पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
।। पूर्वपक्षस्तु ।। अयं ब्राह्मणोविरिञ्चः । ‘‘स वा एष महानज आत्मे’’त्यजशब्दात् । न च वाच्यमजशब्दो न जायत इत्यज इति विष्णौ यौगिकः । विरिञ्चेऽप्यकारवाच्यविष्णुजातत्वाद्यौगिक इति । विरिञ्चे रूढेरपि सत्त्वात् । योगरूढेश्च योगमात्रात्प्राबल्यात् । टीकायां ब्राह्मणशब्देन सहपठितस्याजशब्दस्यानवकाशत्वोक्तिस्त्वजशब्दमात्रस्य सावकाशत्वमभ्युपेत्य । एवं च ‘‘ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य परमात्माभेदं विनाऽवकाशराहित्या’’दिति न्यायविवरणे ब्राह्मणश्रुतितो भाष्ये चाजश्रुतितो विरिञ्चप्राप्तेरुक्तत्वेन तयोर्विरोध इति निरस्तम् । निरपेक्षयोः श्रुत्योर्विप्रत्वजातौ विष्णौ च सावकाशत्वमुपेत्यानवकाशत्वाय श्रुत्योः साहित्यस्य च विवक्षितत्वादिति टीकाभिप्रायः ।
यद्वा ‘‘तस्मादहमजः स्मृत’’ इति भारतवचनादजशब्दस्य विष्णौ रूढेरपि सत्त्वाद्ब्राह्मणशब्दसाहित्योक्तिः । महच्छब्दोऽप्यभिमान्यधिकरणन्यायेन महत्तत्वाभिमानिनि विरिञ्चे मुख्यः । न तूत्कृष्टत्वमात्रवाची । विशेषपरत्वसम्भवे सामान्यपरत्वायोगात् । आत्मशब्दोऽपि ‘‘आत्माविरिञ्चः सुमना’’ इति वचनात् ‘‘बुद्धेरात्मामहान्पर’’ इति प्रयोगाच्च विरिञ्चे रूढः । न च ‘‘विष्णोर्ब्राह्मणजातिः सन् जज्ञे ब्रह्मा चतुर्मुख’’ इति वचनाच्चतुर्मुखे ब्राह्मणत्ववर्णसम्भवेऽपि ‘‘अगोत्रमवर्ण’’मित्यादिश्रुतिभिर्विष्णौ तदसम्भवेऽपि ‘‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपति’’रित्यादिविष्णुलिङ्गैर्ब्राह्मणशब्दो ‘‘ब्रह्मणा वेदेन गम्यत’’ इति न्यायविवरणोक्तरीत्या विष्णौ यौगिक इति वाच्यम् । विरिञ्चस्य विष्ण्वभेदेऽपि तल्लिङ्गोपपत्तेस्सावकाशश्रुतेर्निरवकाशलिङ्गानां चाबाधेनोपपत्तौ बाधायोगात् ।
न च श्रुतिलिङ्गाबाधाय मुख्यत्वाय च ‘‘अज आत्मे’’त्यादिकं विरिञ्चविषयम् । सर्वस्य वशी’’त्यादिकं तु विष्णुविषयमिति वाच्यम् । गङ्गाघोषादाविवैकवाक्यत्वायामुख्यार्थत्वस्यैवोचितत्वात् । न च पूर्वत्र जीवादिवात्र विरिञ्चाद्भेदो व्यपदिष्टः । न च जीवैरभेद इव विरिञ्चेनाभेदे बद्धमुक्तादिव्यवस्थानुपपत्तिरस्ति । ‘‘स त्रेधा बभूवैषां गुणानामुपादानाय । विष्णुर्वाव सत्वस्य रजसो ब्रह्मा ईशानो नामतमस’’ इत्यादिश्रुतिभिः ‘‘स्थित्यादये हरिविरिञ्चहरेति संज्ञा’’ इत्यादिस्मृतिभिश्चाभेदोक्तेश्च ।
