सिद्धान्तस्तु

ब्रह्मणि पञ्चत्वमुपपद्यत इति सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ।

द्वितीयांतविनिर्दिष्टं प्रधानं प्राणपूर्वकम् ।

अर्थतः शब्दतश्चैव न तु षष्ठ्यन्तशब्दितम् ।।

षष्ठीनिर्दिष्टा हि प्राणादयो द्वितीयानिर्दिष्टप्राणाद्यधीनत्वात्तदवच्छेदकत्वाच्चार्थतः शब्दतश्चाप्रधानभूताः । न च ‘‘पञ्चजना’’इत्यस्य प्रधानपरत्वे सम्भवत्यप्रधानपरता युक्ता । न च ‘‘यस्मि’’न्निति सप्तमीस्वारस्यायाप्रधानपरता । प्रयाजशेषन्यायेन प्रातिपदिकस्वारस्याय विभक्तयस्वारस्यस्य सह्यत्वात् । विभक्तयस्वारस्यं च नेति वक्ष्यते । न च ब्रह्मण एकत्वात्पञ्चत्वायोगः । षष्ठीनिर्दिष्टानामपि प्राणादीनां प्रत्येकं बहुत्वेन त्वत्पक्षेऽपि पञ्चत्वायोगात् । न हि ब्रह्मण एकस्यैव प्राणादेः प्राणत्वादिः । किं त्वनन्तानां प्राणादीनाम् । एवं च

एकत्र हि यथा पञ्च सङ्ख्या नैवोपपद्यते ।

तथाऽनन्तेषु पञ्चत्वसङ्ख्याऽपि न च युज्यते ।। १ ।।

अथ प्राणादीनां प्रत्येकं स्वरूपेण बहुत्वेप्येकवचननिर्देशात्प्राणत्वादिधर्मैक्याद्वा प्रत्येकमैक्यम् । तथा च मिलितानां पञ्चत्वमिति चेत्तर्हि ब्रह्मस्वरूपेणैकमपि पञ्चभिः शब्दैर्निर्देशाद्वा प्राणत्वचक्षुष्ट्वादिधर्मपञ्चकयोगाद्वा पञ्चेत्युच्यताम् । यथा प्रयाजाः स्वरूपेण पञ्चाप्यावृत्तिमात्रेणैकादशेत्युच्यन्ते । तथा च ‘‘द्वे पौर्णमास्या’’वित्यादावेकमेव पौर्णमासी कर्म द्वे इत्युच्यते तद्वत् । यथा चानेकत्वस्य भिन्ननिष्ठत्वमौत्सर्गिकं तथा वैदिकसर्वशब्दानां प्रसिद्धनिमित्तस्य तद्गतत्वं निमित्तीकृत्य ब्रह्मणि वृत्तिरप्यौत्सर्गिकी । अवरादिशब्देषु त्वसम्भवात्तत्त्यागः । साधितं च ‘‘गुहा’’मित्यत्रैकस्याप्यनेकत्वम् । युक्तं च ब्रह्मणः स्वाश्रयत्वम् ।

आधाराधेयभावो हि भेदाभावेऽपि युज्यते ।

कालः सदाऽस्ति देशोऽस्ति सर्वत्रेत्यादिभानतः ।। १ ।।

एवं च यावन्ति नियम्यानि नियामकभगवद्रूपाण्यपि तावन्तीति शरीरगतप्राणादिपञ्चकनियामकरूपेषु पञ्चत्वम् । तथा तद्गताकाशनियामकरूपस्य षष्ठत्वादाकाशश्चेति समुच्चयः । आधारभूतशरीरनियामकरूपस्याधेयभूतप्राणादिनियामक रूपेभ्योऽतिरिक्तत्वात्तानि प्रत्याधारत्वं च युक्तम् । तदुक्तं न्यायविवरणे ‘‘बहुरूपत्वादधिकरणाधेयत्वादि तस्यैव युज्यत’’ इति ।

