अत्र ‘‘य एषोंऽतरक्षिणि पुरुषो दृश्यत एष आत्मेति..
अन्तरधिकरणम्
तात्पर्यचन्द्रिका
संगतिनिरूपणपूर्वकम् विषयचिन्ताक्रम:
।। ॐ अन्तर उपपत्तेः ॐ ।।
अत्र ‘‘य एषोंऽतरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मे’’त्युक्तस्य चक्षुरन्तस्स्थस्याभयस्याग्नित्वात् ‘‘अभयं तितीर्षतां पार’’मिति पूर्वोक्ताभयोऽप्यग्नि र्न तु विष्णुरिति पूर्वपक्षोत्थानादनन्तरसङ्गतिः । अत्र चक्षुरन्तस्स्थोऽग्निर्विष्णुर्वेति चिन्ता । तदर्थमन्तस्स्थे श्रुतममृतत्वादिकं किं गौणं किं वा मुख्यमिति । तदर्थं ‘‘य एष आदित्ये पुरुषः सोहमस्मी’’त्यक्ष्यभिन्नादित्यस्थपुरुषे प्रयुक्तोऽहंशब्दः किमग्निपरः किं वा ब्रह्मपर इति । तदर्थं ब्रह्मपरत्वे ‘‘अस्मद्विद्यात्मविद्या चे’’त्युक्तो विद्याभेदो न घटत उत घटत इति ।
प्रकाशिका
भाष्यदिशाऽऽनन्दमयनयेन सङ्गतिप्रतीतेः पूर्वेण तामाह अत्रेति ।। पूर्वोक्तेति ।। विशेषणाच्चेति सूत्रोक्तेत्यर्थः । सङ्गतिराक्षेपिकी भाष्यं तु फलपरं वा येन केनचित्पूर्वेण सङ्गतिर्वाच्या न त्वव्यवहितेनेति निर्बन्ध इत्याशयं वाऽऽदित्यान्तस्स्थितत्वलिङ्गस्यापि समन्वयाशयं वा नेयमिति भावः । नन्वस्याभयस्याग्नित्वे प्राक्तनस्यापि कुतस्तत्वं अभ्यासार्थवादसहिताग्निश्रुतिबाहुल्यरूपविशेषहेतोरत्रेव तत्राभावात् न हीन्द्रस्यात्मेत्यत्रेन्द्रस्यान्यत्वे इन्द्रो राजेत्यत्रापि अन्यत्वं प्रत्युत तत्रोक्तलिङ्गैस्तस्य विष्णुधर्मत्वाध्यवसायेनात्रापि तेन विष्णुत्वस्यैव निर्णयोपपत्तेरिति चेन्मैवम् । अभयत्वमन्यतो भयशून्यत्वम् । तच्च स्वतन्त्रस्यैव । नत्वन्यनियतस्य । तथा चात्राभयत्वमग्नेरवश्यमिति स्वतन्त्रवस्तुद्वयायोगात् प्राक्तनमप्यभयत्वं तस्यैवेति तद्बलेनेतरदपि कथञ्चिन्नेयम् । एकेनापि निरवकाशेन बहूनां बाधसम्भवाद्गुहाविष्टत्वस्याग्नावप्युपपत्तेः । ब्रह्मत्वस्यात्रेव तत्रापि नेतुं शक्यत्वात् । अमृतत्वं तस्मिन् शङ्कमानेनाक्षरत्वादेरपि तत्रैव शङ्कितुं शक्यत्वात् । अस्याभयत्वस्याक्षेपेण तेन विष्णुत्वशङ्कानवकाशादिति तात्पर्यात् । एवं फलपरभाष्यसमर्थनमपि ध्येयम् । विषयटीकां व्यनक्ति ।। अत्रेति ।। छान्दोग्ये चतुर्थेऽध्याये ‘‘उपकोसलो ह वै कामलायनः सत्यकामेजाबाले ब्रह्मचर्यमुवास । तस्य ह द्वादशवर्षाण्यग्नीन्परिचचार । सहस्मान्यानन्तेवासिनस्समावर्तयंस्तं हस्मैव न समावर्तयति ।। तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीत् । मात्वाग्नयः परिप्रावोचन् । प्रब्रूह्यस्मा इति तस्मैहाप्रोच्यैव प्रवासांचक्रे । सहव्याधिनाऽनशितुं दध्रे । तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति । सहोवाच बहव इमेऽस्मिन्पुरुषे