न च सा ‘‘शास्त्रदृष्ट्ये’’त्युक्तन्यायेनान्तर्याम्यभेदाभिप्राया । नापि ‘‘तद्गुणसारत्वा’’दिति वक्ष्यमाणन्यायेन सादृश्याभिप्राया । तयोर्जीवमात्रसाधारण्येन विशिष्याभेदोक्तययोगात् । अत एव टीकायां पूर्वाधिकरण पूर्वपक्षे ‘‘तत्त्वमसी’’त्यादिजीवेश्वराभेदवाक्यं नोक्तम् । अत्र तु ‘‘सृष्ट्यादय’’ इति विष्णुहिरण्यगर्भाभेदवाक्यमुक्तम् ।
प्रकाशिका
अत्र टीकाया भाष्यदिशा शब्दात् पूर्वपक्षप्राप्तिमुक्त्वा तस्य सावकाशत्वमाशंक्य ब्राह्मणशब्दसाहित्येनानवकाशत्वमुक्तम् । तत्राजश्रुतेस्स्वत एव चतुर्मुखप्रापकत्वोपपादनेन भाष्यस्वारस्ये सम्भवति भाष्येऽनुक्तस्यापि ब्राह्मणपदसाहित्येनानवकाशत्वस्योक्तिरभ्युपगमवादेनेति भावेन पूर्वपक्षटीकां व्यनक्ति ।। अयं ब्राह्मण इति ।। अजशब्दमात्रस्य केवलाजशब्दस्येत्यर्थः । ननूक्तदिशाऽजशब्दस्यान्यानपेक्षेणैवानवकाशत्वसम्भवेऽभ्युपगमवादो व्यर्थ इत्यत आह ।। एवं चेति ।। तथाच टीकायां विरोधपरिहारार्थमेव तथोक्तम् । न तूक्तदिशाऽनवकाशत्वं नेतीति भावः । ‘‘स न साधुना कर्मणा भूयान्नोवाऽसाधुना कनीया’’नित्युक्तपापालेपलिङ्गस्येत्यर्थः । नन्वजशब्दस्यैवानवकाशत्वसम्भवे तस्य चतुर्मुखपरत्वलाभायान्यसाहित्यापेक्षाभिप्रायेण न्यायविवरणे ब्राह्मणशब्दोक्तिर्व्यर्थेत्यत आह ।। यद्वेति ।। महत्तत्वेत्यादिटीकां व्यनक्ति ।। महदिति ।। ‘‘आत्मशब्देन सहश्रवणाद्विष्णुवाची किं नस्या’’दिति टीकोक्तशङ्कां हृदि कृत्वा तदुक्तमेव समाधिमाह ।। आत्मशब्दोऽपीति ।। इति प्रयोगाच्च काठक इत्यर्थः । न्यायविवरणोक्ताभेदप्रपञ्चनाय प्रवृत्तां तथाहीत्यादि टीकां विवरीतुं शङ्कामाह ।। न चेति ।। विष्णोरित्यादिना ब्राह्मणशब्दनिरवकाशत्वानुवादग्रन्थेन ‘‘वर्णादि शून्यादीश्वराद्व्यावर्तमानस्य ब्राह्मणशब्दस्ये’’त्यादि टीका विवृता ।। इत्यादिविष्णुलिङ्गैरिति ।। सौत्रत्वादेतदुक्तिः । ‘‘पापालेपलिङ्गस्ये’’ति न्यायविवरणोक्तिः ‘‘नित्यमहिमत्वलिङ्ग’’मिति भाष्यटीकोक्तिश्चोपलक्षणमिति भावः । सूत्रे तस्य साक्षादनुक्तेः ।। ब्रह्मणा वेदेनेति ।। स्वरव्यत्यय आधिक्यार्थ इत्यर्थः ।। न्यायविवरणेति ।। सिद्धान्त इत्यर्थः ।। अबाधेनेति ।। यौगिकार्थग्रहणे रूढार्थबाधादिति भावः । एवं च रूढ्या विरिञ्चे योगेन विष्णौ श्रुतेस्सावकाशत्वेऽपि रूढार्थाबाधेनैक्यपरत्वेनैव रूढ्या विष्णौ निरवकाशश्रुतेश्चतुर्मुखेऽनवकाशलिङ्गानां चोपपत्तौ न श्रुते रूढार्थबाधः कार्य इत्यर्थः । एतेन न्यायविवरणे टीकायां च श्रुतेरनवकाशत्वोक्तेस्सावकाशश्रुतेरित्युक्तिस्तद्विरुद्धेति