प्रकाशिका

‘‘प्राणादयोवाक्यशेषा’’दिति द्वितीयसूत्रभाष्यटीकोक्तदिशा द्वितीयांतप्राणादेर्ब्रह्मत्वेऽपि तेषामेव पञ्चजनत्वे को हेतुरित्यतस्तात्पर्यं विवृण्वन्द्वितीयांतप्राणादिशब्दस्य पञ्चजनशब्दस्य चैकार्थ्यं हेतूक्तिपूर्वं समर्थयमानस्सिद्धान्तयति ।। सिद्धान्तस्त्विति ।। प्राणपूर्वकम् । प्राणचक्षुरादिकम् । द्वितीयांतनिर्दिष्टमेवेत्येवकारान्वयं मत्वा तद्य्वावर्त्यमाह ।। नत्विति ।। शब्दितं प्राणपूर्वकं प्रधानं नत्वित्यन्वयः । श्लोकोक्ताप्राधान्यप्राधान्ये व्यनक्ति ।। षष्ठीति ।। शब्दत इति ।। ‘‘षष्ठीशेष’’ इति स्मृत्याषष्ठ्याश्शेषार्थत्वादिति भावः ।। अप्रधानेति ।। द्वितीयानिर्दिष्टास्तु प्रधानभूता इत्यर्थाल्लभ्यत इत्यनुक्तिः । तावता पञ्चजनत्वं प्रधानानामिति कुत इत्यत आह ।। न चेति ।। प्रयाजशेषेति ।। उक्तमधिकरणशरीरं ‘‘अनुकृते’’रित्यत्र । ‘‘अभिधारणे विप्रकर्षादनुयाजवत्पात्रभेदस्स्या’’दिति चतुर्थाद्यपादीयचतुर्दशाधिकरणे ‘‘प्रयाजशेषेण हवींष्यभिघारयती’’ति वाजपेयगतवाक्ये प्रातिपदिकानुरोधेन प्रत्ययास्वारस्यमुपेत्य प्रयाजशेषं हविष्षु क्षारयेदित्यर्थः समाश्रितः । तथेहापि पञ्चजनप्रातिपदिकस्वारस्याय ‘‘यस्मि’’न्निति सप्तम्या अपि प्रथमाद्यर्थत्वेनास्वारस्यमस्त्वित्यर्थः । ननु तत्र शेषेणेत्येकपद एव प्रातिपदिकप्रत्यययोस्स्वारस्यास्वारस्ये । इह तु न तथेति कथं दृष्टान्तः । सत्यम् । तयोस्स्वारस्यास्वारस्यमात्रे दृष्टान्तोयमित्यदोषः । यद्वा शेषप्रातिपदिकस्वारस्यार्थं हवींषीति द्वितीयाया अस्वारस्याङ्गीकारात्तदभिप्रायेणायं दृष्टान्तः । यस्मिन्निति प्रातिपदिकस्य पञ्चजनप्रातिपदिकस्य चैकार्थत्वात्तदभिप्रायेण वाऽयमिति ध्येयम् । ननु च तत्रोभयोरपि स्वारस्यमाश्रितम् । यदाह ‘‘उभयसंस्कारस्स्विष्टकृत्सूक्तवाकव’’दिति । मैवम् । गुरुमताभिप्रायेणैतदुक्तेस्तेन तस्यास्वीकारात् । भट्टमतेपि हविराधाननियमात्तत्संस्कारत्वम् । न तु कस्यचित्स्वारस्यानुरोधेनेति न कश्चिद्दोषः ।। वक्ष्यत इति ।। युक्तं चेत्यादिना । एतेन यत्परैः प्राणादयष्षष्ठ्यन्तनिर्दिष्टा एव ग्राह्या इत्युक्तं तन्निरस्तं भवति । एवं द्वितीयसूत्रभाष्यटीकाभिमतहेतूक्तया द्वितीयान्तनिर्दिष्टप्राणादीनामेव पञ्चजनत्वव्युत्पादनेन टीकायां द्वितीयांतप्राणादेर्ब्रह्मत्वसमर्थनेपि कुतस्तेषां पञ्चजनत्वमिति शङ्कां निरस्य इदानीं पूर्वपक्ष्युक्तं बाधकद्वयं क्रमेण निराचिकीर्षुर्बहुत्वसङ्ख्यानुपपत्तिबाधकं टीकोक्तपरिहारं गुहानये विवृतं मत्वा परिहारान्तरेण निराह ।। न चेत्यादिना साधितं चेत्यन्तेन ।। पूर्वपक्षिणैव समाधिं वाचयितुं प्रतिबन्दीमादत्ते ।। षष्ठीति ।। प्रतिशरीरं भेदादिति भावः । एकवचनादेकैक एवास्तु प्राणादिरित्यत आह ।। न हीति ।। एकस्यैवेति प्राणादेर्विशेषणम् । ततश्च किमित्यत आह ।। एवं चेति ।। प्रत्येकं प्राणादीनामानन्त्ये सतीत्यर्थः ।

