माभूदन्यैकगतता ब्रह्मैकगतताऽपि वा
प्रथमाध्यायस्य तृतीयः पादः
द्युभ्वाद्यधिकरणम्
तात्पर्यचन्द्रिका
पादसंगतिकथनपूर्वकं एतत्पादीयाधिकरणोपाधिनिरूपणम्
।। ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ।।
अत्र–
माभूदन्यैकगतता ब्रह्मैकगतताऽपि वा ।
किं तूभयगतत्वं स्यादिति शङ्का निरस्यते ।। १ ।।
पादद्वयापादितोभयप्रसिद्धीनां स्वतःसिद्धोभयप्रसिद्धीनां चोभयपरत्वमेव । न तु ब्रह्मैकपरतेति शङ्काऽत्र निरस्यते । स्पष्टयिष्यते चैतत् ‘‘कम्पना’’दित्यत्र । तदुक्तमनुव्याख्याने–
आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ।
शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ।। इति ।
अत्रानुव्याख्याने–
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनःशब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ।।
इत्येतत्पादीयाधिकरणार्थः सङ्गृहीतः । अत्र द्युभ्वादीत्यत्र सर्वाधारत्वलिङ्गं भूमाक्षराधिकरणयोर्भूमाक्षरनामनी ईक्षतीत्यत्र सृष्टिस्थानं दहर इत्यत्र हृत्पद्मस्थत्वलिङ्गं अनुकृतेरित्यत्रानुकूल्येन गृह्यमाणत्वलिङ्गं पुनरपिशब्दात् कम्पनात् ज्योतिः आकाशः इति चतुर्ष्वधिकरणेषु क्रमेणेशानवज्रज्योतिराकाशशब्दाः सुषुप्तीत्यत्र स्वप्नादिद्रष्टृत्वलिङ्गं पत्यादीत्यत्र ब्राह्मणशब्दश्च विचार्यन्त इत्यर्थः । अत्र च लिङ्गवचनविपरिणामेन सर्वविशेषणेन साधारणशब्देन सर्वेषामुभयत्र प्रसिद्धिः । द्विस्थिता इत्यनेन तु पूर्वोत्तरपक्षहेतुमत्तोक्तेति भेदः । देवताधिकरणापशूद्राधिकरणयोस्तु समन्वयाध्याये प्रासङ्गिकत्वात्तदर्थो न सङ्गृहीतः । तदुक्तमनुव्याख्याने ‘‘अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तिता’’विति ।
नन्वन्यत्रप्रसिद्धशरीरित्वसाहित्यादन्तर्यामित्वमिव द्युभ्वाद्यायतनत्वमप्यन्यत्र प्रसिद्धजायमानत्वादिसाहित्यादन्यत्रप्रसिद्धं युक्तम् । न च वाच्यं लिङ्गपादीयन्यायैर्जायमानत्वलिङ्गस्यापि विष्णौ सम्भवेनान्यत्रप्रसिद्धिर्नेति । तथात्वे तेन पूर्वपक्षोक्तययोगादिति चेदुच्यते । अन्यत्र प्रसिद्धसाहचर्येण परतोऽन्यत्रप्रसिद्धत्ववन्न्यायविवरणोदाहृताभ्यः ‘‘रुद्रो वै लोकायतनम् । लोकाश्च लोकिनश्च विष्णावेवोताश्चे’’त्यादिसमाख्याश्रुतिभ्य उभयत्र प्रसिद्धसाहचर्यं विना स्वत उभयत्र प्रसिद्धत्वस्यापि सत्त्वात्तेन रूपेण पादसङ्गतिः । अन्यथा रूपद्वयवतः क्वापि विचारो न स्यात् । अथवा अन्यत्रप्रसिद्धेरन्यत्रप्रसिद्धान्यसाहित्यसापेक्षत्वादुभयत्र प्रसिद्धेस्तु तन्निरपेक्षत्वान्निरपेक्षादरात्पादसङ्गतिः ।
प्रकाशिका
