सिद्धान्तमाह
सिद्धान्ते कर्तृस्वरूपनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तमाह ।। सिद्धान्तयदिति ।। अयं भावः ।।
न तृतीयादियोगित्वं कर्तृतेह विवक्ष्यते ।
किं तु ज्ञानादियोगित्वं तच्चाभावेन युज्यते ।। १ ।।
न हि जन्मादिसूत्रोक्तं कर्तृत्वं तृतीयादिप्रयोजकं वैयाकरणाभिमतपारिभाषिकं कर्तृत्वम् । किन्तु ज्ञानचिकीर्षादिमत्त्वम् । न च चेतनत्वमचेतनप्रभेदे प्रागभावे युक्तम् । अन्यथेश्वरस्यैव प्रागभाव इति संज्ञा स्यात् । भावत्वादियुक्तिस्तु विमतोत्पत्तिर्भावाधीना उत्पत्तित्वात् । विमतो विनाशः सशेषः विनाशत्वात् । विमतः कालोभाववान् कालत्वादित्यादि बहुयुक्तिविरुद्धा । ‘‘असदेवे’’त्यादिश्रुतिस्तु ‘‘सदेव सोम्येदमग्र आसीत् सत्त्वे व सोम्येदमग्र आसीत्,एको नारायण आसी’’दित्यादिबहुश्रुतिविरुद्धा । तदुक्तमनुव्याख्याने
युक्तेश्च युक्तिबाहुल्यमागमादागमस्य च ।
कथं न निर्णयं कुर्यादित्यसत्कारणं न हि ।। इति ।
न च श्रौतासच्छब्दोऽभावे स्वरसः । बाधकादभावपरश्चेत्तत एव ब्रह्मपरोऽस्तु । अन्यथाऽत्यन्तासदेव ज्ञानादिमत्स्यादिति । भावेष्वप्यन्योन्याभावादिधर्मात्मना प्रतिषेधत्वमस्तीति व्यभिचारः स्यात् । अतः सूत्रे मात्रशब्दः । तथाप्यसिद्धिः । अभावस्याप्यभिधेयत्वादिधर्मात्मना भावत्वात् । अतो मात्रशब्दाभिप्रायमाह ।। स्वरूपत एवेति ।। तस्यैव विवरणमभावधर्मात्मतामन्तरेणेति ।। ‘‘कारणत्वाद्युक्तिविरुद्ध’’मिति भाष्ये कारणत्वादेरुक्तिः श्रुतिः । तद्विरुद्धमिति विग्रहः । न तु कारणत्वाद्धेतोर्युक्तिविरुद्धमिति भिन्नं पदम् । अनन्तरभाष्यविरोधादित्याह ।। कारणत्वप्रलयस्थितत्वेति ।। अन्यथा पौनरुक्तयापातादिति ।। अत्रापि समयप्राप्तस्य निषेधे प्रागभावकर्तृत्वप्रापकसमयाभावेन शून्यकारणता निषेधस्यैव प्रसङ्गादिति भावः । तद्वत्प्रसङ्गादिति सूत्राक्षराणि योजयति ।। असन्मात्रावशेषप्रसङ्ग इति ।। अत्र सूत्रे तच्छब्दः सावधारणः । वदिति मतुप्प्रत्ययः । न तु परमत इव वतिरिति भावः ।। परंपरया वेति ।। सर्वे भावाः प्रलयेऽसन्तः भावत्वादित्यादिरूपेणेत्यर्थः ।। आगमप्रामाण्यानभ्युपगमादिति ।। आगमप्रामाण्यसाधनं च तर्केणैव कार्यमिति भावः ।।
विरुद्धतर्काविति ।। प्रमाणेनेति शेषः । घटादीनां जीवकर्तृत्वाभाव इति पदच्छेदः । अत्राद्ये सूत्रेऽभाव इति वक्तव्येऽसदिति श्रुत्यनुकरणार्थम् । असच्छब्दस्य कर्तृसाधनत्वं भवितृप्रधानत्वं वाऽऽश्रित्य भावजातं प्रलयेऽसत् भावत्वात् कार्यवदिति युक्तिसूचनार्थं च । द्वितीयसूत्रे ‘‘अपीता’’वित्यनेन प्रलये भावमात्रासत्त्वे कालोऽपि न स्यादिति सूचितम् । ‘‘एतेन शिष्टा’’ इति सूत्रं परेषामिव नास्माकमधिकरणान्तरम् । जीवकर्तृकत्वादि(अचेतनकर्तृकत्वादि)पक्षाणामपि श्रुत्युपसर्जनयुक्तिविरोधत्वरूपैतदधिकरणोपाध्युपहितत्वात् । दृष्टान्ताभाव (श्रुतिबाहुल्यसहितयुक्तिबाहुल्य)रूपसिद्धान्तमूलहेतोरुपर्यधिकाशङ्काभावाच्च । अतिदेशस्त्वाद्यसूत्रोक्तस्य प्रतिषेधमात्रत्वस्य जीवादावसिद्ध्याशङ्कासद्भावादिति ।
