सिद्धान्तमाह

जीवस्य परतन्त्रकर्तृत्वमिति सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तमाह ।। इति प्राप्त इत्यादिना ।। अयं भावः ।।

कर्तृत्वमात्रं जीवस्य ममापीष्टं घटादिषु ।

अन्यानधीनकर्तृत्वे स्याद्धिताकरणादिकम् ।। १ ।।

कथं न कुर्यात्प्रेक्षावान्स्वतन्त्रः स्वहितं सदा ।

कथं च स्वाहितं कुर्यात्तथा च सकलो जनः ।। २ ।।

पूर्णानन्दश्च निर्दुःखः सर्वदैव प्रसज्यते ।

कर्मकालादिकस्यापि जडत्वान्न स्वतन्त्रता ।। ३ ।।

नैव बध्नाति पुरुषं स्वयं हि निगडादिकम् ।

जीवस्ततो दारुयोषावदन्याधीनचेष्टितः ।। ४ ।।

चेतनोऽप्यस्वतन्त्रोऽस्तु सूत्रप्रोतशुकादिवत् ।

प्रत्यक्षं चास्वतन्त्रत्वं मृतिसुप्त्युद्भवादिषु ।। ५ ।।

यत्रेशेच्छानुसारेण स्वस्यापीच्छोपजायते ।

कार्योपसंहृतिं काकतालीयां तत्र वीक्ष्यतु ।। ६ ।।

देहादियंतुश्च हरेरगृहीत्वा स्वतोभिदाम् ।

स्वतन्त्रकर्तृतां स्वस्य मन्यते ह्यबुधोजनः ।। ७ ।।

चार्वाकस्य यथा देहे जडे स्वातन्त्र्यधीस्तथा ।

(यथैवात्मपराधीने देहेस्वातन्त्र्यधीस्तथा ।)

जीवबिम्बेश्वराधीनेजीवे स्वातन्त्र्यविभ्रमः ।। ८ ।।

आविर्भावतिरोभावौ शक्तियोगात्पिशाचवत् ।

ईश्वरस्योपपद्येते सर्वत्रावस्थितस्य च ।। ९ ।।

गौरवं तन्न भाराय यत्प्रमाणस्य संमतम् ।

न हि भाराय भवति कांक्षितं भूषणादिकम् ।। १० ।। प्रत्युत

प्रामाणिकेशकर्तृत्वत्यागादप्रमितस्य च ।

जीवे तस्य स्वीकृतेश्च गौरवं पूर्वपक्षिणः ।। ११ ।। इति ।

यत्त्वनुव्याख्याने कृत्स्नप्रसक्त्यादि शङ्कित्वाऽचिन्त्येशशक्तयोपपत्तेर्न साम्यमित्युक्तं तदुत्तराधिकरणप्रमेयं शिष्यहितार्थमिहोक्तम् । इहैवाचिंत्यशक्तयुक्तौ पुनरुत्तरत्र पूर्वपक्षानुदयादिति सुधायामेवोक्तम् । ‘‘इतरव्यपदेशा’’दिति सूत्राक्षराणि योजयति ।। जीवकर्तृत्वस्येत्यादिना ।। अयं भावः । सौत्रस्येतरशब्दस्य प्रस्तुतब्रह्मकर्तृत्वादितरजीवकर्तृत्वमर्थः । ‘‘असद्य्वपदेशान्नेति चे’’दिति सूत्राच्चेदित्यनुवर्तते । स च यद्यर्थः । यदितर्ह्योश्च नित्यसम्बन्धः । तथा च यदि जीवकर्तृत्वव्यपदेशाज्जीवः स्वतन्त्रः कर्ता तर्हि हिताकरणादिदोषप्रसङ्ग इति सूत्रार्थ इति ।। छ ।। इतरव्यपदेशाधिकरणम् ।। ७ ।।

