केचित्तु
तात्पर्यचन्द्रिका
केचित्तु ।। अदृश्यत्वादिगुणकत्वं प्रधानस्य अक्षरात्परतः परत्वं तु जीवस्येति प्राप्ते द्वयमपि परमात्मन इति सिद्धान्त इत्याहुः । तन्न ।
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ।
इत्यमूर्तत्वव्याप्तत्वाप्राणत्वादिविशिष्टत्वेन श्रुतेऽक्षरात्परतः परे जीवत्वशङ्कानुदयादिति ।। टीकाक्षरार्थस्तु ।। पृथिव्यादिदृष्टान्तेनेति ।। श्रुतावूर्णनाभिदृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इत्यनेन कर्तृत्वप्रतीतेः पृथिव्यादीत्युक्तम् ।। सामानाधिकरण्येनेति ।। चित्प्रकृतेरुत्तमादुत्तमस्याभावेनाक्षरात्परत इति पञ्चम्योर्वैयधिकरण्यायोगादिति भावः ।। उक्तार्थे हेतुतयेति ।। तपसा चीयत इत्यत्रालोचनार्थेन तपःशब्देनाज्ञानप्रतीतौ तन्निरासाय ‘‘यस्य ज्ञानमयं तप’’ इत्यनेनोक्ते पूर्णज्ञानत्वे हेतुतया सार्वज्ञोक्तेरित्यर्थः ।। सूत्रखण्डस्यार्थान्तरमाहेति ।। सूत्रे विशेषणशब्दस्य न केवलं सर्वज्ञत्वविशेषणादित्येवार्थः । किन्तु परतः परत्वविशेषणादित्यप्यर्थः । एवं भेदशब्दस्य हिरण्यगर्भाद्रुद्राद्वा भेदमात्रं नार्थः । किं त्वक्षरव्यक्तीनां भेदोऽपि । तथा चाक्षराणां भेदव्यपदेशादक्षरात्परतः परत्वमक्षरस्यैव विशेषणमित्यपि सूत्रयोजनेति भाष्यार्थ इत्यर्थः । ‘‘इत्युक्त्वा प्रतीयत’’ इति भाष्ये क्रिययोः समानकर्तृकत्वाभावेऽपि क्त्वाप्रत्ययो ‘‘यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यत’’ इतिवद्द्रष्टव्यः ।।
प्रकाशिका
।। केचित्त्विति ।। अत्र ‘‘अथ परे’’त्यादिवाक्ये प्रधानपुरुषौ प्रतिपाद्येते उत परमात्मैवेति संशये यत्तदद्रेश्यमित्यादिना पृथिव्याद्यचेतनगतदृश्यत्वादीनां प्रतिषेधात्तज्जातीयमचेतनं प्रधानमेवादृश्यत्वादिगुणकं भूतयोन्यक्षरम् । अक्षरात्परतः पर इति तु तस्याधिष्ठाता पुरुष एवेति तावेवात्र प्रतिपाद्याविति प्राप्ते प्रधानपुरुषयोरसम्भावितस्य सार्वज्ञादिधर्मस्योक्तेः फलाभिसन्धिरहितकर्माराध्यत्वपरापरविद्याविषयत्वादिना विशेष्यमाणत्वात् अक्षरादव्याकृताद्भूतसूक्ष्मात्परतस्समष्टिपुरुषात्पर इति भेदव्यपदेशात् ‘‘अग्निर्मूर्धे’’त्यादिना जगद्रूपोपन्यासाच्च न प्रधानजीवावत्रोच्येते । किन्तु परमात्मैवेत्याहुरित्यर्थः । तदुक्तं–
दृश्यत्वादेर्निषेधो विकृतिमति भवत्यक्षरे सन्निकर्षात् ।
पञ्चम्युक्ताक्षरं यत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत् ।।
सर्वज्ञत्वादिदृष्टेः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धम् ।
पश्चादुक्तं तु जीवादिकमवधितया भेदतस्तत्परोक्तेः ।। इति ।। जीवत्वशङ्केति ।। उपलक्षणमेतत् । मन्मतरीत्या निरवकाशोपादानत्वादिना पूर्वपक्षसम्भवे सावकाशदृश्यत्वादिनिषेधेन नियमेनाचेतनोपस्थित्ययोगात् । अवर्णमचक्षुश्श्रोत्रमित्यादिना चेतनधर्मब्राह्मणत्वादिवर्णचक्षुरादिकरणनिषेधेनेह भूतयोनिश्चेतन इत्यपि वक्तुं शक्यत्वेन तेन प्रधानमात्रपूर्वपक्षायोगात् । द्वितीयसूत्रेऽक्षरव्यक्तीनां भेदव्यपदेशासिद्धेः तेन प्रकृतिनिरासस्य क्लिष्टत्वादित्यपि ज्ञेयम् । यत्तु कश्चिदाह अदृश्यत्वादिगुणकं प्रधानं जीवो वा शिवो वेति विशये महदादिपरिणामिनो भूतयोनित्वसम्भवात्प्रधानमक्षरम् । ‘‘प्रधानममृताक्षर’’मिति