द्वितीयतृतीयौ तु पूर्वपक्षौ..

द्वितीयतृतीयचतुर्थपूर्वपक्षाणां निरास:

तात्पर्यचन्द्रिका

द्वितीयतृतीयौ तु पूर्वपक्षौ प्रकृत्यधिकरणेऽनुव्याख्यानाद्युक्तेन विवर्तविशिष्टमतनिरासकन्यायेन निरस्तौ । चतुर्थोऽप्ययुक्तः । यतः–

विचित्रशक्तियोगित्व विरुद्धगुणभागिते ।

श्रूयेते ब्रह्मणो यद्वन्न तथा प्रकृतेः क्वचित् ।। १ ।।

न हि मानं विना दृष्टान्तमात्रेण मेयसिद्धिः । पञ्चमोप्ययुक्तः । उक्तप्रकारेणाक्लिष्टे ब्रह्मपक्षे सम्भवत्येकस्य चेतनरूपांशस्येक्षितृत्वादि अन्यस्य त्वचेतनरूपांशस्योपादानत्वादि अंशिनस्तु सतो न किमपीत्यस्यातिक्लिष्टस्य कल्पनस्यायोगात् । सूत्रे कर्मपदं तु सिद्धान्तेपि ‘‘ऐक्षते’’तीक्षणकर्तृत्वव्यपदेशो न युक्तः । स्वरूपातिरिक्तेक्षणक्रियाभावादिति शङ्कायां विशेषबलात्क्रियाकर्तृभाव इति दर्शयितुम् । एतदेवाभिप्रेत्य टीकायां ‘‘ईक्षत्याख्यव्यापारे’’त्युक्तम् । यद्वा सौत्रः कर्मशब्दः ‘‘न कर्तृत्वं न कर्माणी’’त्यादाविव सृष्ट्यादिक्रियापरः । तथा च प्रधानपक्षे न केवलमीक्षितृत्वस्यायोगः किं तु स्रष्टृत्वादेरपीति दर्शयितुम् । यद्यप्यत्र सूत्रान्तर इव समन्वयसूत्रस्थो ब्रह्मपरस्तच्छब्दोऽनुषंगार्हः । तथापि ‘‘एको नारायण आसीत् । स मुनिर्भूत्वा समचिन्तय’’दित्यादिश्रुतिषु यः कारणत्वेन निर्णीतः स एवात्राप्युच्यत इति समाख्यानमपि प्रमाणीकर्तुं स इत्युक्तम् ।

प्रकाशिका

एवं टीकोक्तविवरणेनाद्यपक्षं निरस्येक्षणादिकमतात्विकमिति पक्षं तात्विकमेवेति पक्षं चान्यत्रोक्तदोषेण निराह ।। द्वितीयेति ।।

यच्चाविकृतमेवैकं ब्रह्म विश्वात्मना मृषा ।

दृश्यते मन्ददृष्ट्यैव ससर्ग इति कथ्यते ।।

सा मंददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ।

ब्रह्मणश्चेत्क्व सार्वज्ञमन्यगा चेत्स्वतोऽन्यता ।। इत्यादिना ब्रह्मविवर्तमतस्य

न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ।

अविकारस्सदा शुद्धो नित्य आत्मा सदा हरिः ।।

इत्यादिना विकारमतस्यानुव्याख्यानसुधयोर्निरासात् दृष्टान्तस्यैवासंमत्या निरस्तावित्यर्थः । यद्वा तत्र हि ब्रह्मणो विवर्तत्वं प्रपञ्चस्य तद्घटकाज्ञानस्य ब्रह्माश्रितत्वादिविकल्पानुपपत्तेः सत्यत्वग्राहिप्रत्यक्षादिविरोधाच्च निराक्रियते । ब्रह्मविकारत्वं च निर्विकारश्रुत्यादिनाऽपाक्रियते । प्रधानस्यैवंविधत्वं वदता पूर्वपक्षिणा तु ब्रह्मस्थाने प्रधानमेवाभिषिक्तमिति तत्रोक्तदोषास्सर्वे प्रधानेऽपि तुल्या इति तन्न्यायेन निरस्तावित्युक्तम् । तथाहि । ब्रह्मणस्सर्वज्ञत्वेन तदाश्रितस्य वा जीवस्याज्ञानकल्पितत्वेनान्योन्याश्रयापत्त्या जीवाश्रितस्य वाऽज्ञानस्यासम्भवेन ब्रह्मण्यज्ञानाधीनातात्विकजगद्रूपतावभासस्य विशिष्टोपादानमते विशेष्यस्य ब्रह्मत्वेऽप्यविकारित्वेन विशेषणस्य विकारित्वेऽप्यब्रह्मत्वेन ब्रह्मणस्तात्विकजगदाकारपरिणामलक्षणविकारस्यानुपपत्ते’’रित्यादिना तन्मतद्वयं निरस्यते । तथाच प्रधानस्यैव ब्रह्मसार्वज्ञादिश्रुतिविषयत्वस्य वक्तव्यत्वात्तत्राप्यज्ञाननिबन्धनस्यैवारोपस्य वाच्यत्वादुक्तदोषा योज्या इति । जाड्येक्षणादेः प्रधानेऽप्यविरोधोऽस्त्विति पक्षं दृष्टान्तवैषम्योक्तया निराह ।। चतुर्थोपीति ।। यत इत्यस्य श्लोकेनान्वयः । ‘‘विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशास्स्युः । अणोरणीयान्महतोमहीया’’नित्यादिना श्रूयेते । न चैवं प्रकृते । तदैक्षतेत्यादिश्रुतिस्तूक्तदिशा ब्रह्मपरेति श्रौतत्वादिति प्रागुक्तो हेतुरसिद्ध इति भावः । अयं च समाधिः–

