यद्यपि विवर्तस्यैव सिद्धान्तितत्वात्कृत्स्नप्रसक्तिशङ्कानवकाशः

परमतपरीक्षा

तात्पर्यचन्द्रिका

‘‘यद्यपि विवर्तस्यैव सिद्धान्तितत्वात्कृत्स्नप्रसक्तिशङ्कानवकाशः । तथापि पूर्वोक्तक्षीरादिदृष्टान्तेन परिणामभ्रांत्या शङ्किते आत्मनि चेति सूत्रेण स्वप्नदृगात्माहि मनसैव स्वरूपानुपमर्देन रथादीन्सृजतीति मायावादः स्पष्टीकृत’’ इति । तन्न । विवर्तस्यादृश्यत्वाधिकरणप्रकृत्यधिकरणारम्भणाधिकरणेषूक्तत्वेन परिणामभ्रांत्ययोगात् । योगेवाऽऽदावेव विवर्तप्रतिकूलं कुचोद्योत्पादकं क्षीरादिदृष्टान्तमनुक्त्वा तदनुगुणस्वप्नदृष्टान्त एव वाच्यः । सिद्धान्ते विवर्तविवक्षाप्ययुक्ता । तथात्वे हि द्वितीयसूत्रे शब्दगम्यत्वतर्कागम्यत्वे न वाच्ये । न हि ते भ्रांत्यधिष्ठानत्वोपयुक्ते । तृतीयेऽपि स्वप्नदृष्टान्तः किं ब्रह्मणो जगद्विषयकभ्रांतिमत्त्वे जीवस्य स्वाप्नभ्रांतिमत्त्वं किं वा ब्रह्मणो जगद्भ्रमाधिष्ठानत्वे जीवस्य स्वाप्नभ्रमाधिष्ठानत्वं यद्वा ब्रह्मणो मायाविवद्भ्रामयितृत्वे जीवस्य भ्रामयितृत्वम् । नाद्यः । दार्ष्टान्तिकानानुगुण्यात् । न हि ब्रह्म भ्रान्तम् । उक्तं हि भामत्यामपि ‘‘भ्रांतस्य सर्वज्ञत्वानुपपत्ते’’रिति ।। कल्पतरौ च ‘‘अज्ञातं नटवद्ब्रह्मकारणं शङ्करोऽब्रवी’’दिति । न द्वितीयः । दृष्टान्तानानुगुण्यात् । जीवस्य स्वाप्नभ्रमाधिष्ठानत्वे ह्यहंकर्तेतिवदहं गज इति धीःस्यात् । पक्षद्वयेपि सूत्रे विचित्रशक्तयुक्तययोगाच्च । न हि भ्रांतत्वं भ्रांत्यधिष्ठानत्वं वा विचित्रशक्तिसापेक्षम् । अत एव नांत्यः । न हि स्वप्नद्रष्टाऽन्यान्भ्रामयति । स्वाप्नसृष्टौ ‘‘न तत्र रथा’’ इत्यादि श्रुत्युदाहरणमपि परकृतमयुक्तम् । श्रुत्युक्तः स्वाप्नस्रष्टा जीवश्चेत् ‘‘सहिकर्ता तस्मिन्लोकाः श्रिताः इति वाक्यशेषविरोधात् । ईशश्चेद्गगनादिवत्स्वाप्नस्य व्यावहारिकत्वापातात् । तस्मादात्मनीति सूत्रं द्युभ्वाद्यधिकरणन्यायेनात्मशब्दमुख्यार्थस्य ब्रह्मणः प्रस्तुतजगत्कर्तृत्वोपयोगि विचित्रशक्तयुक्तिपरम् । न तु स्वप्नदृष्टान्तेन जगन्मिथ्यात्वोक्तिपरमिति ।

