अत्र लौकिकार्थविषयाऽऽप्तवाक्यरूपस्मृत्यविरोध उच्यते
अस्याधिकरणस्य आद्यपादनिवेशनस्य समर्थनम्
तात्पर्यचन्द्रिका
।। ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ।।
अत्र लौकिकार्थविषयाऽऽप्तवाक्यरूपस्मृत्यविरोध उच्यते । न च स्मृत्यविरोधस्य युक्तिपादे कथं निवेश इति वाच्यम् । पाशुपतादिस्मृतीनां समयरूपत्वेन स्वोक्तार्थे संमतित्वेन श्रुतियुक्तिकथनेन च चतुःस्वरूपत्वात्तदविरोधस्यैकैकाविरोधप्रतिपादके पादविशेषेऽनन्तर्भावेऽप्यविरोधाध्यायान्तर्भावेणाध्यायस्यादावन्ते वा निवेशने कर्तव्ये प्रथमातिक्रमे हेत्वभावाच्चतुरात्मकत्वेन प्रबलतया प्रथमं निरसनीयत्वाच्चाध्यायादावेव निवेशनात् । तदाह टीकाकारः ‘‘प्राथम्योपपत्ते’’रिति । अभ्युपेत्य चेदमुक्तम् । वस्तुतस्तु । चतुःस्वरूपत्वादस्य चतुर्ष्वपि पादेष्वन्तर्भावसंभवादुक्तहेतुभ्यां प्रबलत्वाच्चाद्यपादस्यादौ निवेशः । तदाह । ‘‘पादार्थस्याप्यत्र संभवेने’’ति ।।
इतः परं पूर्वपक्षादिकं न पृथगुच्यते ।
ग्रन्थगौरवभीत्या च टीकादौ च स्फुटत्वतः ।। १ ।।
अत्र पूर्वाध्यायोक्ते विष्णोः कारणत्वादौ श्रुतिसमन्वयो न युक्तो युक्तो वेति चिन्ता । तदर्थं किं पाशुपतादिश्रुत्यनुसारेण श्रुतिर्नेयोत नेति । तदर्थं किं स्मृतिः प्रबलोत नेति ।
प्रकाशिका
स्मृत्यनवकाशेति ।। अत्रान्यैः कैश्चिच्च कापिलस्मृत्यविरोध उच्यत इत्युक्तम् । तत्तु वक्ष्यमाणदिशा न युक्तमिति भावेन ‘‘प्रथमतस्स्मृत्यविरोधं दर्शयती’’ति भाष्योक्तमधिकरणार्थमाह ।। अत्रेति ।। कृत्स्नावैदिकस्मृत्यविरोधोऽत्र साध्यत इत्यर्थः । यद्वा टीकायां ‘‘पाशुपतादिस्मृतिविरोधाभावं दर्शयती’’त्युक्तमयुक्तमिव । शास्त्रयोनिसूत्र एव तदप्रामाण्यस्योक्तत्वादित्यत आह ।। लौकिकेति ।। तथा च दृष्टफलेष्वेव संवादादिनाप्रामाण्यमिति प्राप्ते तत्रैव व्यभिचारव्युत्पादनेन तदविरोधोऽत्रोच्यते । तत्र तु तदंशे प्रामाण्यमुपेत्य कारणत्वाद्यंश एवाप्रामाण्यमुच्यत इत्युक्तं भवति । अथवा श्रुतिविरुद्धस्मृतीनां पूर्वतन्त्रे ‘‘विरोधे त्वनपेक्षं स्या’’दिति विरोधाधिकरण एवाप्रामाण्यव्युत्पादनात्कथमत्र प्राक्समन्वितश्रुतिप्रामाण्याय स्मृत्यविरोध उच्यत इत्यत उक्तमाप्तवाक्यरूपेति । तत्र श्रुतिमूलत्वेनैव प्रामाण्याङ्गीकारात्तत्र तथात्वेऽपि नेह तथेति वक्ष्यत इति भावः । नन्वलौकिके कारणत्वादौ कथमाप्तत्वम् । संवादाभावादित्यत उक्तं लौकिकार्थेति ।। ‘‘स्मृतीनां युक्तिसमयादिरूपत्वेने’’त्यादिटीकां ‘‘तस्याश्चतुस्स्वरूपत्वा’’दित्यनुव्याख्या