अत्र श्रुत्यनुभवसंवादियुक्तयविरोध उच्यते
इतरव्यपदेशाधिकरणम्
तात्पर्यचन्द्रिका
पूर्वपक्षनिरूपणम्
ॐ इतरव्यपदेशाद्धिताकारणादिदोषप्रसक्तिः ॐ ।।
अत्र श्रुत्यनुभवसंवादियुक्तयविरोध उच्यते ।। जीवकर्तृत्वसाधकचेतनत्वादियुक्तिर्हि ‘‘जीवाद्भवंति भूतानी’’त्यादिश्रुत्या जीवकर्तृत्वानुभवेन च संवादिनी । अत्र जन्मादिसूत्रे विवक्षितं ब्रह्मण एव स्वतन्त्रकर्तृत्वं युक्तिविरुद्धं न वेति चिन्ता । तदर्थं जीवस्य स्वतन्त्रकर्तृत्वसाधकचेतनत्वादियुक्तिः श्रुतिसंवादिनी नवेति । तदर्थं ‘‘जीवाद्भवन्ती’’त्यादिश्रुतिः किं प्रत्यक्षानुसारात् (विग्रहादिमतः कर्तुर्ब्रह्मणोऽनुपलब्धिबाधितत्वाच्च) जीवविषयोत (अप्राकृतविग्रहादिमत्यपि ब्रह्मण्यंतर्धानशक्तियोगात्पिशाचादेरिवानुपलब्धिबाधाद्यभावात्) प्रत्यक्षाप्राप्तब्रह्मपरेति । यद्यपि समयप्राप्तं जीवकर्तृत्वं द्वितीयपादे ‘‘अन्यथानुमितौ चे’’त्यत्र निषेत्स्यते । यद्यपि च श्रुतिसंवादियुक्तिप्राप्तं जीवादिकर्तृत्वं ‘‘एतेन शिष्टा’’ इत्यत्र निषिद्धम् । तथापीह ‘‘यथाप्राणादि’’रिति पूर्वाधिकरणोक्तं प्राणादिजीवानामस्वतन्त्रत्वमयुक्तम् । जीवकर्तृत्वस्यानुभवादित्यनुभवसंवादेनाधिकहेतुना पुनर्जीवमात्रविषयायां शङ्कायामनुभवस्य गतिं हिताकरणादिदोषान्तरं च वक्तुमिदमिति न पुनरुक्तिः । अत एव सिद्धान्ते ‘‘इतरव्यपदेशा’’दिति सूत्रे पूर्वपक्ष्यभिप्रेता श्रुतिः, ‘‘उपसंहारदर्शना’’ दित्यत्रानुभवः, ‘‘अश्मादिव’’दित्यत्र युक्तिश्च निरस्ता । अत्र घटादेर्जीवैककर्तृकत्वे तद्दृष्टान्तेन महदाद्यपि तथेत्येकः पूर्वः पक्षः ।
द्वितीयस्तु महदादिरीशकर्तृको घटादिस्तु जीवैककर्तृक इति । अत्र च पक्षद्वये ‘‘जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघव’’मिति पूर्वपक्षहेतुपरं यन्न्यायविवरणं तस्य ‘‘तथाही’’त्यादिटीकायामाद्यपक्षमाश्रित्य ईश्वरोऽयोग्यश्चेत्कदापि प्रत्यक्षो न स्यात् । योग्यश्चेत्सदा सर्वत्र सत्त्वादिहेदानीमुपलभ्येत । न चाभिमानिदेवतासाम्यम् । ईश्वरस्याव्यक्तस्वभावाङ्गीकारात् । तस्मादप्रामाणिक ईश्वरस्तस्य घटादौ महदादौ च कर्तृत्वं कल्प्यम् । जीवस्य त्वदृष्टद्वारा महदादावपि कर्तृत्वं क्लृप्तम् । युक्तं चोपादानाद्यपरोक्षज्ञप्तिरहितस्यापि जीवस्य महदादिकर्तृत्वम् । चैत्रःशब्दं करोतीत्यादौ दर्शनादिति तात्पर्यमुक्तम् । यत्तु सुधायां ‘‘न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्य शङ्कित’’मित्युक्तं तत्राद्ये जीवस्य महदादिकर्तृत्वपक्षेऽनुभवविरोधः । न तु द्वितीये । किं तु तदानुकूल्यमेवेत्याद्येऽपरितोषमात्रमभिप्रेतम् । अत एवात्रापि टीकायामाद्येऽपरितोषात् ‘‘यद्वे’’त्यादिनाऽधिकरणान्ते द्वितीय उक्तम् । नत्वाद्यः सुधायां सर्वथा नाभिप्रेतः । तथात्वे ‘‘देवादी’’त्युत्तरसूत्र ईश्वरस्यादृश्यत्वोक्तययोगात् । अत्र चाद्ये आरम्भणशब्दादिभ्य ईशस्य स्वतन्त्रकर्तृत्वं चेत् न जीवात्कारणं पर’’मित्यादिशब्दाज्जीवस्यापि तदस्तु । उक्तरीत्येशस्यैवाभावान्न जीवशब्दस्तत्पर इति पूर्वपक्षोत्थानात्सङ्गतिः । द्वितीये तु पूर्वत्र कर्त्रंतररहिते महदादावीशस्य स्वतन्त्रकर्तृत्वमुक्तमत्र तु कर्त्रंतरसहितेऽपि घटादौ तदुच्यत इति सङ्गतिः ।
प्रकाशिका
टीकायामस्फुटत्वादेतदुपाधिमाह ।। अत्रेति ।। एतन्मूलं त्वग्रे व्यक्तम् । अनन्तरसङ्गतिं त्वग्रे पूर्वपक्षनिष्कर्षकरणाद्व्यक्तीकरिष्याम इति भावेन विषयसंशयटीकां विवृण्वंश्चिंतामाह ।। अत्रेति ।। वक्ष्यमाणपूर्वपक्षद्वयाभिप्रायेणोक्तं विवक्षितमित्यादि ।। घटादिस्वस्वकार्यांशे जीवस्स्वातन्त्र्येण कर्ता । चेतनत्वान्महदादावीश्वरवत् । जीवः कर्ता चेतनत्वाद्य्वतिरेकेण घटादिवदित्यादियुक्तिविरुद्धं नवेत्यर्थः ।। प्रत्यक्षेति ।। जीवकर्तृत्वानुभवेत्यर्थः । अत्राद्यचिन्ता ‘‘अश्मादिवच्चे’’ति सूत्रसूचिता । द्वितीया तु ‘‘इतरव्यपदेशा’’दित्येतत्सूचिता । तृतीया ‘‘उपसंहारदर्शना’’दित्येतत्सूचिता । हेतुहेतुमद्भावोत्र व्यक्तः । ‘‘अन्यथानुमितौ चे’’त्यादिटीकां व्यञ्जयन्गतार्थतामनुवदति ।। यद्यपीति ।। नन्वधिकहेतुना पुनरारम्भे ‘‘एतेन शिष्टा’’ इत्येतदानन्तर्यमेव स्यादित्यतः ‘‘अत्र यथाप्राणादिरित्युक्ते पुनराशङ्कोदया’’दिति टीकोक्तसमाधिं व्यनक्ति ।। यथा प्राणादिरिति ।। अधिकहेतुनेत्यादिना ग्रन्थेन ‘‘विस्तरान्निराक्रियत’’ इति भाष्यटीकयोः प्रयुक्तविस्तरशब्दार्थो विवृतो ज्ञेयः ।। अत एवेति ।। चेतनत्वयुक्तेरनुभवसंवादिश्रुतिमूलकत्वरूपाधिकहेतुना शङ्कोदयादेवेत्यर्थः । पूर्वोत्तरप्रस्थानयोः पक्षभेदेनाविरोधं विवक्षुः पूर्वपक्षं निष्कृष्याह ।। अत्रेति ।। टीकायामिति तात्पर्यमुक्तमित्यन्वयः । एतेन ‘‘तथा ही’’त्यादिटीका न्यायविवरणमूलेत्युक्तं भवति । टीकां तात्पर्यतो