ज्योतिश्शब्दस्याग्न्यादौ..
ज्योतिरधिकरणम्
तात्पर्यचन्द्रिका
संगतिनिरूपणपूर्वकं विषयचिन्ता
।। ॐ ज्योतिर्दर्शनात् ॐ ।।
ज्योतिश्शब्दस्याग्न्यादौ लोकतः प्रसिद्धत्वेऽपि संशयकोट्योर्जीवेशयोर्ज्ञानरूपत्वेन प्रवृत्तिनिमित्तप्रकाशत्वस्य साम्यादुभयत्र प्रसिद्धता । यद्यपि ज्ञानकारणप्रश्नोत्तरे ‘‘आदित्येनैवायं ज्योतिषाऽऽस्ते वाचैवायं ज्योतिषाऽऽस्त’’ इत्यादौ ज्योतिश्शब्दो न ज्ञानपरः । तथापि ‘‘कतम आत्मे’’त्यात्मप्रश्नोत्तरे ‘‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योति’’रित्यत्र तत्परः । अत एव भाष्ये ‘‘योय’’मित्यादि वाक्यमेवोदाहृतम् । तस्मात्पादसङ्गतिः । पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेरनन्तरसङ्गतिः । यद्वा ‘‘शब्दादेवे’’त्यत्र प्राणव्यवस्थापकत्वादिलिङ्गमात्रात् पूर्वःपक्षः । ‘‘कम्पना’’दित्यत्र तु वज्रश्रुत्युद्यत्वलिङ्गाभ्यां सः । अत्र तु निरवकाशबहुलिङ्गैः स इत्यवान्तरसङ्गतिः ।
तत्र ‘‘हृद्यन्तर्ज्योति’’रित्यात्मप्रश्नोत्तरस्थं ज्योतिः किं जीवः किं वा ब्रह्मेति चिन्ता । तदर्थं ‘‘कतम आत्मा’’इत्यात्मप्रश्ने ततः पूर्वस्मिन् ‘‘आत्मैवास्य ज्योतिः’’इति वाक्ये च श्रुत आत्मशब्दः किमस्येति निर्दिष्टजीवस्वरूपपरः किं वा परमात्मपर इति । तदर्थं ‘‘अत्रायं पुरुषः स्वयं ज्योति’’रित्यात्मप्रश्नोत्तरोपसंहारस्थपुरुषादिशब्दाः किं ‘‘किं ज्योतिरयं पुरुष’’ इति ज्ञानप्रश्नोपक्रमस्थपुरुषादिशब्देनैकार्था उत भिन्नार्था इति । तदर्थमुपसंहारस्थपुरुषादिशब्दानां किमुपक्रमप्रकृतपरत्वाद्यर्थं ब्रह्मरूपमुख्यार्थत्याग उत मुख्यार्थत्वाय प्रकृतपरत्वादित्याग इति । यद्याद्यस्तदा जीवपरोपक्रमोपसंहारमध्यस्थात्मशब्दस्य जीवपरत्वाज्जायमानत्वादिलिङ्गाच्चात्मप्रश्नो त्तरस्थं ज्योतिर्जीव एव । यदि तु द्वितीयस्तदोपसंहारानुसारेणात्मशब्दस्य मुख्यार्थभूतपरमात्मपरत्वाद्ब्रह्मपरवाक्यमध्यस्थानां जायमानादिशब्दानामन्तर्भावितण्यन्तत्वेन ब्रह्मण्यपि सम्भवाज्ज्योतिश्शब्दस्य ब्रह्मणि मुख्यत्वाच्च ज्योतिर्ब्रह्मैव ।
प्रकाशिका
अस्य नामपादे निवेशशङ्कां निरस्यन् ‘‘जीवेशयोर्ज्ञानरूपत्वेन हृदयाहितत्वेन च साधारण्यस्ये’’त्यादिटीकोक्तां पादसङ्गतिं समर्थयते ।। ज्योतिरिति ।। अग्न्यादाविति ।। अन्यत्रप्रसिद्धत्वं नाम न ब्रह्मणोन्यत्र यत्र क्वचित्प्रसिद्धत्वम् । किन्तु पूर्वपक्ष्यभिमतेऽन्यत्र । न चाग्निसूर्यादिरत्र पूर्वपक्ष्यभिमतः । प्रबलतत्प्रापकाभावात् । अग्न्यादित्यादिज्योतिषामस्तमयमुक्त्वा ‘‘आत्मैवास्य ज्योति’’रित्याद्युक्तेश्च । प्रसिद्धजीवलिङ्गबाहुल्याच्च । येन नामपादे निवेशस्स्यादिति भावः ।। संशयेति ।। पूर्वोत्तरपक्ष्यभिमतयोरित्यर्थः ।
