नन्वत्र ‘‘प्राणो वा आशाया’’ इत्यत्र ..
प्राणशब्दार्थविषये भाष्यन्यायविवरणयो: आशयनिरूपणम्
तात्पर्यचन्द्रिका
नन्वत्र ‘‘प्राणो वा आशाया’’ इत्यत्र प्राणो विष्णुरित्युपेत्य भाष्ये सिद्धान्तितम् । न्यायविवरणे तु मुख्यवायुरित्युपेत्य । तद्विरुद्धम् । न चार्थद्वयस्य वैकल्पिकत्वादेवाविरोधः । प्राणस्य विष्णुत्वपक्षे ‘‘एष तु वा अतिवदती’’ति तुशब्दायोगात् । आशाशब्दोक्तसरस्वतीतो मुख्यवायोरुत्तमत्वमनुक्त्वा विष्णोरेव तदुक्तययोगाच्च । न च प्राणस्य मुख्यवायुत्वेऽपि श्रीतत्त्वस्य तत उत्तमत्वमनुक्त्वा विष्णोस्तदुक्तिरयुक्तेति वाच्यम् ।
नामादयस्तु बद्धत्वान्मोचकत्वात्परोऽपि च ।
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ।।
इति वचनेनैव तदनुक्तेर्गत्युक्तेः । ‘‘इयदामनना’’दित्याद्यधिकरणैश्छान्दोग्यभाष्येण च विरोधाच्च । तत्र नित्यवद्वायुपरताया उक्तत्वादिति चेन्न । वायुपरत्वेऽपि ‘‘आत्मन आकाशः सम्भूत’’ इत्यादावाकाशादिशब्दानामिवान्तर्यामिपरत्वस्यापि सम्भवेन भाष्ये तदुक्तेः । तदुक्तिश्च पूर्वपक्षवन्न केवलं वायुपरत्वमिति स्वरूपकीर्तनार्थं वा प्राणान्तर्यामित्वेनैव प्राणाद्भूयस्त्वं लब्धमिति परिहारान्तरोक्तयर्थं वा सम्भूत इत्यत्र च भवनवदिहोत्क्रमणस्यापि वक्तव्यत्वेन प्रसङ्गादुत्क्रमणलिङ्गसमन्वयार्थं वेति द्रष्टव्यम् । अत एव टीकायां ‘‘प्राणशब्देनापि विष्णोरुक्तत्वात् । अस्तु वाऽयं प्राणो वायु’’रिति ग्रन्थाभ्यां भाष्यन्यायविवरणोक्तपक्षौ विरोधमुद्घाट्य निरसितुमापाततो वैकल्पिकत्वेनोक्त्वा ‘‘न चैतदर्थद्वयं विरुद्ध’’मित्यनेन ग्रन्थेन तयोः समुच्चयेनाविरोध एव स्थापितः ।
प्रकाशिका
अत्र टीकायां भाष्योक्तं प्राणभूम्नोरुभयोरपि विष्णुत्वमुत्क्रमणलिङ्गं च समर्थ्याभेदपक्षमेव प्रतिष्ठाय ‘‘अस्तु वायं प्राणो वायुरेवे’’ति भेदपक्षमपि भाष्यानुक्तमुक्त्वो-पपाद्याभेदभेदपक्षायोरविरोधश्चोक्तः । अत्र भेदपक्षोक्तिस्समुच्चयेनाविरोधोक्तिश्च किंमूला किन्निमित्ता चेत्यतस्तदाशयं विवरितुमभेदपक्षमाक्षिपति ।। नन्विति ।। प्राणो विष्णुरित्युपेत्येति ।। उत्क्रमणलिङ्गस्य हरौ समर्थनादेतदवगम्यत इति भावः । ननु ऋगादीनां परापरार्थद्वयवदिहापि विवक्षाभेदेन कदाचिदयं कदाचित्सोऽप्यर्थोऽस्तु को दोषः । अत एवान्यमीशमित्यस्यादृश्यत्वनयेऽन्योऽर्थो द्युभ्वादिनयेऽन्योर्थ उक्त इत्यत आह ।। न चेति ।। प्राणभूम्नोर्भेदपक्षेऽपि दोषमाशङ्क्य निराह ।। न चेति ।। वचनेनेति ।। तृतीये ‘‘कामादितरत्र तत्र चायतनादिभ्य’’ इत्यत्र भाष्योक्तब्रह्मतर्कवचनेनेत्यर्थः । तत्र यथेत्यस्य ‘‘श्रुतौ तथा जीवपरावुच्येते किञ्चनेतर’’दित्युत्तरार्धेनान्वयः । वैकल्पिकार्थद्वयपक्षे बाधकान्तरमाह ।। इयदिति ।। आदिपदेन ‘‘व्यतिहारः सैव ही’’त्यनयोर्ग्रहः । इयदामननादित्युपासनापादीयैकविंशाधिकरणे ह्युपासनाधिकारिणो नाम वागादयः प्राणावसाना न वेति संशये नामादीनां सोत्तरत्वदर्शनात्प्राणादप्युत्तमाधिकारिसाधनसौलभ्यान्नामादयोऽधिकारिणो न प्राणावसाना इति प्राप्ते ‘‘प्राणो वाव सर्वेभ्यो भूया’’निति श्रुतेरधिकारिणां इयत् छान्दोग्योक्तं प्राणावसायित्वमेवेति वक्ष्यमाणत्वादिति भावः ।
तस्याः श्रेष्ठो मुख्यवायुः प्रकृष्टानां च नायकः ।
प्राणनामा ण इत्येव ह्यानन्दस्समुदीरितः ।
आणा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः ।
प्राण इत्युच्यते वायुस्सर्वे त्वेते दशोत्तरा ।।
इत्यादिछान्दोग्यभाष्येणेत्यर्थः । नित्यवदिति स्वार्थे वतिः । यद्वा व्यवस्थितैकार्थकेवाक्ये ‘‘यतो वा इमानि भूतानि जायन्त’’ इत्यादौ यथोक्तिस्तथेत्यर्थः । इतरथा वायुर्वेति वाशब्दश्श्रूयेतेति भावः । अभेदपक्षोक्तेः फलमाह ।। तदुक्तिश्चेति ।। उक्तं सर्वं टीकायास्तात्पर्य वर्णनमिति भावेन तदारूढं करोति ।। अत एवेति ।।
पाण्डुरङ्गि
नित्यवदिति स्वार्थिको वतिः । नित्यमेवेत्यर्थः । ननु भाष्ये प्राणशब्दस्य विष्णुवाचकत्वं कुत उक्तमित्यत आह ।। तदुक्तिश्चेति ।। ननु स्वरूपकीर्तनार्थत्वं वैयर्थ्यापरपर्याय एवेत्यत आह ।। प्राणान्तर्यामित्वेनवेति ।। ननु प्राणशब्दस्य विष्णुपरत्वाभावेऽपि प्रकरणविच्छेदकतुशब्दमहिम्ना प्राणाद्विष्णोर्भूयस्त्वोक्तिर्लभ्यत एवेति किमर्थं प्राणस्य विष्णुत्ववचनमित्यत आह ।। सम्भूत इत्यत्रेति ।। प्राणस्य विष्णुत्वानुक्तौ नोत्क्रमणादिलिङ्गसमन्वयः । उत्क्रमणादेः प्राणनिष्ठत्वश्रवणेऽपि भूमनिष्ठत्वेनाश्रवणादिति भावः ।