निरस्तम् । नन्वेवमन्तर्नयादिषूदाहृतेन्द्रादिश्रुतीनां समुद्रशायित्वादिलिङ्गानां च श्रुते रूढार्थाबाधेनाभेद एवाश्रीयतामिति वाच्यम् । तत्रेवेहभेदव्यपदेशरूपबाधकाभावादिति भावः । अत एव वक्ष्यति ‘‘न च पूर्वत्रे’’त्यादि । ‘‘न च भिन्नतयोभयग्रहणेनोपपत्तिः । एकनिष्ठत्वा’’दिति टीकां विवृण्वन्नभेदं विनाऽपि श्रुत्यादेरुपपत्तिमाशङ्क्य निराह ।। न चेति ।। गङ्गेति ।। यथा गङ्गायां घोष इत्युक्ते गङ्गायां मत्स्यस्तीरे घोष इति वाक्यभेदो न कल्प्यते किं तु लक्षणयैकवाक्यत्वं तद्वदित्यर्थः । श्रुतिलिङ्गान्वयानुपपत्तिरूपाभेदसाधकार्थापत्तिर्न श्रुतिबाधितेत्याह ।। न च पूर्वत्रेति ।। एतेन पूर्वेणागतार्थत्वं चोक्तम् । तर्कपराहतिश्चार्थापत्तेर्नास्तीत्याह ।। न च जीवैरिति ।। एतेन पूर्ववैषम्येणापि पूर्वपक्ष उक्तो ध्येयः । न केवलमर्थापत्त्यैवाभेदसिद्धिरागमादपीति भावेनार्थापत्तेर्मूलमप्याह ।। स त्रेधेति ।। तृतीयस्कन्धैकादशाध्यायतात्पर्योक्तेयं श्रुतिः । एतेन ‘‘सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्यधत्ते । स्थित्यादये हरिविरिञ्चहरेति संज्ञा इत्यादेश्चे’’ति टीकोक्तादिपदार्थो विवृतः । स्थित्यादय इति भागवते । नयान्तरेणास्यागतार्थत्वाय श्रुत्यादावभेदोक्तेरन्यथासिद्धिमाशङ्क्य निराह ।। न च सेति ।। विशिष्येत्युक्तसमाधिष्टीकाकृत्सम्मत इत्याह ।। अत एवेति ।। तत्त्वमसीत्यादेर्गतेर्वक्ष्यमाणत्वादेव विशिष्य भेदोक्तेर्गत्यनुक्तेरेव चेत्यर्थः ।
चन्द्रिकाबिन्दुः
नन्वजशब्दस्य विरिञ्चपरत्वे न यौगिकत्वं, विष्णुपक्षे तु यौगिकत्वं अतो न विष्णुर्गृह्यत इत्यत आह ।। विरिञ्चेऽपीति ।। ननु योगरूढिबलादेवाजशब्दस्य चतुर्मुखपरत्वमिति पूर्वपक्षसम्भवे किमिति ब्राह्मणशब्दसहकारादिव्युत्पादनपूर्वकमजशब्दस्य चतुर्मुखपरत्वव्युत्पादनमित्याशङ्क्याह ।। टीकायामिति ।। एवं सौलभ्येन पूर्वपक्षसम्भवे किमिति विष्णाववकाशमभ्युपेत्य पूर्वपक्षकरणमित्यत एवमभ्युपगमेन पूर्वपक्षे प्रयोजनं दर्शयति ।। एवं चेत्यादिना ।। श्रुत्योरिति ।। ब्राह्मणश्रुत्यजश्रुत्योरित्यर्थः । ननु एकैकत्रैकग्रहणेऽपि न विरोधः । ब्राह्मणश्रुत्यजश्रुत्योः प्रत्येकमपि विरिञ्चिसाधकत्वमस्तीत्यभिप्रायेण तदुपपत्तिरित्यस्वरसात् पक्षान्तरमाह ।। यद्वेति ।। सर्वाधिपतित्वादिलिङ्गेन श्रुतिबाधो न युक्तः । उभयाबाधेनोपपत्तौ अन्यतरबाधस्यान्याय्यत्वादित्यभिप्रेत्याह ।। विरिञ्चस्य विष्ण्वभेदेऽपीति ।। सावकाशश्रुतेरिति ।। अजश्रुतेरित्यर्थः । न