एवं सार्थवादस्याप्यनुपपन्नेऽर्थे तात्पर्यादर्शनादुपपन्ने..

अर्थवादादुपपत्तेः प्राबल्यम्

तात्पर्यचन्द्रिका

एवं सार्थवादस्याप्यनुपपन्नेऽर्थे तात्पर्यादर्शनादुपपन्ने च तद्दर्शनादुपपत्तेः सर्वमूल-त्वादर्थवादादपि प्राबल्यम् । यथा ‘‘पृथगुपदेशात्’’ इत्यत्र सार्थवादाभेदश्रुतितो ‘‘भिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णः’’ इति सोपपत्तिक-भेदश्रुतेः । अत एव तत्र भाष्यं ‘‘सोपपत्तिककौशिकश्रुतेः’’ इति । उक्तं चानु-व्याख्याने ‘‘युक्तोऽयुक्तश्च यत्रार्थ आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थः’’ इति । सम्मतं चैतन्मीमांसकानामपि ‘‘नह्यशङ्कनीयमर्थं विधिरपि विदधाति’’ इति वदताम् ।

प्रकाशिका

‘‘उपपत्तेः सर्वमूलत्वेन सर्वतः प्राबल्यम्’’ इति टीकां विवृण्वानोऽर्थ-वादादुपपत्तेः प्राबल्यं हेतूदाहरणोक्त्योपपादयति ।। एवमिति ।। अदर्शनादिति ।। तत्त्वमसीत्यादेरद्वैतादौ । दर्शनात् द्वैतवाक्यानां द्वैतादौ । यद्वा लोके तथा दर्शना-दित्यर्थः । एतेनोपपत्तेः सर्वमूलत्वादिति टीकांशोऽनूद्य सार्थवादस्येत्यादिनोपपादितो भवति ।। यथेति ।। द्वितीयस्य तृतीयपादे ‘‘पृथक्’’ इति चतुर्दशाधिकरणे जीवः परमात्मनो भिद्यते न वेति सन्देहे ‘‘येनाश्रुतं श्रुतं भवति’’ इत्याद्यर्थवादादिषड्विध-तात्पर्यलिङ्गोपेतात्तत्वमसीत्याद्यभेदवाक्यान्न भिद्यत इति प्राप्ते पूर्णत्वादिविरुद्धधर्मवत्त्व-रूपयुक्त्युपेतभेदश्रुतेर्भिद्यत एव । ऐक्यश्रुतिस्तु परमात्मगुणसदृशज्ञानानन्दादिगुण-रूपत्वात्सिंहश्चैत्र इतिवद्गौण्या वृत्त्योपपद्यत इति सिद्धान्तितत्वादिति भावः ।। भेदश्रुतेरिति ।। प्राबल्यमित्यन्वयः । अत एव उपपत्तियुक्तायाः प्राबल्यादेवेत्यर्थः । ननु ‘‘तर्काप्रतिष्ठानात्’’ इत्यादिनोपपत्तेर्दूषितत्वेन कथं तस्याः प्राबल्योक्तिरित्यतः स्वतन्त्राया दुर्बलत्वेऽपि श्रुतिसहकारिण्यास्तु प्राबल्यमेवेति भावेनाह ।। उक्तं चेति ।। न केवलं तात्पर्यगत्या लभ्यत इत्यर्थः । युक्तिपादे ‘‘न विलक्षणत्वात्’’ इत्यधिकरणे युक्तेः श्रुतिसाहाय्येन प्राबल्यमुक्तमित्यर्थः । यथेक्षतेरिति नये ‘‘यतो वाचो निवर्तंत’’ इति श्रुतितः ‘‘सर्वे वेदाः’’ इत्यादिश्रुतिसहायेक्षणीयत्वयुक्तेः प्राबल्यम् । तत्वप्रदीपे त्वर्थवादोऽप्युपपत्तिबलेन नीयते । यथा प्राणगः प्रतीतः सर्वोत्तमत्वार्थवादस्तदसम्भाव्य-धर्मैरन्तर्यामिविषयो भवति । यथा चेन्द्राग्न्यादिगः प्रतीतः सर्वोत्तमत्वार्थवादस्तस्मिन्नेव प्रकरणेऽन्यत्र वा तेषां हीनत्ववचनाद्युपपत्त्या विष्णुपरोऽवसीयत इति ।। सम्मतमिति ।।

प्रागुक्ते ‘‘अर्थाद्वा कल्पनैकदेशत्वात्’’ इति स्रुवाधिकरणे ‘‘स्रुवेणावद्यति’’ इत्यत्र विधेरपि सामर्थ्यरूपोपपत्त्यनुवर्तनं वदतां, तेन न्यायेनार्थवादानां तदनुवर्तनं सम्मतमित्यर्थः ।

चन्द्रिकाबिन्दु

सार्थवादेति ।। ‘‘तस्य तावदेव चिरम्’’ इत्याद्यभेदार्थवादः । तत्र पृथगुपदेशादित्यस्मिन्नधिकरणे । अशङ्कनीयमिति । कर्तुमनुपपन्नमित्यर्थः ।

पाण्डुरङ्गि

अर्थवादादप्युपपत्तेः प्राबल्यमाह ।। एवमिति ।। तत्र हेतुः उपपत्तेः सर्वमूलत्वादिति ।। तत्रोदाहरणमाह ।। यथा पृथगिति ।। सम्मतं चैतदिति ।। अर्थवादापेक्षयोपपत्तेः प्राबल्यमित्यर्थः ।। विधिरपीति ।। किमुतैकवाक्यतापन्नस्तदुप-जीव्यर्थवादोनुपपन्नार्थं न तात्पर्येण गोचरयतीत्यर्थः ।

Load More