एवं ब्रह्मान्यस्य सर्वस्योत्पत्तौ..
तेजोधिकरणम्
तात्पर्यचन्द्रिका
वायु: तेजस: न स्वतत्रं कारणमिति निरूपणम्
ॐ तेजोऽतस्तथा ह्याह ॐ ।।
एवं ब्रह्मान्यस्य सर्वस्योत्पत्तौ ब्रह्मणश्चानुत्पत्तौ सिद्धायामिदानीं कार्यविशेषे कारणविशेषविप्रतिपत्तिर्निरस्यत इति सङ्गतिः । अत्रोक्तं ब्रह्मण एव सर्वस्रष्टृत्वं वायुदेवतातस्तेजोजन्मश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं ‘‘वायोरग्नि’’रिति श्रुतिः किं वायोर्द्वारत्वमात्रेणायुक्तोत युक्तेति । तदर्थं ब्रह्मणो द्वारोपादानं किं द्वाररहितस्याशक्तया किं वा शक्तस्यापि लीलयेति ।। विवादाभाव इति ।। यद्यपि ‘‘आकाशाद्वायुः एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योति’’रिति श्रुत्योर्विवादोऽस्ति । तथाप्यतिव्यवहितस्य तेजसो ब्रह्मजत्वसाधकैतदधिकरणन्यायेनैवाव्यवहितस्य वायोस्तत्सिद्धेः पृथग्विवादाभाव इति भावः । ‘‘विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्य’’मिति न्यायविवरणोक्तां पूर्वपक्षयुक्तिमाह ।। किं ब्रह्म वायुद्वारमिति ।। ‘‘द्वारमनुसृत्यैव विष्णोः प्रवृत्ति’’रिति न्यायविवरणोक्तां सिद्धान्तयुक्तिमाह ।। वाय्वादेरकारणत्वेऽपीति ।। स्वतन्त्रकारणत्वाभावेऽपीत्यर्थः ।। उभयकारणत्वनिवृत्त्यर्थत्वादिति ।। ब्रह्मवद्वायुरपि स्वतन्त्रकारणमिति शङ्कानिवृत्त्यर्थत्वादित्यर्थः । अत एव वक्ष्यति ‘‘उपादानशक्तेश्च परमात्माधीनत्वा’’दिति । तदनन्यत्वमित्यत्र कारणान्तरस्य युक्तिप्राप्तं स्वातन्त्र्यं निरस्तम् । अत्र तु श्रुतिप्राप्तमिति भेदः ।। वायुप्रभृतीनां देवतात्वादिति ।। देवतानां चोपादानोपादेयत्वाभावादिति भावः ।।
प्रकाशिका
‘‘एवं सर्वस्यापि ब्रह्मेतरस्योत्पत्तौ सिद्धाया’’मिति टीकोक्तिसूचितामवान्तरसङ्गतिमाह ।। एवमिति ।। कार्यविशेषे अग्न्यादिरूपे ।। कारणविशेषेति ।। वायुब्रह्मरूपकारणविशेषेत्यर्थः । ‘‘तेजोऽत्र विषय’’ इत्यादिटीकां व्यनक्ति ।। अत्रेति ।। चिन्तेत्यन्वयः । उक्तं जन्मादिसूत्र इत्यर्थः । यद्वा पूर्वत्र ब्रह्मतदन्ययोरनुत्पत्त्युत्पत्त्योरुक्तयार्थादुक्तमित्यर्थः । वायुतस्तेजो जन्म श्रुतिविरुद्धं न वेत्येवोक्तौ वायूपादानकत्वोक्तिपरतयाप्युपपत्तेरविरोधकत्वप्रसङ्गाच्छतेरुक्तार्थविरोधस्फोरणाय वायुदेवतात इत्युक्तम् । तथा च वायुदेवताया अग्निस्रष्टृत्वप्राप्तेश्श्रुतेरुक्तार्थविरोधित्वं लभ्यते । अत एव देवतानयटीकायां ‘‘वायुप्रभृतीनां देवतात्वा’’दित्युक्तमिति भावः । वायुदेवतात इत्युपलक्षणम् । वायुजडात्तेजः परिणामरूपतेजो जन्म श्रुतिविरुद्धं न वेत्यपि ध्येयम् । पूर्वत्र च स्वातन्त्र्येण सर्वस्रष्टृत्वमित्यस्मिन्पक्षे ध्येयम् । ‘‘किं वायुद्वारमन्तरेणे’’त्यादि टीकासूचितचिन्तामाह ।। किं वायोरिति ।। वायुदेवताया वायुभूतस्य चेत्यर्थः । ‘‘उपादानशक्तेश्च परमात्माधीनत्वा’’दिति टीकोक्तेः । ‘‘स्वेच्छयैव लीलये’’ति टीकासूचितमाह ।। किं द्वाररहितस्येति ।। यद्यशक्तया तदेश्वरे तदभावेन द्वारवैयर्थ्येन श्रुतिस्तन्मात्रेणायुक्तेति तद्विरुद्धं ब्रह्मण एव स्रष्टृत्वम् । यदि तु लीलयेति तदा तु नेति व्यक्तमिति भावः । टीकाक्षरार्थमाह ।। विवादाभाव इतीत्यादिना । पौनरुक्तयं निराह ।। तदनन्यत्वमिति ।। कथं टीकोक्तशङ्कानिरासोऽनेनेत्यतो भावमाह ।। देवतानां चेति ।। छ ।। तेजोधिकरणम् ।। ४ ।।
चन्द्रिकाविवृतिः
।। ॐ तेजोऽतस्तथा ह्याह ॐ ।। तेजोतः सामान्येनोत्पत्तिविचारानन्तरविशेषकार्योत्पत्तिविचार अवसरप्राप्त इत्यभिप्रेत्यावसरसङ्गतिमाह ।। एवमित्यादिना ।। अतिव्यवहितस्येति ।। आत्मापेक्षयेति शेषः । तथा हि श्रुतिः । आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निरित्यादिका । अत एव वाय्वादिभूतस्य सर्वथा कारणत्वनिवृत्तेरयोगादेव । वायुप्रभृतीनां देवतात्वादियुक्त्या कथं वायोरुपा-दानत्वनिवृत्तिर्ज्ञातव्येत्यत आह ।। देवतानां चेति ।। छ ।।