यच्चोक्तं परैः ‘‘सर्वोपेते’’त्यादि सूत्रद्वयमेकमधिकरणम् । तत्राद्येन ‘‘आत्मनि चैवं विचित्राश्च ही’’ति पूर्वसूत्रोक्तविचित्रशक्तित्वे ‘‘यः सर्वज्ञः सर्ववित् सत्यकामः सत्यसङ्कल्पः’’ इत्यादिश्रुतिरुक्ता । द्वितीयेन विचित्रशक्तियुक्ता अपि देवादय आध्यात्मिककरणसम्पन्ना एव कार्यकराः । ब्रह्मतु ‘‘अचक्षुष्कमश्रोत्र’’मित्यादिश्रुत्या करणरहितमिति शङ्किते ‘‘अपाणिपाद’’ इत्यादिश्रुतेरकरणस्यापि ब्रह्मणो देवादिभ्योऽतिशयितशक्तियोगात्कर्तृत्वमिति सिद्धान्तितमिति । तन्न । ‘‘आत्मनी’’ति सूत्रे त्वद्रीत्या भ्रांतत्वस्य वा भ्रमाधिष्ठानत्वस्य वा मायावित्वस्य वोक्तत्वेनेह तद्विरुद्धे सर्वज्ञत्वसर्वशक्तित्वादौ श्रुत्युक्तययोगात् । न हि सर्वज्ञो भ्रांतः । न वा सर्वभ्रमाधिष्ठानम् । न वा मायावी मायिकद्रष्टा । न च तात्विकसृष्टौ शक्तो मायिकं सृजति । किं च भ्रमाधिष्ठानत्वस्य विकरणत्वेनाक्षेपः शक्तिविशेषेण समाधानं चायुक्तम् । मायावित्वे च ब्रह्मणो मायिकप्रपञ्चद्रष्टृत्वं विरोधि । भ्रांतत्वं तु ब्रह्मण; परमतेपि नास्ति । प्रपञ्चं प्रति ब्रह्मणः कर्तृत्वे तु स सत्यः स्यादित्युक्तम् । केचित्तु ‘‘कृत्स्ने’’त्यादिसूत्रषट्कमेकमधिकरणम् । निरवयवत्वाद्ब्रह्मानुपादानमिति प्राप्ते शब्दगम्यत्वात्सर्वशक्तित्वान्न तर्केणापह्नव इति सिद्धान्त इत्याहुः । तन्न । त्वन्मते हि विशिष्टोपादानतायाः प्रकृत्यधिकरणादावुक्तत्वात्, ‘‘न तु दृष्टान्तभावा’’दित्यत्र बालयुवदृष्टान्तेनोपपादितत्वाच्चैतत्पूर्वपक्षानुदयात् । सिद्धान्तेऽपि सर्वशक्तित्वं न तावद्विशेष्यस्य । तस्यानुपादानत्वेन वैयधिकरण्यात् । नापि विशिष्टस्य । स्वस्य नानाविधहेयात्मना परिणामनिवारणाशक्तस्य तस्य सर्वशक्तित्वानुपपत्तेः ।। छ ।। श्रुतेस्तु शब्दमूलत्वाधिकरणम् ।। ८ ।।

प्रकाशिका

भामत्युक्तचोद्यपरिहारावाह ।। यद्यपीति ।। स्वप्नदृष्टान्त एवेति ।। विपरीतभ्रान्तिजनकानभिप्रेतजीवदृष्टान्तोक्तौ फलाभावादिति भावः । स्वप्नदृगात्माहीति भामतीवाक्यत्वाद्विकल्प्य प्रत्याचष्टे ।। तृतीयेऽपीति ।। ‘‘संज्ञापूर्वको विधिरनित्य’’ इति ‘‘मितांह्रस्व’’ इत्येतदनाश्रित्य भ्रामयितृत्व इत्युक्तम् ।। उक्तं हीति ।। ‘‘न प्रयोजनवत्त्वा’’दित्युत्तरनये ‘‘न तावदुन्मत्तवदस्य मतिविभ्रमाज्जगत्प्रक्रिया । भ्रांतस्य सर्वज्ञत्वानुपपत्ते’’रित्युक्तम् । श्रुतेरीशविषयत्वमभिप्रेत्य प्रागुक्तायुक्ततां व्यनक्ति ।। श्रुत्युक्त इति ।। ईशश्चेदिति ।। स्वाप्नस्रष्टेति वर्तते । न हि सर्वज्ञो भ्रांत इति प्रागुदाहृतत्वद्वाक्यविरोधादिति भावः ।। स इति ।। प्रपञ्च इत्यर्थः

चन्द्रिकाविवृतिः

अज्ञातं नटवदिति ।। अज्ञानमेव प्रपञ्चकारणं ब्रह्म केवलं नटवदिति शङ्करोऽब्रवीदित्यर्थः ।। बालयुवेति ।। बालयुवादिदेहप्रयुक्तो दुर्गन्धादिदोषः यथा नर्च्छति तथा कार्ये प्रकृत्यादिसम्बन्धी दोषः न ब्रह्मणीत्यादिरामानुजीयभाष्यादवगन्तव्यम् ।।

।। छ ।। श्रुतेस्तु शब्दमूलत्वाधिकरणम् ।। ८ ।।