प्रकाशिका

भाष्ये ‘‘जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्या’’दिति कर्तृत्वमात्रनिरसप्रतीतावपि टीकायां स्वतन्त्रकर्तृत्वनिरासपरतया व्याख्यानं निर्बीजमित्यतः कर्तृत्वमात्रस्यानुमतत्वादन्याधीनकर्तृत्वे च हिताकरणादिदोषासंस्पर्शादिति भावेन तदभिप्रायमाह ।। अयं भाव इत्यादिना ।। इष्टमिति ।। ‘‘कर्ता शास्त्रार्थवत्त्वा’’दित्यादौ साधयिष्यमाणत्वादिति भावः । महदादिसर्वकर्तृत्वरूपाद्यपक्षस्य सुधाभिप्रायोक्तिव्याजेन दूषितत्वाद्द्वितीय एव दूष्य इति भावेनोक्तं घटादिष्विति ।। स्यादिति ।। दोष इति शेषः । हिताकरणादिकं दोषः प्रसज्येतेत्यर्थः । अयुक्तमापद्येतेति यावत् । हिताकरणादिकं न स्यादिति भावः । आदिपदेनाहितकरणम् । तदेव विपर्यये पर्यवसानेनोपपादयति ।। कथमिति ।। स्वहितं करोत्येव स्वाहितं च न करोत्येव जीव इति वदन्तं प्रति ‘‘यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं नभवे’’दित्यन्यत्रोक्तं हृदि कृत्वाऽनिष्टमाह ।। तथाचेति ।। स्वहितकरणस्वाहिताकरणयोर्भावे सतीत्यर्थः । नन्वेवमन्याधीनकर्तृत्वेपि जीवस्य कर्माद्यधीनं तदस्तु किमीश्वराधीनत्वोपगमेनेत्यतः ‘‘न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धियतः’’ । इत्येतद्धृदिकृत्वाह ।। कर्मेति ।। तद्य्वनक्ति ।। नैवेति ।। एतेन ‘‘तस्याप्यस्वातन्त्र्या’’दिति टीका विवृता । ‘‘अश्मादिवच्च तदनुपपत्ति’’रिति सूत्रभाष्यटीकातात्पर्यमाह ।। जीवस्तत इति ।। अहितकर्तृत्वादेरित्यर्थः । ‘‘अस्वातन्त्र्यस्य हिताक्रियादिनैव सिद्धे’’रिति टीकायां हिताकरणादेरस्वातन्त्र्ये हेतुत्वोक्तेरिति भावः । चेष्टितः चेष्टनः । भावे निष्ठा । अप्यर्थकसौत्रचशब्दार्थमाह ।। चेतनोपीति ।। एतेन जीवोन्यनिरपेक्षतया कर्ता चेतनत्वादीश्वरवदित्यनुमानमप्रयोजकमित्युक्तं भवति । जीवस्य स्वतन्त्रकर्तृताज्ञानस्य भ्रमत्वव्युत्पादनाय ‘‘आनुभाविकत्वाच्च सर्वस्ये’’ति तत्वप्रदीपोक्तं बलवद्विपरीतं प्रत्यक्षमाह ।। प्रत्यक्षं चेति ।। ‘‘न जीवस्य स्वतः कर्तृत्वाभावो वक्तव्यः । अनुभवविरोधात् । सहि यत्कर्तुमारभते तदवसाययतीत्यनुभूयत’’ इति टीकोक्तशङ्कां हृदि कृत्वा ‘‘उपसंहारदर्शनान्नेति चेत्क्षीरवद्धी’’ति सूत्रपरिहारभाष्यटीकातात्पर्यमाह ।। यत्रेति ।। काकेति ।। ‘‘समासाच्च तद्विषया’’दितीवार्थे छप्रत्ययः । काकागमनमिव तालपतनमिव काकतालीयम् । दैवाज्जायमानामित्यर्थः ।