श्वेताश्वतरश्रुतावमृतशब्दिते जीवेऽक्षरपदप्रयोगाज्जीवो वेति प्राप्ते सार्वज्ञादितद्धर्मोक्तेश्शिव एवेति , तन्न । ‘‘नारायणाद्ब्रह्मा जायते’’नारायणाद्रुद्रो जायते, रुद्रस्य शिर उत्पिपेष न यस्येंद्रो वरुणो न मित्रो व्रतमर्यमा न मिनंति रुद्र’’ इत्यादिना जननमरणाज्ञानादिमति रुद्रे मुख्यसार्वज्ञायोगात् । ‘‘तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया । अथ परा । यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा । ऋगाद्या अपरा विद्ये’’त्यादि वचनसिद्धपरविद्याविषयत्वरूपविष्णुलिङ्गविरोधेन शिव इति सिद्धान्तस्यानुदयात् । अन्यमिति प्रसिद्धेशशब्दिताद्रुद्रादस्य भूतयोन्यक्षरस्य भेदोक्तेश्च । ‘‘तामक्षरं परं प्राहुः परतः परमक्षरम् । हरिमेवे’’त्यादिस्मृतिविरोधाच्च । आथर्वणभाष्योदाहृतानेकवचन विरोधाच्चेत्यादि ध्येयम् ।
‘‘यथोर्णनाभिस्सृजते गृह्णते चे’’ति श्रवणादूर्णनाभ्यादिदृष्टान्ते नेति वाच्ये पृथिवीत्याद्युक्तिष्टीकायां न युक्तेत्याशङ्क्याह ।। श्रुताविति ।। ‘‘ऊर्णनाभिपृथिव्यादिदृष्टान्तेनाक्षरस्य जगदुपादानत्वमुक्त्वे’’ति तत्वप्रदीपवाक्यं त्वतद्गुणसंविज्ञानाश्रयेण वा ऊर्णनाभिदेहस्योपादानत्वाभिप्रायेण वा कथञ्चिन्नेयमिति भावः । ‘‘तच्च तस्यामक्षरात्परतः पर इति सामानाधिकरण्येनोपपन्न’’मिति वाक्यं सामानाधिकरण्ये हेतूक्तया व्यनक्ति ।। चित्प्रकृतेरिति ।। द्वितीयसूत्रे ‘‘तपसा चीयते ब्रह्मेत्यत्राज्ञानप्रतीतौ तन्निरासाय यस्य ज्ञानमयं तप इत्युक्तार्थे हेतुतयाऽदृश्यत्वादिगुणकस्य सार्वज्ञविशेषणोक्ते’’रिति वाक्यं व्यनक्ति ।। तपसेति ।। तपसा सम्बध्यते ब्रह्मकर्तृ । अतपदिति फलितोऽर्थः । अर्थान्तरं विशदयति ।। सूत्रेति ।। पूर्वपक्षभाष्येऽनुपपत्तिं समाधत्ते ।। इत्युक्त्वेति ।। तत्र यथा वर्तमान इत्याद्यध्याहारस्तथाऽत्रापि इत्युक्त्वा इति श्रुते वाक्य इति वा इत्यभिधानात्परः प्रतीयत इति वाऽध्याहारेण योज्यमिति भावः ।।
चन्द्रिकाबिन्दुः
शङ्कानुदयं दर्शयितुमव्यवहितोत्तरवाक्यं पठति ।। दिव्यो ह्यमूर्त इति ।। कर्तृत्वप्रतीतेरिति ।। सर्जनक्रियाश्रयस्य कर्तृत्वादित्यभिप्रायः ।। समानकर्तृकत्वाभावेऽपीति ।। उक्तिः कर्तृवाक्यं प्रत्येता च पुरुष इति उक्तिप्रतीतिकर्तृ भेदोऽनुसन्धेयः ।। यदोर्वंशमिति ।। अत्र श्रवणकर्ता पुरुषः ‘पापानि एनं’ मुञ्चन्तीति मोचनकर्तृत्वं पापानामिति भेदः । अत्र स्थित इत्यादिपदाध्याहारेण वा मोचनकर्मण्येव पुरुषस्य कर्मकर्तृत्वविवक्षया समाधानमत्रापि सममिति भावः ।
पाण्डुरङ्गि
इति भाष्यार्थ इत्यर्थ इति ।। न चैवं टीकागतसूत्रखण्डस्येति खण्डशब्दो व्यर्थः । नेतरावित्यस्य व्याख्यातत्वेन व्यावर्त्यत्वोपपत्तेरिति ज्ञेयम् । नन्वित्युक्त्वा प्रतीयत इति वचनं प्रति श्रुतेः कर्तृत्वात्प्रतीतिं प्रति पुरुषस्य कर्तृत्वेन समानकतृत्वाभावात् क्त्वाप्रत्ययानुपपत्तिरित्यत आह ।। इत्युक्त्वेति ।। श्रवणं प्रति पुरुषस्य मोचनं प्रति च पापानां कर्तृत्वेन समानकर्तृत्वाभावेन क्त्वाप्रत्ययानुपपत्तिः । यदि च तत्र श्रुत्वा स्थित इति शेषपूरणेन समानकर्तृत्वं तर्हि प्रकृतेऽपि विचार्यमाण इति शेषपूरणेन समानकर्तृत्वमित्यभिप्रायः ।।
।। इति अदृश्यत्वाधिकरणम् ।। ६ ।।