च भिन्नतयोभयग्रहणेनोपपत्तिः । एकनिष्ठत्वादित्येतद्वाक्यार्थमाह ।। न च श्रुतिलिङ्गाबाधायेति ।। मुख्यत्वायेति ।। सर्वाधिपतित्वादीनां विष्णुविषयत्वे मुख्यत्वादित्यर्थः । पूर्वाधिकरणेन गतार्थत्वं परिहरति ।। न च पूर्वत्रेति ।। जीवैरिति ।। वाक्यद्वयेन व्यवस्थानुपपत्तिरिति भावः ।। अस्तीति ।। विरिञ्चस्यापीशत्वेन बन्धस्यैवाभावादिति भावः । तयोः अन्तर्यामिभेदतद्गुणसारत्वाख्यसादृश्ययोः । विशिष्य चतुर्मुखमात्रं गृहीत्वा ।। अत एवेति ।। जीवब्रह्माभेदवाक्यसाधारणस्याधिकरणद्वयन्यायेन सावकाशत्वादेव । विशेषवाक्यप्रबलत्वेन तन्न्यायविषयत्वेनेत्यर्थः । अन्यथा पूर्वमपि तत्त्वमस्यादिवाक्यमुदाह्रियेतेति भावः ।
पाण्डुरङ्गि
ननु ब्रह्मणि ब्रह्मशब्दस्य यौगिकत्वाच्चतुर्मुखे च योगरूढत्वाद्योगमात्रापेक्षया योगरूढेः प्राबल्येनाजशब्दस्यैव विषणावनवकाशत्वाभिधाने टीकाविरोधः । तत्र केवलस्याजशब्दस्य विष्णौ सावकाशत्वेऽपि ब्राह्मणशब्देन सहपठितस्याजशब्दस्य विष्णावनवकाशत्वाभिधानादित्यत आह ।। टीकायामिति ।। अभ्युपेत्योक्तेः किं प्रयोजनमित्यतो भाष्यन्यायविवरणयोरविरोधोपपादनमित्याह ।। एवं चेति ।। टीकाया ब्राह्मणशब्देन सहपठितस्याजशब्दस्यानवकाशत्वोक्तेरभ्युपेत्य वादत्वे टीकाया गौणत्वं भवतीत्यतष्टीकास्वारस्याय पक्षान्तरमाह ।। यद्वेति ।। तथाचाजशब्दस्योभयत्रापि योगरूढत्वेन सावकाशत्वादनवकाशत्वार्थं ब्राह्मणशब्दसाहित्येनाजशब्दस्य विष्णावनवकाशतोक्तिर्युक्तेत्यर्थः ।
ननु स वा एष महानज आत्मेति वाक्ये महच्छब्दस्य सत्त्वात्तस्य चोत्कृष्टार्थत्वादुत्कर्षस्य च बाधाभावे सङ्कुचितत्वासम्भवात् असङ्कुचितोत्कर्षस्य च ब्रह्मण्येव सत्त्वेनाजशब्दस्य विरिञ्चपरत्वे तत्समानाधिकरणतया श्रुतस्य महच्छब्दस्य विरोधापत्त्या न विरिञ्चस्याजशब्दार्थत्वमित्याशङ्क्य स्यादेवं यदि महच्छब्दस्योत्कृष्टार्थत्वं स्यात्तदेव नास्तीत्याह ।। महच्छब्दोऽपीति ।। विरिञ्चस्यैवाजशब्दार्थत्वे आत्मश्रुतिविरोध इत्यत आह ।। आत्मशब्दोऽपीति ।। नन्वभेदाभावेऽपि श्रुतिलिङ्गाबाधः सम्भवतीत्यभेदः किमर्थमित्याशङ्कते ।। न चेति ।। पूर्वाधिकरणन्यायाविषयत्वमाह ।। न च पूर्वत्रेति ।। पूर्वत्रेवाऽत्र बाधकाभावाच्च नाभेदस्त्याज्य इत्याह ।। न चेति ।। अत एवेति ।। अभेदोक्तिमात्रस्यान्तर्यामिपरत्वस्य सादृश्याभिप्रायत्वसत्त्वेऽपि विशिष्याभेदोक्तेरन्तर्यामिपरत्वस्य वा सादृश्याभिप्रायत्वस्य वाऽसम्भव इति टीकाभिप्रेतत्वादेवेत्यर्थः ।