प्रेरकः सर्वजीवानां प्राणधीचोदिताच सः ।

विष्णुस्संसारिणोन्यो यस्तमविज्ञाय मूढधीः ।

देहेन्द्रियप्राणबुद्धिनेतृत्वं मन्यते त्मनः ।।

इति तत्वनिर्णयटीकोक्तमाह ।। देहादियंतुरिति ।। अगृहीत्वेति ।। स्पष्टमिति शेषः ।

दधिस्थधृतवत्काष्ठवह्निवज्ज जनार्दनः ।

देहेन्द्रियादिजीवेभ्यो विविच्य ज्ञायते न तु ।।

इति सप्तमस्कन्धतात्पर्योक्तेः । स्वतः स्वस्मात् । एतेन ‘‘तस्याप्यस्वातन्त्र्या’’दिति टीका विवृता । स्वतन्त्रकर्तृतामतेः का गतिरित्यत आह ।। जीवबिम्बेति ।। तत्र दृष्टान्तश्चार्वाकस्येति । एतेन न केवलं प्रागुक्तहिताक्रियाद्यन्यथानुपपत्त्यस्वातन्त्र्यप्रत्यक्षाभ्याम् । किंतु ‘‘आभास एव चे’’ति वक्ष्यमाणदिशा प्रतिबिम्बस्य जीवस्य बिम्बाधीनत्वाच्च स्वातन्त्र्यमतिर्विभ्रम इति सूचितम् । ननु हरिरेव नास्त्यनुपलम्भादित्युक्तमित्यतः ‘‘देवादिवदपि लोक’’ इति सूत्रभाष्यटीकातात्पर्यमाह ।। आविर्भावेति ।। एतेनाव्यक्तैकस्वभावस्यापि ‘‘अतोऽनन्तेन तथाहि लिङ्ग’’ मित्यत्र वक्ष्यमाणदिशा स्वशक्तयाविर्भावसम्भवेन ‘‘अयोग्यश्चेत्कदापि प्रत्यक्षो नस्या’’दिति प्रागुक्तं प्रत्युक्तम् । एवं च प्रागुक्तं गौरवमुद्धरति ।। गौरवमिति ।। ‘‘किंत्वश्रौतजीवकर्तृत्वाङ्गीकार एव तद्भवती’’ति टीकां व्यनक्ति ।। प्रत्युतेति ।। यत्त्वनुव्याख्यान इति ।। ‘‘तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव चे’’त्यनुव्याख्यान इत्यर्थः । सुधायामस्फुटत्वात्तत्तात्पर्यमाह ।। कृत्स्नेति ।। इति सुधायामिति ।। तत्तात्पर्यानुवादोयम् । उत्तराधिकरणसुधायां हि ‘‘तस्य त्वि’’त्यर्धं पूर्वाधिकरणानुव्याख्यानशेषतया पूर्वत्र योजितमप्युत्तराधिकरणार्थोक्तिपरतयाऽपि योजयित्वा ‘‘ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्तया घटत इत्यतीताधिकरणेऽभिहितम् । तथा च कथमत्र पूर्वपक्षावकाशः । यो हि परत्र प्रमितं घटयितुमीष्टे स स्वस्मिन्नेष्ट इत्यसम्भावितम् । उच्यते । नैषोऽर्थस्सूत्रकृताऽतीताधिकरणेऽभिहितः’’ इत्यादिना ग्रन्थेनैतत्प्रमेयमुक्तमित्यर्थः । उत्सूत्रत्वभ्रमं वारयति ।। सूत्राक्षराणीति ।। यद्यादिपदानुपलम्भादाह ।। अयं भाव इति ।। दोषेति ।। हिताकरणादेर्दोषत्वप्रसक्तिरित्यर्थः।। इतरव्यपदेशाधिकरणम् ।। ७ ।।

चन्द्रिकाविवृतिः

ननु दारुयोषाया जडत्वेनास्वतन्त्रत्वेऽपि जीवस्य चेतनत्वात् स्वातन्त्र्यमस्त्वित्यत आह ।। चेतनोऽपीति ।। इदं च टीकायां चेतनत्वमप्रयोजकमेवेत्युक्तया सूचितमिति ध्येयम् । एते सिद्धान्तश्लोकाः टीकाकारादिसूचितार्थप्रतिपादका एवेति द्रष्टव्यम् ।। सूत्रार्थोपन्यासपराश्चेति द्रष्टव्यम् ।। ७ ।।