कामानानात्ययाव्याधिभिः परिपूर्णोस्मि नाशिष्यामीति । अथ हाग्नयस्समूदिरे तप्तो ब्रह्मचारी कुशलं नः परिचचारीद्धन्तास्मै प्रब्रूमेति । तस्मैहोचुः । प्राणो ब्रह्मकं ब्रह्मखं ब्रह्मे’’त्याद्युपक्रम्य सम्भूतोपदेशानन्तरं ‘‘अथ हैनं गार्हपत्योनुशशास पृथिव्यग्निरन्नमादित्य इति । य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति । स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेति जोग्जीवति नास्यापरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिन्लोकेऽमुष्मिंश्च य एतमेवं विद्वानुपास्त’’ इत्यादिना गार्हपत्यान्वाहार्यपचनाहवनीयरूपत्रेताग्नीनामादित्यचन्द्रविद्युद्गतस्य स्वात्मत योऽपदेशमुक्त्वा ‘‘ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या चेत्युपसंहृत्याम्नायते ‘‘य एषोंऽतरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मैतस्मिन्न किं च न श्लिष्यति तद्यदप्यस्मिन्सर्पिर्वोदकं वा सिंचति वर्त्मनी एव गच्छति । एतं संयद्वाम इत्युपासीत एतं सर्वाणि वामान्यभिसंयंति य एवं वेद । एष उ एव वामनिरेष हि सर्वाणि वामानि नयति य एवं वेद । एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति य एवं वेद । अथ यदुचैवास्मिंश्छव्यं कर्म कुर्वन्ति यदुचनार्चिषमेवाभिसम्भवन्त्यर्चिषोह रह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः । स एनान्ब्रह्म गमयती’’त्यादि । तत्रत्यश्चक्षुरन्तस्स्थो विषय इत्यर्थः । अत्राक्षिस्थ इति वक्तव्ये चक्षुरित्युक्तिरादित्याभेदस्फोरणाय । आदित्यश्चक्षुर्भूत्वेत्यादेः । अत्राक्षिपदोक्तं चक्षुः प्राचां मतरीत्या देवतारूपम् । टीकारीत्या जडरूपमिति ज्ञेयम् । मुख्यमिति चिन्तानन्तरं किं बाधकमस्त्युत नेति चिन्ता स्पष्टेति नोक्ता ।। अक्ष्यभिन्नेति ।। वक्ष्यमाणदिशेति भावः । एतच्च हेतुहेतुमद्भावघटनाय । अन्यथाऽऽदित्यस्थ पुरुषे प्रयुक्ताहंशब्दस्याग्निपरत्वेऽप्यक्षिस्थस्याग्नित्वानापत्तेः ।। विद्येति ।। ‘‘उपकोसलैषा सोम्यास्मद्विद्याऽऽत्मविद्या चे’’त्युक्तविद्याभेद इत्यर्थः । उपलक्षणमेतत् । सावधारणाभ्यासोर्थवादश्चेत्यपि ध्येयम् । यदा विद्याभेदो न युक्तस्तदा कं ब्रह्मेत्याद्यात्मविद्या । य एषोऽन्तरादित्य इति विद्या त्वस्मद्विद्येति वाच्यत्वादादित्यस्थपुरुषे प्रयुक्ताहंशब्दस्याग्नि परत्वाद्बाधकात्तदभिन्नाक्षिस्थे श्रुतामृतत्वादिकं गौणमित्यग्निश्रुत्यादि बलादग्निरेव चक्षुरन्तस्स्थ इति पूर्वपक्षे फलम् । यदा तु घटते तदाहंशब्दस्य शास्त्रदृष्ट्या ब्रह्मपरत्वसम्भवाद्बाधकाभावेनामृतत्वादिकं मुख्यमेवेति तद्बलाद्विष्णुरिति सिद्धान्ते फलमिति स्पष्टमिति