व्यनक्ति ।। ईश्वर इत्यादिना ।। अव्यक्तेति ।। ‘‘तदव्यक्तमाहही’’त्यत्र तृतीये तथाऽभिधास्यमानत्वादिति भावः ।। अदृष्टद्वारेति ।। कार्यमात्रस्य यथायथं जीवोपभोग्यतया जीवादृष्टजन्यत्वादिति भावः ।। शब्दमिति ।। शब्दस्याकाशगुणतया शब्दोपादानाकाशापरोक्षहीनस्यापि चैत्रस्य शब्दकर्तृत्वदर्शनादित्यर्थः । न च द्रव्यकर्तृत्व एवायं नियमः । अप्रयोजकत्वादिति भावः ।। इतीति ।। इत्यभिप्रेत्येत्यर्थः ।। इति तात्पर्यमिति ।। तस्य न्यायविवरणस्येति वर्तते । नन्वेवमाद्यकल्पः कथं सुधायां दूषित इत्यत आह ।। यत्त्विति ।। तथात्वे देवादिवदपि लोक इति सूत्रव्यावर्त्यस्यानभिमतत्व इत्यर्थः । एवं पक्षभेदेन पूर्वपक्षं व्यवस्थाप्योभयत्रावांतरसङ्गतिमाह ।। अत्र चेति ।।
चन्द्रिकाविवृतिः
ॐ इतरव्यपदेशात् ॐ ।। अश्मादिवच्चेति सूत्रावतारिकाटीकोक्तां जीवकर्तृत्वसाधकां युक्तिं दर्शयन् तस्याः श्रुत्यनुभवसंवादित्वं चोपपादयति ।। जीवकर्तृत्वसाधिकेति ।। अतः प्रत्यक्षाप्राप्तेत्यनेन ब्रह्मपरत्वेऽपूर्वतां सूचयति । यथा प्राणादिरित्युक्ते शङ्कोदयादिति टीकावाक्योक्तार्थकथनपूर्व-कमेवागतार्थतामाह ।। तथापीह यथा प्राणादिरिति ।। अत्र चाद्ये आरम्भणेत्यादिना सङ्गतिं सुधापक्षटीकापक्षानुसारेण दर्शयितुं पूर्वपक्षविभागमाह ।। अत्र घटादेरित्यादिना ।। अत्रोभयविधपूर्वपक्षेऽपि साधारणं न्यायविवरणमेव मूलमित्यभिप्रेत्य टीकासुधयोः रचितौ पूर्वपक्षौ दर्शयन् तयोर्विरोधं च परिहरति ।। अत्र च पक्षद्वये जीवस्यैवेति ।। तस्य साधारणन्यायविवरणस्य । टीकायामिति तात्पर्यमुक्तम् । सुधायामिति । तात्पर्यमुक्तमिति योजना ।। न चाभिमानिदेवतेति ।। ईश्वरस्यांतर्धानशक्तयादिनेति शेषः ।। तथा च न सर्वत्र सर्वदा प्रत्यक्षः किं तु यदा अपेक्षितः तदानीमेव प्रत्यक्ष इति भावः ।। चैत्रः शब्दं करोतीति ।। शब्दोपादानाकाशगोचरापरोक्षज्ञानचिकार्षाकृतिरहितस्यापि शब्दकर्तृत्वमनुभूयत इति भावः ।। तथात्व इति ।। आद्ये पूर्वपक्षस्य सर्वथाऽनभिप्रेतत्वे ईश्वरस्य पूर्वपक्षिणाऽनङ्गीकृतत्त्वाभावात् ।। तेनेश्वरोऽस्ति चेत् उपाभ्येतेत्यनुक्तेः तं प्रत्यदृश्यत्वादिशक्तिवर्णनमनुचितमिति भावः ।। यदर्थं पूर्वपक्षभेदः प्रदर्शितस्तदिदानीमाह ।। अत्र चाद्ये आरम्भणेत्यादिना तत्पर इत्यन्तेन । पूर्वपक्षोत्थानादिति ।। पूर्वाधिकरणसिद्धान्तन्यायेनेति शेषः ।।