नानुसारेण शङ्कापूर्वं विवृणोति ।। न चेति ।। श्रुतीति ।। तत्प्रामाण्यवादिस्मृत्यपेक्षयेदम् । सुधोक्तं हेतुमुक्त्वा ‘‘प्रधानमल्लनिबर्हणन्यायेने’’ति सन्न्यायरत्नावल्युक्तमाह ।। चतुरात्मकत्वेनेति ।। ‘‘पादार्थस्याप्यत्र सम्भवेने’’त्युत्तरटीकावाक्यं विवृणोति ।। अभ्युपेत्येति ।। एतदर्थद्वयं सुधायां स्पष्टमुक्तमिति भावः ।
शास्त्रादिसङ्गत्युक्तिपरटीका विवृतप्रायेति भावेन विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। कारणत्वादावित्यादिपदेन सार्वज्ञसर्वैश्वर्याद्यनन्तगुणत्वग्रहः । तेन चिन्तायास्तत्सिद्धिरेव फलमित्युक्तं भवति । उक्तः समन्वय इति शेषः । सिद्धान्त्यभिमतसमन्वयस्यैवाक्षेप्यत्वाद्विशिष्टसमन्वयस्य विषयतोपदर्शिता । तेन टीकापि समन्वयपर्यंतपरा व्याख्येयेति सूचितम् ।। श्रुतिर्नेयेति ।। श्रुतिगतोपक्रमादिकं नेयमित्यर्थः । तेनोपक्रमादिभिरेव श्रुतिर्नेया । न तु पाशुपतादिस्मृत्यनुरोधेनेत्यर्थस्य समन्वयसूत्र एव सिद्धत्वान्नेह पुनर्विचार्यतेति प्रत्युक्तम् । वक्ष्यते चैतद्ग्रन्थकृतैव । यद्यप्यत्र स्मृतिविरोधाच्छतिरप्रमाणमुत नेति चिन्तायां न काचिदनुपपत्तिः । न च तत्प्रामाण्यवादिमत एवं वक्तुं न शक्यमिति वाच्यम् । विवक्षितार्थत्वेन प्रमाणमिति वक्तुं शक्यत्वात् । अन्यथा तदप्रामाण्यवादिमते श्रुतिर्नेयेत्यस्याप्ययोगात् । तथापीह वक्ष्यमाणदिशा श्रुतेरपौरुषेयत्वप्रामाण्ये स्वीकृत्य पूर्वपक्ष इत्यस्य सूत्राद्यनुगुणत्वात्तदनुरोधेनेयं चिन्तोक्ता । अत एव टीका ‘‘अन्यार्थतोपपत्ते’’रिति । सुधायां तु व्यक्तमेवैतत् । स्पष्टोऽत्र फलफलिभावः ।
चन्द्रिकाविवृतिः
।। अत्रलौकिकेति ।।लौकिकार्थगोचराप्तवाक्यत्वं स्मृतित्वम् । इदं बहुजनपरिगृहीतवाक्य-सन्दर्भरूपसमयस्मृतौ मन्वादिस्मृतौ हितैषिपित्राद्येकमात्रकर्तृकवाक्ये च साधारणम् । आप्तत्वं च तत्तत्स्समयानुग्राहिपुरुषावच्छेदेनेत्यपि द्रष्टव्यम् । अन्यथा समयसाधारण्याभावे उत्तरग्रन्थविरोधः ।। एकैकाविरोधेति ।। एकैकमात्राविरोधेत्यर्थः । एवं चास्याधिकरणस्य कुत्रापि पादे नान्तर्भाव इति भावः ।। अभ्युपेत्य चेदमिति ।। युक्तिमात्रविरोधः पादार्थ इत्याद्यवधारणगर्भं पादार्थमभ्युपेत्येत्यर्थः । वस्तुतस्तु अविरोधः अध्यायार्थः, युक्तयविरोधः समयाविरोधः श्रुत्यविरोधः न्यायोपेतश्रुत्यविरोधः इति पादप्रतिपाद्यार्थभेदकोऽयमिति भावः । उक्तहेतुभ्यां प्रथमातिक्रमे कारणाभावः चतुरात्मकत्वेन प्राबल्यं चेत्युक्तहेतुभ्याम् ।।