अत्र च ‘‘सर्वे वेदा यत्पदमामनन्ति’’..

सङ्गतिपञ्चकनिरूपणम्

तात्पर्यचन्द्रिका

अत्र च ‘‘सर्वे वेदा यत्पदमामनन्ति’’ इत्यादिश्रुत्युक्तस्यापि समन्वयस्य बाधकोद्धारादिना स्थापनार्थमयमध्यायः सफलः । यथा ‘‘स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशुः सोमः’’ इत्यादिश्रुति-सिद्धाग्निहोत्रादिपदनामधेयत्वस्थापनार्थं नामधेयपादः ।।

प्रकाशिका

एवं पादोपाधीन्स्वाभिमतान्समर्थ्य पराभिमतांश्च निरस्येदानीं श्रुता-वेवोक्तस्य समन्वयस्य व्युत्पादनं व्यर्थमित्यतोऽध्यायस्य फलमाह ।। अत्र चेति ।। अस्मिन् शास्त्र इत्यर्थः । विशिष्य न्यायैः प्रपञ्चनमादिपदार्थः । अत एव सुधायां ‘‘श्रौतस्य प्रयोजनस्य न्यायेनोपपादनार्थमाद्यं सूत्रम्’’ इत्युक्तत्वेनैतच्छङ्कासमाधिरप्युक्तप्राय इति ‘‘सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः’’ इत्येतद्व्याख्यावसरे पृथगेतच्छङ्कासमाधी द्वावपि नोक्ताविति भावः ।। यथेति ।। तत्तत्कर्मवाक्योपात्तानामग्निहोत्रादिशब्दानां धर्मे प्रामाण्यादिप्रकारापेक्षायामैतरेयादौ ‘‘स एषः’’ इत्यादियज्ञविभाजकवाक्येषु नामधेयत्वेन निर्देशे सत्यपि तन्निर्वाहाय बाधकोद्धारादिना व्यवस्थापनार्थमाद्याध्यायचतुर्थपादारम्भो यथा पूर्वतन्त्रे तथाऽत्रापीत्यर्थः । सोमशब्दो यद्यपि द्रव्यवचनः तथापि ‘‘अव्यक्तासु तु सोमस्य’’ इत्यादाविव लक्षणया कर्मविषयत्वेन निर्देश इति ध्येयम् ।

चन्द्रिकाबिन्दु

ननु समन्वयस्य श्रुतिसिद्धत्वात् तत्प्रतिपादकाध्यायवैयर्थ्यमित्यत आह ।। अत्र चेति ।।

पाण्डुरङ्गि

नन्वध्यायोऽयमनारम्भणीयः । प्रयोजनाभावात् । न च समन्वयसिद्धिरेव प्रयोजनमिति वाच्यम् । तस्य ‘‘सर्वे वेदाः’’ इत्यादिश्रुत्यैव प्रमितत्वात् । न हि श्रौतेऽर्थे कश्चिदपि प्रतिपद्यत इत्यत आह ।। अत्र चेति ।। तथाचाध्यायस्य साक्षात्समन्वय-प्रतिपादकत्वेऽपि श्रुत्युक्तसमन्वये बाधकोद्धारेण तत्स्थापकत्वान्न वैयर्थ्यमिति भावः । यद्वा एवं परोदीरितपादार्थं तत्क्रमं चानूद्य दूषयित्वा स्वमतेन पादार्थमुक्त्वा तत्क्रमश्च व्युत्पादितः । इदानीमध्यायस्य साफल्यं दृष्टान्तपूर्वकमुपपादयति ।। अत्र चेति ।। आदिपदेन साधकान्तरोक्तिग्रहणम् ।

Load More