अस्य पादस्यैतदध्यायान्तर्भावसङ्गतेस्समन्वयपरत्वादेव सिद्धेः पूर्वपादद्वयेन सङ्गतिं वक्तुं सर्वनामलिङ्गानां पादद्वयेनैव विष्णौ समन्वितत्वान्नामलिङ्गेभ्योऽन्यस्याभावाद्व्यर्थोऽयं पाद इत्यतः पादफलमाह ।। अत्रेति ।। अस्य इति शङ्का निरस्यत इति श्लोकगतेनान्वयः । पूर्वं द्विपाद्यां लोकतोऽन्यत्र प्रसिद्धानामशेषनाम्नामशेषलिङ्गानामन्यैकगतत्वमाशङ्क्य न्यायैर्ब्रह्मगतत्वमुक्तम् । एवं तर्हि लोकप्रसिद्धिन्याययोरुभयोरनुग्रहायोभयत्र वृत्तिरस्त्विति शङ्का पादद्वयानन्तरमेवोदेतीति साऽत्र पादे निरस्यते । तथाच श्रोत्राकांक्षिततैव सङ्गतिरिति भावः । केषामित्याकाङ्क्षां पूरयन्श्लोकं व्याचष्टे ।। पादद्वयेति ।। नामलिङ्गात्मकशब्दानामिति शेषः । पादद्वयोक्तन्यायैरापादितोभयप्रसिद्धिकानामित्यर्थः । यद्यपि प्रागुक्तन्यायैर्ब्रह्मण्येव प्रसिद्धिस्सम्पाद्यते । नत्वन्यत्रापि । अन्यत्र तु सा लोकत एव । तथापि लोकतोऽन्यत्रप्रसिद्धौ सत्यां यत्नेन ब्रह्मणि तस्यामुक्तायामुभयत्रैव साऽऽपादिता भवतीति भावेनोभयेत्युक्तम् ।
एतेन प्रागेवान्यगतत्वनिरासस्य ‘‘नेतरोऽनुपपत्तेः । अनुपपत्तेस्तु न शारीरः । अनवस्थितेरसम्भवाच्च नेतरः । न च स्मार्तमतद्धर्माभिलापा’’दित्यादिना कृतत्वान्नैतच्छङ्कावकाश इति निरस्तम् । नेतर इत्यादिना शब्दानामन्यत्र तात्पर्याभावमात्रोक्तावपि शक्तेरनिरासेनोभयत्र शक्तिस्स्यादिति वा येषामुभयगतत्वेऽनुपपत्त्यादेस्स्फुटप्रतिभासस्तदन्येषां पादद्वयापादितोभयप्रसिद्धिकानामुभयपरत्वमेवेति वा शङ्कोदयादिति तृतीये सुधायामेव व्यक्तत्वादिति भावः । न केवलं त एव पुनरन्येपीत्याह ।। स्वत इति ।। श्रुत्यादिसाम्येन वा प्रवृत्तिनिमित्तादिसाम्येन वेत्यर्थः । सर्वत्रेति नयोक्तदिशा पूर्वं शब्दानां ब्रह्मणि तात्पर्यमेवावधारितं न तु शक्तिरपीति पक्षमुपेत्योक्तमुभयपरत्वमेव न तु ब्रह्मैकपरतेति । एतेन ब्रह्मपरत्वस्य पूर्वन्यायेनैव सिद्धेः किमनेन पादेनेति शङ्का प्रत्युक्ता । ब्रह्मपरतामात्रसिद्धावपि ‘‘तत्तुसमन्वया’’दित्युक्तावधारणानुपपत्तिशङ्कायां तत्समर्थनार्थत्वादयं पादस्सफल इति तात्पर्यात् । एतेन ‘‘हरौ तदितरत्र च श्रुत्यादिप्रसिद्धनामलिङ्गात्मकशब्दानां विष्ण्वेकवाचित्वं प्रबलहेतुभिः प्रतिपादयत्यस्मिन्पाद’’ इति टीकाफलोक्तिमुखेन विवृता । तत्र वाचित्वोक्तावपीह परत्वोक्तिस्तदेकवाचित्वतदेकपरत्वयोर्द्वयोरप्याक्षेपायेत्याहुः । आपादितोभयप्रसिद्धिकाः के शब्दाः कथं च सा तेषां पूर्वोक्तन्यायलोकप्रयोगाभ्यामुभयप्रसिद्धिकत्वे पूर्वत्रापि प्रतिनयमेवं सुवचत्वाद्ब्रह्मलिङ्गादिरूपन्यायस्य लोकप्रसिद्धेश्च प्रत्युदाहरणं भावादित्यत आह ।। स्पष्टयिष्यतेचेति ।। भाष्येऽस्फुटत्वादाह ।। तदुक्तमिति ।। उभयगतत्वशङ्का निरस्यतेऽत्रेत्येतत्तृतीयाध्यायस्य तृतीयपाद उक्तमित्यर्थः । आहेत्यस्य हरावेवेत्यनन्तरमध्याहृतेनेतिशब्देनेत्याहेति