एतेन बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोधः । पञ्चजनशब्देनाब्रह्मभूतषष्ठ्यन्तनिर्दिष्टप्राणादिग्रहणाद्यस्समन्वयसूत्रविरोधस्स नास्ति । कुतः । आकाशादिषु नानाभावात् । आदिपदोक्तप्राणादिषु नानाभावात् । प्रत्येकं तेषां नानात्वात् । बहुत्वात् । पञ्चजनशब्देन तेषां ग्रहणसम्भवादिति भाष्यखण्डस्यार्थान्तरमुक्तं भवति । परमुखेनोत्तरं वाचयति ।। अथेति ।। एकवचनेति ।। यथा चातुर्मास्येषु ‘‘एतेन वैश्वदेवेन यजेते’’त्यत्र प्रकृतानां वैश्वदेवपर्वगतानामष्टयागानामेकेन यजिनानुवादेनैकसमुदायकरणं यथा वा ‘‘राजा राजसूयेन यजेते’’त्यादौ प्रकृतेष्टिपशुसोमानामेकेन यजिना यथा वा द्युभ्वाद्यायतनत्वादीनामनेकत्वेप्येकवाक्योपात्ततयैकत्वं तथेति भावः ।। धर्मेति ।। प्रमाणानामनेकत्वेऽपि यथा प्रत्यक्षत्वादिना त्रित्वं तथेति भावः ।। पञ्चभिरिति ।। ‘‘प्राणस्य प्राण’’मित्यादिभिरित्यर्थः। एतेन सङ्ख्योपसङ्ग्रहादपि न विरोधः । तस्यैव भगवत एव नानाभावात् । प्राणमित्यादिनानाशब्दनिर्देशभावात् । प्राणप्राणदत्वादिनानाधर्माणां भावादित्यपि भाष्यखण्डस्यार्थान्तरमुक्तं भवति ।। यथेति ।। उक्तमधिकरणशरीरं गुहामित्यत्र ।। पञ्चापीति ।। ‘‘पञ्चप्रयाजास्त्रयोऽनुयाजा’’ इत्युक्तेरिति भावः । तत्र ‘‘एकादश प्रयाजान्यजती’’ति विकृतौ श्रुतसङ्ख्यासम्पत्तये तेषां पञ्चानां प्रयोगावृत्त्यैकस्य त्रिरन्येषां द्विरित्येकादशत्वमुच्यते ‘‘विवृद्धिभिः कर्मभेदा’’दित्यधिकरणे । तद्वदित्यर्थः ।। यथा चेति ।। विवृतमेतद्दाक्षायणयज्ञाधिकरणमानन्दमयाधिकरणे । दर्शपूर्णमासप्रकरणे श्रुते ‘‘दाक्षायणयज्ञेन यजेते’’ति वाक्ये दाक्षायणशब्दस्य ‘‘द्वे पौर्णमास्यौ द्वे अमावास्ये’’ इति वाक्यशेषबलेनावृत्त्यर्थत्वोक्तया यथैकमेव दर्शपौर्णमासाख्यं कर्मावृत्त्या द्वे इत्युच्यते तद्वदित्यर्थः । नन्वनेकत्वं भिन्ननिष्ठमित्यस्यौत्सर्गिकत्वेन पौर्णमास्यादौ क्वचिदन्यथात्वेऽपीहान्यगतस्य तस्य भगवदधीनत्वेनैवावरादिशब्दस्येव पञ्चजनादिशब्दस्यापि विष्णौ वृत्तिसम्भवात्किमेतत्क्लेशेनेत्यत आह ।। यथा चेति ।। तत्त्याग इति ।। हेतुसम्भवे त्यागायोगात्तदुपपादनमेवं कृतमिति भावः । ननु तथापि न मुख्यमनेकत्वं सम्भवतीत्यत आह ।। साधितं चेति ।। तत्र रूपभेदेनानेकत्वसमर्थनादिति भावः । एतेन ‘‘नानाभावा’’दित्येतदर्थोक्तिपरा ‘‘नानारूपत्वेने’’त्यादिटीका विवृता । ‘‘न च यस्मिन्नित्याधारस्ये’’त्यादिटीकां विवृण्वन्ब्रह्म न स्वाश्रितमित्येतदपि बाधकं निराह ।। युक्तं चेति ।। प्रतिशरीरं रूपबाहुल्यसाधनपूर्वं कालादौ विशेषबलादाधारत्वादिकमिवेहापि तद्बलादिति भावेनाह ।। एवं चेति ।। देशकालादावभेदेपि विशेषबलादाधाराधेयभावे प्रमिते सतीत्यर्थः ।। तद्गतेति ।। प्राणसञ्चरणाय शरीरगताकाशस्थस्यावकाशदातृरूपस्येत्यर्थः । अतिरिक्तत्वात् भिन्नत्वात् । भेदप्रतिनिधिविशेषवत्त्वादित्यर्थः । टीकोक्तेर्मूलमाह ।। तदुक्तमिति ।।