ननु जीवेशयोर्ज्ञानरूपत्वेऽपि कुतो ज्योतिर्नाम्नस्साधारण्यमित्यतष्टीकाभिप्रायमाह ।। प्रवृत्तीति ।। ननु तमोविरोधित्वं ज्योतिष्ट्वम् । तच्च तमसा सह स्थिते व्याप्ते हरावयुक्तमित्यत उक्तं प्रकाशत्वस्येति ।। ज्ञानत्वरूपस्येत्यर्थः । इदमेवात्र प्रकरणेऽभिमतं ज्योतिष्ट्वम् । नत्वन्यत् । अतः क्वाप्येवंरूपसाधारण्यस्य मूलकृदनुक्तत्वेऽपि टीकायामुक्तिर्भाष्योक्तविषयवाक्यमूलेति भावेनाह ।। यद्यपीत्यादिना ।। ज्ञानत्वरूपप्रकाशत्वस्य वृत्तिरूपज्ञाने सत्त्वेऽपि पूर्वत्र मुख्यप्रेरकत्वस्य प्राणेशमात्रसाधारण्यमिवानादिनित्ये स्वरूपज्ञाने मुख्यं प्रकाशत्वमिति वा अन्यसाधारण्येऽप्यदोष इति वा तात्पर्यं बोध्यम् । पूर्वत्रेव प्रयोगसाम्येन तथात्वं तु नोक्तम् । सम्प्रतिपन्नप्रयोगाभावात् । प्रयोगान्वेषणापेक्षयास्यान्तरङ्गत्वाच्च । पूर्वोक्तयन्यत्रप्रसिद्धिभ्यां तथात्वं तु न सम्भवति । पूर्वोक्तेराक्षेपात् । अन्यत्र जीवे प्रसिद्ध्यभावाच्च । उत्तरनये तु पूर्वोक्तेरनाक्षेपात्तथात्वं युक्तमिति भावः ।
एवं पादसङ्गतिपरटीकां विवृत्येदानीं ‘‘ज्योतिश्चरणाभिधाना’’दित्यादिटीका फलोक्तिपरेति भावेन ‘‘ज्योतिर्विष्णुश्चेदुभयलोकसञ्चरणलिङ्गविरोध’’ इति टीकया सूचितामापवादिकीं सङ्गतिमाह ।। पूर्वसिद्धान्तेति ।। ‘‘बहुतादृक्त्व’’मिति न्यायविवरणमनुरुध्य ‘‘इत्यादि जीवलिङ्गाच्चे’’ति टीकायां निरवकाशबहुजीवलिङ्गोक्तया सूचितां सोपानारोहणक्रमरूपसङ्गतिमाह ।। यद्वेति ।। मध्येऽधिकारतद्धानिविचारौ प्रासङ्गिकाविति भावः । विषयसंशयटीकां व्यनक्ति ।। तत्रेति ।। एवं सङ्गतौ सत्यामित्यर्थः । यद्वा ‘‘आदित्येनैव ज्योतिषास्त’’ इत्यादिना श्रुतज्योतिश्शब्देषु मध्य इत्यर्थः । एतेन ‘‘तज्योति’’रिति टीकास्थ तच्छब्दार्थो विवृतः । वाजसनेये षष्ठेऽध्याये ज्योतिर्ब्राह्मणे ‘‘याज्ञवल्क्य किं ज्योतिरयं पुरुष’’ इत्यादिजनकप्रश्नं प्रत्यादित्यचन्द्राग्निवाग्रूपेषु ज्योतिष्षु पूर्वपूर्वास्तमय उत्तरोत्तरं पुरुषस्य ज्ञानकारणशब्दितं ज्योतिरभिधाय ‘‘अस्तमित आदित्ये, याज्ञवल्क्य चन्द्रमस्यस्तमिते, शान्तेऽग्नौ, शान्तायां वाचि, किं ज्योतिरेवायं पुरुष’’ इति प्रश्ने ‘‘आत्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येती’’त्यात्मनो ज्योतिष्ट्वमुक्त्वोपपाद्य च ‘‘कतम आत्मे’’ति पुनः प्रश्ने कृते परिहरति याज्ञवल्क्यः ‘‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषस्ससमानस्सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि । स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिस्संसृज्यते स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति । तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवन इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानं तस्मिन्संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमतिक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति सयत्र प्रस्वपिति । अस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवती’’त्युक्त्वा ‘‘न तत्र रथा’’ इत्यादिना स्वाप्नपदार्थसृष्टिं चाभिधाय ‘‘तदेतेश्लोका’’ इत्यादिनोक्तार्थे श्लोकानुदाहृत्यान्ते ‘‘यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्रायं पुरुषस्स्वयं ज्योति’’रित्याद्याह ।। तत्र बीजयुक्तं विषयमाह ।। हृदीति ।। आत्मप्रश्नं प्रति परिहारवाक्यस्थमित्यर्थः । वाक्यान्तरस्थं तु विषय इत्येतन्निरसिष्यत इति भावः । ततः कतम इति वाक्यात् ।। आत्मेति ।। कतम इत्यात्मप्रश्नस्य यदुत्तरं तदुपसंहारस्थमित्यर्थः ।। ज्ञानेति ।। ज्ञानकारणप्रश्नोपक्रमस्थेत्यर्थः ।। उपक्रमेति ।। उपक्रमे प्रकृतं यज्जीवरूपं तत्परत्वार्थमित्यर्थः । एतेन चिन्ताद्बयं सूचितम् । भिन्नार्था इति चिन्तानन्तरं किमुपसंहारस्थाः पुरुषादिशब्दा उपक्रमप्रकृतपरा उत ब्रह्मपराः । तदर्थं प्रकृतपरत्वानुग्रहाय मुख्यार्थत्याग उत मुख्यार्थानुग्रहाय प्रकृतपरत्वत्याग इति । चिन्ताचतुष्टयस्य फलफलिभावमस्फुटत्वाद्व्यनक्ति ।। यद्याद्य इति ।। उपक्रमोपसंहारयोरेकार्थत्वपक्ष इत्यर्थः । ननूपक्रमादिवशादवगतमप्येकवाक्यत्वं श्रुतिबलाद्भंजनीयमित्यत आह ।। जायमानत्वेति ।। तत्तु निरवकाशमिति भावः । ननु वाक्येन कथं लिङ्गबाध इत्यतस्सावकाशत्वादिति भावेनाह ।। अन्तर्भावितेति ।। वैपरीत्यं किं न स्यादित्यत आह ।। ज्योतिरिति ।।
चन्द्रिकाबिन्दुः
संशयकोट्योरिति ।। संशयकोट्योरेव मध्ये पूर्वपक्षिकोटौ प्रसिद्धत्वं चेदन्यत्राप्रसिद्धत्वं तदत्र नास्ति । न हि जीवे ज्योतिश्शब्दो लोकतः प्रसिद्धः । प्रवृत्तिनिमित्तमादाय जीवे प्रसिद्धिर्वक्तव्या । सा च परमात्मन्यपीति भावः ।। न ज्ञानपर इति ।। किन्तु ज्ञानहेतुपरः । तत्प्रायपाठात् अयमपि तत्पर एवोचित इति भावः । आत्मप्रश्नोत्तर इत्यनेन पूर्ववन्न साधनप्रश्नोत्तरत्वमस्ति किन्तु आत्मस्वरूपप्रश्नोत्तरत्वमेव । तथा च ज्योतिश्शब्दो ज्ञानपरोऽप्युचित इति भावः । पूर्वपक्षप्रापकैकत्वद्वित्वादिक्रमो वा तन्निमित्तमित्यभिप्रेत्याह ।। यद्वेति ।।
पाण्डुरङ्गि
टीकोक्तं ज्ञानरूपत्वेन ज्योतिश्शब्दस्य साधारण्यमयुक्तम् । तस्य लोकतोऽग्न्यादौ प्रसिद्धत्वेनान्यत्र प्रसिद्धत्वात् । अन्यथा ज्योतिश्चरणाभिधानादित्यत्रापि ज्योतिश्शब्दस्योभयत्र प्रसिद्धत्वं स्यादित्यतष्टीकोक्तं ज्ञानरूपत्वेन साधारण्यमुपपादयति ।। ज्योतिश्शब्दस्येति ।। अत एवेति ।। अन्तर्ज्योतिरित्यत्र ज्योतिश्शब्दस्य ज्ञानपरतया भाष्यकृदभिप्रेतत्वादेवेत्यर्थः ।। पूर्वसिद्धान्तन्यायेनेति ।। निरवकाश लिङ्गबलादेव विष्णुरेव ज्योतिरित्यादिश्रुतिसिद्धार्थत्याग इति न्यायेनेत्यर्थः ।