वा ब्रह्मण्येव समन्वयमिति पूर्वश्लोकस्थेन वाऽन्वयः । अत्र श्लोकेतु ‘‘इत्याहैवं च शब्दाना’’मित्युपरितनानुव्याख्यानस्थमित्याहेति पदमाकृष्यान्वयो ज्ञेयः । अत इत्यस्यान्यत्रप्रसिद्धानामशेषनामलिङ्गात्मकशब्दानां द्विपाद्या भगवत्परत्वसमर्थनाद्धेतोरित्यर्थः । लोकतोऽन्यत्र प्रसिद्धेश्चोभयान्यथानुपपत्त्योभयगतत्वं स्यादिति संशयनिवृत्त्यर्थमिति योजना सुधायां अभिप्रेतोऽर्थः उपलक्षणम् । किन्तु श्रुत्यन्तरसाधारण्यप्रवृत्तिनिमित्तादिसाधारण्यादित इत्यप्यतश्शब्दार्थ इति भावः । अन्यथा उक्तेऽर्थे सर्वत्र नायं संवादस्स्यादिति ज्ञेयम् । कथमियं शङ्काऽत्र परिहृतेत्यत उक्तमुभयत्रेति । हरौ तदन्यत्र च प्रतीतितः पूर्वोक्तन्यायलोकप्रसिद्धिभ्यां वा श्रुत्यन्तरादिसाधारण्यबलेन वोत्पन्नसाधारण्यप्रतीतितो वर्तमानानां न तु वस्तुत उभयत्र प्रवर्तमानानामित्यर्थः । सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च । हरावेव विशेषतः परममुख्यवृत्त्या तात्पर्येण च । समन्वय इत्याहेत्यन्वय इति प्रागवोचाम । कुत इत्यत उक्तं यदिति । यद्यस्मात् । वर्तंत इति शेषः । ‘‘शब्दालिङ्गानिचे’’त्यग्रेतनेनान्वयः । एतेन ‘‘तत्र चान्यत्र चे’’त्यादिभाष्यादौ ‘‘आहोभयगतत्वं चे’’त्यादि त्रिपादी संयोज्य व्याख्येयेति सूचितम् ।
एवं पादसङ्गतिमुक्त्वैतत्पादीयाधिकरणोपाधीननुव्याख्यानोक्तानाह ।। अत्रेति ।। पाद इत्यर्थः । ‘‘एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्य’’मिति सुधायामुक्तत्वान्न्यायविवरणरीत्या स्वयं व्याचष्टे ।। अत्रेत्यादिना ।। श्लोकोक्ताधिकरणार्थेषु विवेकः प्रदर्श्यत इत्यर्थः ।। लिङ्गमिति ।। यद्यप्यत्र लिङ्गानि द्युलोकाद्याधारत्वादीनि बहूनि । ‘‘अत्रोक्तानां लिङ्गाना’’मिति न्यायविवरण एवोक्तेः । तथाप्येकवाक्योक्तत्वेनैकवचनमिति तत्र टीकायामेवोक्तमिति भावः । पुनरपीत्यस्य शब्दा इत्यन्वयः । ते कुत्रेत्यत आह ।। शब्दादिति ।। ‘‘शब्दादेव प्रमितः । कम्पनात् । ज्योतिर्दर्शनात् । आकाशोऽर्थान्तरत्वादिव्यपदेशा’’ दित्यत्रेत्यर्थः ।। विचार्यन्त इत्यर्थ इति ।। एतेन प्रागुक्तटीकावाक्यस्थं ‘‘नामलिङ्गात्मक शब्दाना’’मित्येतदिदमत्रेति विशिष्य विवृतं ध्येयम् । अनुव्याख्यानोक्तं स्थानं तु लिङ्गं सन्नामेति वा व्याख्यास्यामोऽग्र इति भावः ।। लिङ्गेति ।। साधारणासाधारणः इति विपरिणामेनेत्यर्थः । एतेन ‘‘विचार्या’’ इत्यपि परिणाम्यत इति सूचितम् । इति भेद इति ।। ‘‘साधारणमित्यस्य यथान्वयं विपरिणामेन सर्वत्रानुवृत्तिरिति ज्ञापनार्थमेवान्तेऽपि द्विस्थिता इत्याहे’’ति न्यायविवरणटीकोपलक्षणमिति भावः । नन्वत्र चतुर्दशाधिकरणानि । उपाधयस्तु द्वादशैवोक्ताः । तत्कथमित्यत