चन्द्रिकाबिन्दुः

अप्रधानपरतेति ।। द्वितीयान्तप्राणशब्दसामानाधिकरण्येनेति शेषः ।। न च यस्मिन्निति ।। सप्तम्या खलु ब्रह्मण आधारत्वं बोधितम् । तच्च पञ्चजनानामप्याधेयानां ब्रह्मत्वे न युज्यते । ब्रह्मणो ब्रह्माधारत्वायोगात् । तथा सप्तमीस्वारस्यार्थं पञ्चजनशब्दार्थः षष्ठीनिर्दिष्टप्राणादिरब्रह्मैवेति स्वीकर्तव्यमिति भावः ।। एकत्र हीति ।। एकत्वसङ्ख्याविशिष्टे ब्रह्मणीत्यर्थः ।। यथा चानेकत्वस्येति ।। यथा चानेकत्वसङ्ख्या भिन्नाश्रितेत्युत्सर्गः, तथा वैदिकसर्वशब्दानामपि प्रसिद्धनिमित्तस्य ब्रह्मगतत्वमित्युत्सर्गः । एवं च पञ्चजनशब्दोऽपि ब्रह्मगतप्रवृत्तिनिमित्ततयैव प्रवृत्तः बाधकाभावादिति भावः । सप्तमीविभक्तयस्वारस्यं न चेति वक्ष्यत इति यदुक्तं तदिदानीं दर्शयति ।। युक्तं च ब्रह्मण इति ।।

पाण्डुरङ्गि

एकस्येत्यस्य प्राणादेरित्यनेनान्वयः । नन्वौत्सर्गिकं ह्यनेकत्वसङ्ख्याया भिन्नवृत्तित्वम् । न चेहापादकमस्तीत्यत आह ।। यथा चानेकत्वस्येति ।। नन्वेवं सन्देह एव स्यादित्यत आह ।। साधितं चेति ।। किं चेत्यादिनोक्तं बाधकं परिहरति ।। युक्तं चेति ।।