पूर्वत्र प्राणानां सङ्ख्या विचारिता

अण्वधिकरणम्

तात्पर्यचन्द्रिका

।। ॐ अणवश्च ॐ ।।

पूर्वत्र प्राणानां सङ्ख्या विचारिता । तदनन्तरं परिमाणं विचार्यत इति सङ्गतिः । अत्र ब्रह्मणः श्रुतिसमन्वयेनोक्तं गुणपूर्त्यादि किं न युक्तमुत युक्तमिति चिन्ता । तदर्थं किं प्राणाणुत्वश्रुतिरप्रमाणमुत नेति । तदर्थं किं प्राणाणुत्वश्रुतिः प्रबलव्याप्तिश्रुतिबाधितोत नेति । तदर्थं किं व्याप्तिश्रुतिः स्वरूपव्याप्तिपरोत प्रकाशव्याप्तिपरेति । भाष्योक्तां युक्तिमाह ।। अतिसुदृढं हीति ।। न्यायविवरणोक्तां तामाह ।। किञ्चेति ।। मानाभावादिति ।। स एवायं शब्द इत्यादिबुद्धिबाधाच्चेत्यपि ग्राह्यम् ।। श्रोत्रस्यैव गमनोपपत्तेरिति ।। क्वचिच्छब्दादौ देशसन्देहस्तु रूपादाविव दोषबलाद्युक्तः । ब्रह्मभाषितादीनामग्रहणमपि ब्रह्मरूपादीनामग्रहणवद्युक्तम् । यथा हि चक्षुषो गमनं कार्यानुसारेण सङ्कुचितं कल्प्यते तथा श्रोत्रस्यापीति भावः । अन्यत्र घ्राणाद्यारम्भे । अन्ये तु साङ्ख्यमत इन्द्रियाणामाहङ्कारिकत्वादहङ्कारस्य च जगन्मण्डलव्यापित्वात्सर्वगताः प्राणा इति पूर्वपक्षितवन्तः । तन्न । श्रुत्योः परस्परविरोधनिरासकेऽस्मिन् पादे साङ्ख्यस्मृतिविरोधनिरासस्यासङ्गतेः । त्वन्मते कारणस्य शुद्धस्याविद्यावच्छिन्नस्य वा ब्राह्मणो विद्याया वाऽनणुत्वेऽपि कार्यस्य मनसोऽनणुत्ववत् कारणस्याहङ्कारस्य व्यापित्वेऽपि कार्याणां प्राणानामव्यापित्वस्योपपत्त्या पूर्वपक्षानुदयाच्च ।।

प्रकाशिका

पूर्वोत्तरपक्षटीकासूचितचिन्ता आह ।। अत्रेति ।। ननु श्रोत्रस्य चक्षुष इव गत्वादिशब्दग्रहणे कुत्रत्यः किमीय इति देशविशेषादिसन्देहो न स्यादित्यत आह ।। क्वचिच्छब्देति ।। तर्ह्यतिदूरशब्दश्रवणमपि स्यादित्यत आह ।। यथा हीति ।। अन्यत्रेत्यनुवादेन घ्राणादीति व्याख्या । पूर्वपक्षांशमात्रमनूद्य निराह ।। अन्ये त्विति ।। सिद्धान्ते प्राणानामणुत्वोक्तिर्न विरुद्धा । तथा सर्वेऽनन्ता इत्यादिश्रुत्या प्राणानंत्येन पूर्वपक्षे तदणुत्वेन सिद्धान्तयतां केषाञ्चिदपि पक्षो न विरुद्ध इति भावः ।।

चन्द्रिकाविवृतिः

।। ॐ अणवश्च ॐ ।। भाष्योक्तां युक्तिमिति ।। न्यायविवरणोक्तां तामाहेति च । यद्यप्यतिदृढत्त्वसुयुक्तिसूचकं दिवीवेति वाक्यं भाष्य इव न्यायविवरणेऽप्युदाहृतम् । दूरदर्शनादियुक्तिश्च भाष्य एवोक्ता । न तु न्यायविवरण इति ।। इदमयुक्तमिवाभाति । तथापि पूर्वपक्षसिद्धान्तयोरुभयत्रापि दृष्टान्तप्रतिपादकवाक्योदाहरणेन सुदृढत्त्वयुक्तिरेवाभिप्रेता । न्यायविवरणे पूर्वपक्षे दृष्टान्तप्रतिपाद-कदिवीवेति वाक्योदाहरणेऽपि सिद्धान्ते तादृशवाक्यानुदाहरणेनाणूनीह वा इमानि करणानि एतेषां प्रकाशो व्याप्त इति श्रुत्युदाहरणेन प्रकाशव्याप्त्या दूरदर्शनादियुक्तेरन्यथासिद्धिः सूचिता । पूर्वपक्षेऽपि न्यायविवरणे सैव युक्तिरभिप्रेतेत्यदोषः ।। अन्यत्तु स्फुटम् ।।