पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु । इदं सत्प्रधानमेव । न तु ब्रह्म । ‘‘बहुस्यां प्रजायेये’’ति सति श्रुतस्य विकारस्य निर्विकारे ब्रह्मणि विरोधात् । युक्तो हि भूमगतयोरुत्क्रमणसर्वगतत्वयोरविरोधः । तयोः प्रतियोग्यनुयोगिभावाभावात् । युक्तश्चाक्षरधर्मयोर्महत्त्वाणुत्वयोरप्यविरोधः । तयोः प्रतियोग्यनुयोगिभावेपि भावरूपत्वेन भावाभावरूपत्वाभावात् । युक्तश्च तद्धर्मयोरेव स्थौल्याभावाणुत्वाभावयोरविरोधः । तयोरप्यभावरूपत्वेन भावाभावरूपत्वाभावात् । युक्तश्च तद्धर्मयोरेवात्तृत्वानशनयोरप्यविरोधः । तयोर्भावाभावरूपत्वेप्यनशनस्यात्तृत्वविशेषाभावरूपत्वेनात्तृत्वसामान्याभावरूपत्वाभावात् । विशेषाभावसामान्ययोश्चाविरोधात् । इह तु ‘‘बहुस्या’’मिति श्रुतेन विकारेण ‘‘निर्विकारः सदा शुद्धः’’ इत्यादौ श्रुतस्य विकाराभावस्याविरोधो न युक्तः । तस्य विकारसामान्याभावरूपत्वात् । सामान्याभावविशेषयोश्च विरोधात् । नह्यनशनश्रुतेरिव निर्विकारश्रुतेरपि विशेषनिषेधपरता सिद्धान्तिन इष्टा युक्तावा । चेतने विकारसामान्यस्य क्वाप्यदर्शनात् । तदुक्तं न्यायविवरणे ‘‘अन्यस्यान्यभावादृष्टि’’रिति ।। न च नानाविधहेयात्मनाविकारो गुणः । येन ‘‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्ती’’त्यादिश्रुत्या विरुद्धोऽप्यङ्गीक्रियते । प्रत्युतानर्थत्वाद्दोष एव ।
प्रकाशिका
‘‘सत्प्रधानमेवभवे’’दित्यादि ‘‘इति भाव’’ इत्यन्तटीकां विवृण्वन् पूर्वपक्षयति ।। पूर्वपक्षस्त्विति ।। ननु पूर्वत्रेवात्रापि विकारतदभावयोरीश्वरे विरोधसमाधानसम्भवान्नायं हेतुः पूर्वपक्षप्रापक इत्यतः पूर्ववैषम्येणास्य निरवकाशत्वमाह ।। युक्तोहीति ।। प्रतियोग्यनुयोगिभावेऽपीति ।। निरूप्यनिरूपकभावेपीत्यर्थः ।। अत्तृत्वविशेषेति ।। उपजीवनार्थादनरूपविशेषेत्यर्थः । पनसे चूतत्वाभाव वृक्षत्वयोरिवेति भावः ।। विकारसामान्याभावरूपत्वादिति ।। एतेन विकाराविकारयोः प्रतियोग्यनुयोगिरूपत्वादित्यपि सिद्धं बोध्यम् । भाष्यादावविकारे विकारासम्भव इत्येवोक्तया तदुपपादनस्यास्पष्टत्वादाह ।। तदुक्तमिति ।। लोके क्वचिद्विशेषसामान्याभावयोरविरोधादृष्ट्या विरुद्धत्वमित्येतदित्यर्थः । विस्तृतं चैतत्
न चेतनविकारस्स्याद्यत्र क्वापि ह्यचेतनम् ।
नाचेतनविकारोऽपि चेतनः स्यात् कदाचन ।।
न चान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।
इत्यादिचतुर्थपादीयानुव्याख्यानसुधयोः । एतेन ‘‘युक्तो ही’’त्यादिना ‘‘पूर्वाधिकरणवैषम्यप्रदर्शनेने’’त्युक्तमुपपादितं ध्येयम् । अन्यत्रादृष्टमपि श्रुतत्वादस्त्वित्यत आह ।। न चेति ।। श्रुतौ हि बहुस्यामिति तेजःप्रभृत्यात्मना नानाविधमहं स्यां भवेयमिति तेजःप्रभृत्यात्मना बहुभवनं सङ्कल्प्य तत्तेजोऽसृजतेति तेजोऽभवदिति तेजःप्रभृत्यात्मना भवनश्रवणात्तस्य च गुणत्वाभावादित्यर्थः ।
चन्द्रिकाबिन्दुः
पूर्वाधिकरणवैषम्यप्रदर्शनेनेत्युक्तम् । अतः पूर्वाधिकरणवैषम्यप्रदर्शनपूर्वकं पूर्वपक्षमारचयितुमाह ।। युक्तो हीत्यादिना ।। अनेन च तत्तदधिकरणैर्गतार्थत्वं च परिह्रीयत इति ध्येयम् ।। प्रतियोग्यनुयोगिभावेऽपीति विरुद्धत्वे सति परस्परनिरूप्यनिरूपकभावोपेतत्वेऽपीत्यर्थः । तस्य निर्विकारत्वस्य । सामान्याभावेति ।। निर्विकारित्वपरिणामयोरित्यर्थः ।।
पाण्डुरङ्गि
पूर्वाधिकरणवैषम्येण पूर्वपक्षमाह ।। युक्तो हीति ।। अयुक्तत्वमुपपादयति ।। चेतन इति ।। ननु गुणाः श्रुता इति श्रुतेर्विकारस्य च गुणरूपत्वान्निर्विकारेऽपि ब्रह्मणि विकारः सम्भवतीत्यत आह ।। नचेति ।। नानाविधहेयात्मनेति गुणत्वाभावे हेतुः ।