकमेव । इन्द्रियाद्यभिमानिनां तु अस्मदादिकतिपयशरीरसम्बन्धित्वेऽपि न सर्वशरीरसम्बन्धित्वम् । पुरन्दरादिदेवानां प्रतिमन्वन्तरादिभेदेन भिन्नत्वादिति भावः । ईश्वरस्यास्मदादिसर्वशरीरसम्बन्धित्वात् मोहप्रसङ्ग इत्यत आह ।। ईश्वरस्य त्विति ।। कर्मकर्तृव्यपदेशाच्चेति सूत्रार्थमाह ।। आत्मानं वेदेति ।। उत्सर्गपदव्यावर्त्यमाह ।। मामहं जानीमीति ।। अपवादकाभावादिति ।। अपवादकश्च कर्तृकर्मणोरेकत्वावधारणमिति द्रष्टव्यम् । स्मृतेश्चेति सूत्रार्थमाह ।। अहमिति ।। नन्वनुव्याख्याने उक्तरीत्या पूर्वपक्षाद्यवचनात् तत्रोक्तसिद्धान्तस्य सूत्राक्षरानारूढत्वाच्चायुक्त इत्यत आह ।। मामहं जानामीति ।। अपवादकाभावादिति ।। अनुव्याख्याने त्विति ।। वर्णकान्तरमिति ।। यद्यप्यधिकरणतात्पर्यमपेक्ष्येति सुधायामुक्तत्वात् सूत्रार्थतयैव कथनीयमिति न निर्बन्धः । तथापि कर्तुं शक्यत इत्यभिप्रायेण तथोक्तमित्यनुसन्धेयम् ।।

पाण्डुरङ्गि

आदित्येऽनुक्तलिङ्गमप्यन्यथासिद्धमित्याह ।। सर्वपदेनेति ।। सर्वपदेन तद्ग्रहणे बाधिकाया आदित्यस्य सर्वगतताया अभावादित्यर्थः । सर्वेषु भूतेष्वित्यल्पौकस्त्वमुच्यते । भूतादन्यत्राभावप्रतीतेः । अन्यथा भूतपदवैयर्थ्यं स्यात् । तस्मात्सर्वपदेनादित्यग्रहणमयुक्तमित्यत आह ।। भूतपदस्येति ।। एवं परपक्षे साधकानि निराकृत्य परपक्षे बाधकत्वेनोक्तस्य ब्रह्मश्रुत्यादेः परशङ्कितसावकाशत्वमपाकरोति ।। उक्तरीत्येत्यादिना ।। यदुक्तमेतमेवेत्यवधारणेन विष्णोरन्यस्यैव सर्वगतत्वाद्विष्णोर्भूतादन्यत्र सत्त्वेपि सर्वगतत्वायोग इत्यादि तदपि निराह ।। ब्रह्मशब्दस्येति ।। एवं प्रथमसूत्रोक्तहेतुमुक्त्वा शब्दविशेषादित्यनेन सूचितां युक्तिमाह ।। भाष्योक्तेति ।। एष उ एवेत्यादिश्रुत्यादौ यद्यपि प्रथमसूत्रोक्तयुक्त्यनन्तरं द्वितीयसूत्रोक्तयुक्तिरेव सङ्गता । तथापि शब्दविशेषादित्यस्य प्रथमसूत्रोक्तब्रह्मशब्दोपदेशरूपयुक्त्युपोद्बलकत्वमेव । न तु स्वतंत्रयुक्तित्वमिति तदानन्तर्यम् । वक्ष्यते चैतत् । द्वितीयसूत्रोक्तं हेतुमाह ।। अश्रुतत्वादेश्चेति ।। तृतीयसूत्रोक्तं हेतुमाह ।। अणोरिति ।। तुष्यतु दुर्जन इति न्यायेनाह ।। योगेवेति ।। सामर्थ्यविशेषादित्यनेनोक्तं हेतुमाह ।। ईश्वरस्येति ।। कर्मकर्तृव्यपदेशाच्चेत्यनेनोक्तं बाधकमाह ।। आत्मानं वेदेत्यादि ।। अत्र प्राणो वंश इति स्थविरःशाकल्यः अथ कौण्ठरव्यस्त्रीणीत्यादि खण्डद्वयस्थमात्मानं वेदेति वाक्यं तथाऽऽत्मानं परस्मै शंसतीति चत्वारः पुरुषा इत्येतत्खण्डस्थं तथा यस्तित्याजेति दुग्धदोहा इत्येतत्खण्डस्थं वाक्यमुदाहरता इदं सर्वमेकप्रकरणमिति सूचितं भवति । स्मृतेश्चेति सूत्रोक्तं हेतुमाह ।। अहमात्मेति ।। नन्वनुव्याख्याने प्रकारान्तरेण पूर्वपक्षसिद्धान्तावुक्तौ तदयुक्तम् । उत्सूत्रितत्वादित्यतस्तत्सूत्रारूढं कर्तुमाह ।। अनुव्याख्यानेत्विति ।।