प्रकाशिका
अत्रोक्तपूर्वपक्ष्यभिप्रायनिरासस्य टीकायामस्पष्टत्वात् ‘‘इति चेन्न निषेधैकस्वरूपस्य न कर्तृता । बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिति निश्चित’’मित्यनुव्याख्यानसुधोक्तमेवाह ।। अयं भाव इत्यादिना ।। एतेन ‘‘युक्तमेव विष्णोर्जगत्कारणत्वं न त्वसत’’ इत्यादिटीका आद्यसूत्रभाष्यव्याख्यारूपा विवृता । पूर्वोक्तयुक्तिविरोध इत्यत आह ।। भावत्वादीति ।। प्रागभावस्य हेतुत्वानुमानमिष्टमेव । कर्तृत्वोपयुक्तं भावत्वादिकं तु प्रतियुक्तिविरुद्धं न कार्यक्षममित्यर्थः । ननु द्वयोर्युक्तित्वाविशेषे कथं निर्णय इत्यतो बहुयुक्तिविरुद्धेत्युक्तम् । तत्कथमित्यतः ‘‘न तु दृष्टान्तभावा’’दिति सूत्रभाष्याद्युक्तप्रयोगा उक्ताः ।। विमतोत्पत्तिरिति ।। भावत्वादियुक्तिमूलश्रुतिविरोध इत्यत आह ।। असदेवेत्यादीति ।। आगमस्य च बाहुल्यमित्यन्वयः । एतेनैतद्य्वाख्यानसुधा च युक्तिश्रुतिबाहुल्योदाहरणेन विवृता ध्येया । ननु श्रौतासदादिशब्दस्य मुख्यार्थत्यागः स्यादित्यत आह ।। न चेति ।। भावसाधनत्वादेरयोगादिति भावः । बाधकात् सत्त्वोक्तयादेरयोगरूपादित्यर्थः । टीकाक्षरार्थमाह ।। भावेष्वित्यादिना ।। इत्याहेति ।। इति भावेन भाष्यार्थमाहेत्यर्थः । कथमयं सौत्रपदलभ्योऽर्थ इत्यत आह ।। अत्रेति ।। आगमप्रामाण्येति ।। यद्यपि तत्प्रामाण्येत्येव टीकापाठः । तथापि तत्पदार्थविवरणेन प्रतीकग्रहणमेतत् । तृतीयांतत्वेऽन्वयायोगादाह ।। घटादीनामिति ।। टीकाक्षरार्थमुक्त्वा सूत्राक्षरार्थं विवेचयति ।। अत्राद्येति ।। असच्छब्दश्छान्दसभावसाधनेनाभावपर इति प्रागेवोक्त इति भावः । उक्तं च सुधायां ‘‘अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः । अपरापि वृत्तिर्भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलयेऽसदनुमीयत इत्यत्रासच्छब्दः कर्तृसाधन’’ इति ।। भवित्रिति ।। प्रागुक्तरीत्या भावसाधनत्वेऽपीति भावः ।। इति सूचितमिति ।। तथैव सुधोक्तेरिति भावः । तथा च पक्षासिद्ध्या सर्वासत्त्वानुमानं तव न स्यादिति भावः । टीकायामनुक्तेः ‘‘न हि जीवादीनां प्रतिषेधमात्रत्वमस्ति । येनोक्तविरोधस्स्या’’दिति सुधोक्तामधिकाशङ्कामाह ।। अतिदेशस्त्विति ।।
चन्द्रिकाविवृतिः
पारिभाषिकं कारकान्तराप्रयोज्यत्त्वरूपम् ।। सूत्रे तच्छब्द इति ।। एवञ्च तद्वत्प्रसङ्ग इत्यनेनासन्मात्रवत्त्वप्रसङ्ग इत्यर्थः सूचितः ।। भवितृप्रधानत्त्वं वेति ।। भावसाधनत्त्वपक्षेऽपीति शेषः ।। एवञ्च भावसाधनत्त्वपक्षे एवासच्छब्दस्याभाववदभावप्रतियोग्यप्यर्थोलभ्यत इति भावः । द्वितीयसूत्रेऽपीति पदवैय्यर्थ्यमाशङ्क्याह ।। द्वितीयसूत्र इति ।।