सर्वधर्मा सर्वनामा सर्वकर्मा गुणाश्श्रुताः ।

दोषाश्श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ।।

इत्यक्षरनयानुभाष्येऽस्थूलत्वादिविरुद्धधर्मवत्त्वे प्रमाणोक्तया सूचितः । विपक्षे व्याघातसूचनाय मानं विना मेयसिद्धिरिति मानमेयपदोक्तिः । अंशविभागेनोभयोपादानमयुक्तमित्याह ।। पञ्चमोपीति ।। अत्र यद्यपि–

भागेन परिणामश्चेद्भागयोर्भेद एव हि ।

यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ।।

इत्याद्युत्तरपादीयानुव्याख्यानोक्तन्यायेन तन्निरासोऽपि प्रतीयते । तथापि दोषान्तरोक्तिरियमिति । एतेन भाष्यकारीयफलाक्षेपोऽपि समाहितो ध्येयः । नन्वत्र सूत्रे ‘‘ईक्षतेर्नाशब्द’’मित्यत्रेवेक्षतेस्स इति वा ईक्षतिव्यपदेशात्स इति वा वक्तव्यम् । लाघवात् । न तु कर्मेति । व्यर्थत्वात् । न च परमत इवेक्षतिं प्रति कर्मत्वरूपोऽर्थोऽभ्युपेयते । किं चाध्यायपरिसमाप्तिसमन्वयसूत्रात्तत्त्वित्यस्य साध्यनिर्देशकस्यानुवर्तमानत्वात्स इत्यपि व्यर्थम् । न च स इत्येतद्धर्मिनिर्देशपरमेव । न साध्यनिर्देशपरमिति वाच्यम् । सदित्यस्यैव धर्मिपरत्वेनेक्षतिकर्मव्यपदेशात्सदिति निर्देशापातात् । ‘‘स एवेश्वरस्सच्छब्दोक्तो न प्रधान’’मिति तत्वप्रदीपविरोधाच्चेत्यतः कर्मपदसार्थक्यं तावदाह ।। कर्मपदं त्विति ।। ‘‘तत्तेजोऽसृजतेति तत्पूर्वककर्मव्यपदेशान्नामरूपे व्याकरवाणी’’त्यादिना चेक्षतिपूर्वव्याकरणादिकर्मव्यपदेशात्स एवेश्वरस्सच्छब्दोक्त’’ इत्यादि तत्वप्रदीपानुरोधात्पक्षान्तरमाह ।। यद्वेति ।। ‘‘न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु’’रिति गीतायां कर्मपदस्य ‘‘क्रियायामदृष्टोत्पादने फले च स्वातन्त्र्यं लोकस्य न सृजतीश्वर’’ इत्यदृष्टोत्पादनादिपरत्वेन गीतातात्पर्ये भगवत्पादैर्व्याख्यानादिति भावः । एतेन ब्रह्मधर्मेक्षणकर्मसन्दष्टो बहुभावोपि ब्रह्मण्येव कथञ्चिन्नेय इति सूचितमिति ततोपि कर्मपदसार्थक्यं ध्येयम् । स इत्येतदाक्षिप्य समाधत्ते ।। यद्यपीति ।। एतेन यदुक्तं श्रुतप्रकाशे ‘‘अत्र स इत्युक्तिरस्मिन्पादे सर्वाधिकरणे साध्यप्रतिज्ञानुवृत्त्यर्था । यथाद्यपादे भेदव्यपदेशाच्चान्य इत्यन्यशब्दोक्तिः द्वितीयेऽत एव च सब्रह्मेति ब्रह्मशब्दोक्तिः चतुर्थपादे च वदतीति चेन्न प्राज्ञो हीति प्राज्ञशब्दोक्ति’’रिति तन्निरस्तम् । समन्वयसूत्रस्थतत्पदस्यैव समन्वयपराधिकरणेष्वादितः सर्वत्रानुवृत्तिसम्भवे प्रतिपादं तदुक्तिवैयर्थ्यात् । पादेष्वादावेव साध्यनिर्देशकस्य वक्तव्यत्वेन मध्ये निर्देशायोगात् । ब्रह्मादिपदेनैव साध्यनिर्देशौचित्येनान्यशब्देन तन्निर्देशायोगाच्च । प्रथमपादेऽन्यशब्दस्यात्र स इति तच्छब्दस्य च कृत्यान्तरसम्भवाच्च । अत एव च सब्रह्मेति सूत्रस्यासांप्रदायिकत्वेन प्रक्षिप्तत्वाच्चेति ।।

पाण्डुरङ्गि

।। द्वितीयतृतीयौ त्विति ।। ईक्षणमतात्विकं स्वाभिमानिचेतनविशिष्टस्य तात्विकमिति द्वितीतृतीयावित्यर्थः ।। चतुर्थ इति ।। अणुत्वमहत्त्ववदीक्षणविकारावपि श्रौतत्वात्प्रधाने न विरुद्धाविति चतुर्थ इत्यर्थः । पञ्चमः अंशभेदेनेक्षणविकारावविरुद्धाविति पञ्चम इत्यर्थः । एकस्य चेतनरूपांशस्येक्षितृत्वादीत्यादिपदेन स्रष्टृत्वसङ्ग्रहः । उपादानत्वादीत्यत्रत्येनाचेतनत्वपरिग्रहः ।