भावः । नन्वत्र वक्ष्यमाणदिशा टीकादिरीत्या चादित्यवाक्येऽग्निप्रयुक्ताहंशब्दसावधारणाभ्यासार्थवादविद्याभेदानां भावेन तद्बलात्तस्याग्निपरत्वं निर्धार्याक्षिवाक्यस्याप्येतदनुसारेणाग्निपरत्वमुच्यते पूर्वपक्षे । न त्वक्षिवाक्यस्थप्रापकबलेन । तत्र तदभावात् । तथा चादित्यवाक्यमेवोदाहृत्यादित्यान्तस्स्थः किमग्निर्विष्णुर्वेति चिन्ता । तदर्थं सोऽहमित्यग्निप्रयुक्तोऽहंशब्दोऽग्निपरो विष्णुपरो वेति । तदर्थं तस्य विष्णुपरत्वे सोऽहमस्मि स एवाहमस्मीत्यादिसावधारणाभ्यासार्थवादविद्याभेदोक्तयो न युज्यन्ते युज्यन्ते वेति चिन्तनीयम् । यदि न युज्यन्ते तदाग्नेरेवादित्यस्थत्वमन्यथा तु विष्णोरिति फलिष्यति । आदित्यस्थत्वेनोक्तानन्दमयाक्षेपश्च ऋजुर्भवति । आदित्यस्थस्य विष्णुत्वे चार्थादक्षिस्थोऽपि स एवेति सिध्यति । तथा च सूत्रेऽक्षिवाक्योपादानाय तत्रत्यात्मशब्दार्थोक्तिपररशब्दोऽपि व्यर्थ इत्यन्तरित्येव सूत्रं स्यात् । अन्तर इत्यपि न वक्तव्यमिति लाघवम् । स्थानादिसूत्रं च न कर्तव्यं स्यादिति चेन्मैवम् । बलवद्विष्णुश्रुतिलिङ्गादि बलेनादित्यस्थस्य विष्णुत्वे निर्णीते सत्येवाहंशब्दादेश्शास्त्रदृष्ट्यादिना विष्णौ घटनाया वर्णनीयत्वात् विष्णुश्रुत्यादेश्चाक्षिवाक्य एव भावेनादित्यवाक्ये विष्णुपरत्वावधारणस्याक्षिस्थस्य विष्णुत्वनिर्णयाधीनत्वेनाक्षिवाक्यस्यैवोदाहर्तव्यत्वात् । न च सुखविशिष्टेत्युक्तेन कं ब्रह्मेति ब्रह्मप्रकरणेनादित्यस्थस्य विष्णुत्वनिर्णयोऽस्त्विति शङ्क्यम् । तस्याग्निप्रयुक्ताहंश्रुत्यादिनाविच्छेदस्य पूर्वपक्षिणा चोद्यमानत्वात् । न च श्रुतोपनिषदिति सूत्रोक्तोपसंहारस्थब्रह्मलिङ्गबलेन प्रकरणाविच्छेदस्सुज्ञान इत्यतः ‘‘सुखविशिष्टाभिधानादेव च, श्रुतोपनिषत्कगत्यभिधानाच्चे’’त्येव पूर्यत इति वाच्यम् । तावता बलवद्विष्णुश्रुतिलिङ्गानामनुपदर्शनेन प्रकरणमात्रेणाहंशब्दाभ्यासादेर्बाधायोगाद्यथान्यासमेवानवद्यम् । अत एवामृतत्वादिकं किं गौणमित्यादिचिन्तोपदर्शिता । यद्यप्यमृतत्वादेर्मुख्यत्वेऽपि न पूर्वपक्षिणः क्षतिः । तादृशस्यापि तेनाग्नौ शङ्क्यमानत्वात् । तथापि वास्तवाभिप्रायेण गौणं मुख्यमिति कोटिप्रदर्शनम् । मुख्यसम्भवस्याभिमानमात्रत्वात् ।
चन्द्रिकाबिन्दुः
चक्षुरन्तस्थोऽग्निरेवेति ।। य एष इति वाक्यस्थाक्षिशब्दस्य चक्षुर्देवतापरत्वेनापि वक्ष्यमाणत्वात् चक्षुरन्तस्थ इत्यादिव्यवहारोऽन्यथासिद्ध इति ब्रूयात् ।
पाण्डुरङ्गि
ब्रह्मजिज्ञासा कर्तव्येत्युक्तमित्यानन्दमयाधिकरणभाष्यवदादित्ये विष्णुरित्येतदधिकरणीय भाष्यमपि विचारसाफल्यमात्रपरं न तु सङ्गतिपरमित्यभिप्रेत्य स्वयमवान्तरसङ्गतिमाह ।। अत्रेति ।।