आह ।। देवतेति ।। तद्धानिः शूद्राणामधिकाराभावः ।। प्रसङ्गादिति ।। तत्रैवैतत् स्पष्टयिष्यते । ‘‘इतीमौ विषयावित्यध्याहाराच्चिंतिताविति साध्विति’’ सुधायामेवोक्तम् । एतेन ‘‘देवताद्यधिकरणव्यावृत्त्यर्थं प्रायेणेती’’त्येतट्टीकावाक्यं विवृतम् । एतदधिकरणस्यैतत्पादाद्यन्तर्भावोक्तिपरां ‘‘तत्र रुद्रो वाव लोकाधार’’ इत्यादिटीकां विवरितुमाक्षिपति ।। नन्विति ।। ‘‘य एषोन्तश्चरते बहुधा जायमान’’ इत्युक्तेत्यर्थः ।। तथात्व इति ।। भाष्यादौ तेनैव पूर्वपक्षित्वात् । सर्वत्रेति नये चन्द्रिकायां ‘‘अन्तराद्यधिकरणेषु तैस्तैर्लिङ्गैर्विष्णुपरतैव व्युत्पादिता । न तु तत्र मुख्यते’’ त्याद्युक्तदिशा लिङ्गपादन्यायैर्लिङ्गानामशेषाणां विष्णुपरत्वसिद्धावपि मुख्यत्वस्यासिद्धेर्यौगिकजायमानशब्दस्य लिङ्गवाचिनोऽन्यत्रैव मुख्यत्वान्मुख्यार्थत्यागहेतोर्विष्णुलिङ्गस्येहाभावाभिमानेन वा भावेपि कथञ्चिन्नेयत्वाभिमानेन वा पूर्वपक्षोदयसम्भवादिति भावः । टीकायां ‘‘रुद्रोवावलोकाधार’’ इति श्रुतिचतुष्टयोक्तया लिङ्गस्योभयत्रप्रसिद्ध्युक्तेश्चतुर्धा तात्पर्यश्रुत्याकारोक्तिपूर्वं व्यञ्जयन्नुक्तशङ्कां समाधत्ते ।। उच्यत इत्यादिना ।। श्रुतिभ्य इत्यस्य स्वत उभयत्र प्रसिद्धत्वस्येत्यन्वयः । उक्तरीत्याऽन्यत्रप्रसिद्धत्वसम्भवेऽपि ‘‘श्रुत्यन्तरादिभिस्तुल्ये’’त्युक्तदिशोभयत्रप्रसिद्धत्वांशमादाय पादसङ्गतिरित्यर्थः ।। निरपेक्षेति ।। ‘‘यद्योन्यां तदुत्तरयोर्गायती’’त्यत्र यथोत्तराशब्दस्योत्तराग्रन्थपठितऋगर्थकत्वम् । नतूत्तरदेशपठितऋगर्थकत्वम् । तस्य पूर्वसापेक्षत्वादुत्तराग्रन्थपठितयोरित्यस्य निरपेक्षत्वात् । तद्वदिति भावः ।
पाण्डुरङ्गि
द्विस्थिता इत्यनेन त्विति ।। द्विस्थिता इत्यस्य साधारण्यानुवृत्तिज्ञापकत्वेन न्यायविवरणटीकायां व्याख्यानं तु सति अन्तरङ्गज्ञापके बहिरङ्गव्याख्यानं किमर्थं गवेषणीयमित्याशयेन । इह तु व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेनाप्युपपत्तेस्सम्भवाद्व्याख्यानान्तरमिति द्रष्टव्यम् । स्वत एवोभयत्र प्रसिद्धानां तुल्यप्रसिद्धिकत्वात् पूर्वपक्षे सिद्धान्तप्रसिद्धिबाधः । सिद्धान्तेच पूर्वपक्षप्रसिद्धिबाधः । तथाच कथं निर्णय इत्याशङ्क्य द्विस्थिता इत्युक्तम् । तथाच सिद्धे सत्यारम्भो नियमार्थ इति न्यायेन पूर्वोत्तरपक्षहेतुमन्त इत्युक्तं भवति । एवं चान्यत्रापि पूर्वोत्तरपक्षहेतुमत्ताऽस्ति । अत्रैव कुतो वाच्येत्याशङ्का निरस्ता भवति । अथवेत्यादिपक्षाणामुत्तरोत्तरस्वारस्यं स्पष्टमेव । नन्वस्तूक्तरीत्या पादद्वयसङ्गतिः । तथापि प्रथमातिक्रमे कारणाभावादादावेव तन्निवेशो युक्त इत्यत उभयत्र प्रसिद्ध साहचर्यं विनेत्युक्तस्याभिप्रायमाह ।। अथवेति ।।