अत्र सङ्गतिं सूचयति

श्रेष्टाधिकरणम्

तात्पर्यचन्द्रिका

।। ॐ श्रेष्ठश्च ॐ ।।

अत्र सङ्गतिं सूचयति ।। सर्वप्राणप्रेरकःप्राणश्रुति सन्निधापितश्चेति ।। अत्रोक्तं ब्रह्मणस्सर्वस्रष्टृत्वं किं मुख्यप्राणानादित्वश्रुति विरुद्धमुत नेति चिन्ता । तदर्थं तदुत्पत्तिश्रुतिः किं प्रबलानुत्पत्तिश्रुतिबाधितोत नेति । तदर्थमनुत्पत्तिश्रुतिः किं सर्वात्मनाऽनुत्पत्तिपरोत स्थौल्येनोत्पत्तावपि सौक्ष्म्येणानुत्पत्तिपरेति । ‘‘प्राणादिदमाविरासी’’दिति श्रुतिशेषे भाष्यकारवचनसामर्थ्येन मुख्यप्राणलिङ्गकल्पनान्न परब्रह्मपरः प्राणशब्द इति पूर्वपक्षोदयः । एवमुत्तरत्रापि द्रष्टव्यम् । ‘‘एतेन मातरिश्वे’’त्यत्र बाह्येन मुख्यवायुरूपेणोत्पत्तिरुक्ता । इह तु अखिलमरणोत्पत्तिकारणेनाध्यात्मिकप्राणरूपेणाप्युत्पत्तिरुच्यत इति भेदः । यदुक्तमुभाभ्यां ‘‘आनीदवात’’मिति श्रुतौ महाप्रलये प्राणव्यापारभूतानन श्रवणादिहाधिकाशङ्केति । तन्न । ‘‘को ह्येवान्या’’दित्यादिश्रुतौ ब्रह्मण्यप्यननश्रव णादिह च ‘‘अवात’’मिति निषेधात्तेनाधिकाशङ्कायोगात् ।। श्रेष्ठाधिकरणम् ।। ६ ।।

प्रकाशिका

पूर्वोत्तरपक्षसूचितचिन्ता आह ।। अत्रोक्तमिति ।। प्रागुक्तमित्यर्थः । गतार्थतां निराह ।। एतेनेति ।। ‘‘प्राणादिदमाविरासीदिति श्रुतिशेष’’ इत्यादिवाक्यस्य ‘‘चक्षुरादिव’’दित्यत्र लेखनीयस्यात्र लेखनं लेखकदोषमूलम् ।। यदुक्तमुभाभ्यामिति ।। आनीदिति ।। अन प्राणन इति धातोर्लङ् । अननं च प्राणव्यापार इति ‘‘आनी’’दित्यनेनैव प्राणस्य प्रलये सद्भावोऽभिधीयत इति ‘‘तथा प्राणा’’इत्यादि विशेषाशङ्केत्याहुरित्यर्थः । मतद्वयेऽपि श्रेष्ठो नाम मुख्यप्राणशब्दितो जडवायुविशेष इति बोध्यम् ।। तन्नेति ।। स्यादेवं यदि ‘‘आनी’’दित्यनेनोक्तमननं प्राणस्यैवासाधारणो व्यापारो भवेत्तदा तेन प्रलये प्राणसत्त्वमुपस्थाप्येत । न चैवमित्याह ।। को हीति ।। साधारण्येऽप्यस्ति प्राणस्याप्युपस्थापनमित्यत आह ।। इह चेति ।। अवातं वातं वायुर्नास्तीति निषेधात्तस्य प्राणव्यतिरिक्तवायुनिषेधकल्पकाभावान्न प्राणस्यात्रोपस्थितिरित्यर्थः ।।

चन्द्रिकाविवृतिः

।। ॐ श्रेष्ठश्च ॐ ।। ननु प्राणादिदमाविरासीदिति वाक्यस्य न मुख्यप्राणपरत्त्वम् । प्राणशब्दस्य अत एव प्राण इत्यादौ ब्रह्मणि समन्वयस्य समर्थितत्वादित्यत आह ।। प्राणादिदमाविरासीदिति ।। वाक्यशेषे मुख्यप्राणािङ्गस्याभावेन भाष्यकारो नैतद्वाक्यमुदाहरेदिति भावः ।। यद्यपि प्राणादिदमाविरासीदित्यादिवाक्यमुत्तराधिकरणस्थमिति नेह मुख्यप्राणपरतया समर्थनीयम् । किंतु नैष उदैदित्यादिवाक्यमेव मुख्यप्राणपरतया समर्थनीयम् ।। न चैतस्मिन्वाक्ये तत्समर्थनापेक्षापि मध्यमेश्वरत्वादिमुख्यप्राणलिङ्गस्य तद्वाक्ये श्रूयमाणत्वात्तथाप्युत्तराधिकरणस्थविषयवाक्यस्य मुख्यप्राण-परत्वसमर्थनप्रकारस्य पूर्वत्रोत्तरत्र च स एवादावधस्तादित्यादावनुसंधेयत्त्वमस्तीति अविशेषादुत्तराधि-करणस्थवाक्यमेव गृहीतमित्यदोषः ।। न चैतदधिकरणस्थवाक्यपरित्यागे कारणाभाव इति वाच्यम् ।। एतदधिकरणस्थवाक्यमध्यमत्त्वादिमुख्यप्राणालिङ्गानां स्फुटत्त्वेन परित्यागासम्भवात् । न चोत्तराधिकरण एवायं विचारः कर्तव्य इति वाच्यम् ।। युक्तिप्रदर्शनार्थं यत्प्राप्तिर्यत्परित्याग इति भाष्योदाहृतस्मृतिस्थप्राणशब्देऽप्येतन्न्यायसूचनायात्रैव कथनादिति ।। तथा प्राण इत्यनेन गतार्थतापरिहारप्रकारं परोक्तं दूषयितुमनुवदति ।। यदुक्तमुभाभ्यामिति ।। ब्रह्मण्यप्यननश्रवणादिति । तथा च प्रलयकालीनाननलिङ्गेन मुख्यप्राण एवेति निर्णयो न युज्यते । ब्रह्मण्यपि तादृशाननसद्भावेन तद्वाक्यस्य ब्रह्मपरत्वेनाप्युपपत्तेः ।। अवातमिति । मुख्यप्राणस्य निषेधाच्चेति भावः ।।