केचित्तु
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु ईश्वरो जीवस्य चिच्छक्तिं प्रवृत्तिशक्तिं करणकलेवरादिसहकारिजातं च दत्वा प्रथमप्रवृत्तावुदास्ते । जीवस्तु स्वयमेव प्रवर्तते । तथा हि । विषयविशेषसन्निधिस्तावद्भोगादृष्टात् । तत्रेच्छादिश्च वासनाविशेषात् । वासनोन्मेषश्च तत्तद्देहारम्भकादृष्टाज्जन्मकाल एव सिद्ध इति नेशापेक्षा । एवं च प्रथमेच्छाप्रयत्नयोरभग्नस्वातन्त्र्यस्य जीवस्य विध्यादिविषयत्वं, पुण्यपापादिकर्तृत्वं, तत्फलभोक्तृत्वं च युक्तम् । द्वितीयेच्छादावीश्वरोऽनुमन्ता । प्रवृत्तप्रवर्तको ह्यनुमन्ता । तदा हेत्वंतरा सन्निधापितमपि विषयं बुद्धौ सन्निधापयति । अयमेव चौदासीन्यावस्थातोऽनुमन्तृत्वावस्थाया विशेषः । सा चानुमतिः प्रथमप्रवृत्तिफलप्रदानरूपेति नेश्वरस्य नैर्घृण्यादि । एवं विशेषोपकारं प्रथमत एव केषुचिदीश्वरः करोतीति तत्र प्रयोजकोऽपि भवति । अप्रवृत्तप्रवर्तको हि प्रयोजकः । ‘‘एष ह्येव साधुकर्म कारयती’’त्यादिश्रुतिस्तु द्वितीयादिप्रवृत्तावनुमन्तृत्वादिविषया । अन्यथा हि विधिनिषेधशास्त्रानर्थक्यं स्यात् । तदुक्तं ‘‘आदावीश्वरदत्तयैव पुरुषः स्वातन्त्र्यशक्त्या स्वयं तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते । तत्रोपेक्ष्य ततोऽनुमत्य विदधत्तन्निग्रहानुग्रहौ तत्तत्कर्मफलं प्रयच्छति ततः सर्वस्य पुंसो हरि’’रितीति । अत्र ब्रूमः । ‘‘एष ह्येवे’’त्यादिश्रुतिसङ्कोचेनेश्वरस्याद्य प्रवृत्तावौदासीन्यकल्पनं न तावत् ‘‘तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तम् । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपामी’’त्यादिवचनाविरोधाय । अत्र साधनानुसारि फलदानस्यैवोक्तयाऽऽद्यप्रवृत्तावौदासीन्यानुक्तेः । नापीश्वरस्य नैर्घृण्याद्यभावायौदासीन्यकल्पनम् । प्रथमप्रवृत्तावीश्वरस्य प्रयोजकत्वेऽपि तदभावस्य समर्थितत्वात् । अन्यथा महानिष्टान्निवर्तने शक्तस्याप्यौदासीन्येनानुमन्तृत्वेन च नैर्घृण्यादि दुर्वारम् । यदि च द्वितीयादिप्रवृत्तावनुमतिराद्यप्रवृत्तिफलदानरूपा तर्ह्याद्यप्रवृत्तिप्रयोजकतापि ‘‘नानादित्वा’’दित्युक्तरीत्याऽनादिपूर्वकर्मफलदानरूपास्तु । नापीश्वरस्य कर्मफलानन्वयाय तत्कल्पनम् । प्रयोजकत्वेऽपि विधिनिषेधातीतत्वादेव तदुपपत्तेः । अन्यथा शक्तस्याप्यौदासीन्येनानुमन्तृत्वेन च तदन्वयो दुर्वारः । एतेन यथा पित्रा पुत्रयोः सदसद्व्ययसाधारणे वित्तक्षेत्रादिके विभज्य दत्ते तत्र कस्यचित्सद्व्यये कस्यचिदसद्व्यये च तत्फलान्वयः पुत्रयोरेव । न तु पितुः । तद्वदिहापि । ईश्वरस्य सदसत्प्रवृत्तिसाधारणकारणभूतचिच्छक्तयादिमात्रदातृत्वाद्विशिष्य तत्प्रवृत्त्यादौ प्रागहेतुत्वादिति निरस्तम् । पितृवदीश्वरस्य भाविसदसत्प्रवृत्त्यज्ञानाभावात् । अननुमन्तृत्वाभावात् । आद्येच्छाप्रयत्नौ प्रत्यहेतुत्वाभावाच्च ।
नापि जीवस्य विध्यादिविषयत्वाय तत्कल्पनम् । द्वितीयादिप्रवृत्ताविव प्रथमप्रवृत्तावप्यस्वातन्त्र्येऽप्युक्तरीत्या तदुपपत्तेः । न हि चुल्लीसंमार्जने स्वातन्त्र्यमात्रेण काष्ठप्रक्षेपादावस्वतन्त्रोऽपि पाके विनियुज्यते । नापीश्वरेतरहेतुभिरेव प्रथमप्रवृत्तेरनुपपत्त्या तत्कल्पनम् । तत एव द्वितीयादिप्रवृत्तावपि तत्कल्पनापातात् । श्रुतिस्तूभयत्र समा । किं च यत्रेश्वर आदावेव प्रयोजकस्तत्र वैषम्यं दुर्वारम् । किं च प्रथमप्रवृत्तेरपि पूर्वकर्मफलत्वात्त्वन्मतेऽपीश्वरस्य सर्वकर्मफलदत्वात्कथं तत्रौदासीन्यम् । ननु च प्राचीनकर्मफलदानेच्छयेशस्तां करोति । न तु फलान्तरसाधनानुष्ठापनेच्छया । द्वितीयादिप्रवृत्तिं तु तदनुष्ठापनेच्छया । ततश्चाभिसन्धिभेदाददोष इति चेन्न । पूर्वापराधफलत्वेनैव चोरस्यातिपीडां कुर्वतस्तां च मृतिहेतुतया जानतो राजादेश्चोरमृत्यादावौदासीन्यादर्शनेन प्राचीनकर्मफलत्वेनाद्यप्रवृत्तिं कुर्वतस्तां चानर्थहेतुतया जानत ईश्वरस्य तत्रौदासीन्यायोगात् । घटप्रकाशनार्थं दीपमुपाददानस्य तु पुंसो दैवात्तेन पटे प्रकाशिते तत्रौदासीन्यं युक्तम् । तेन दीपेन नियमेन पटः प्रकाशयिष्यत इति ज्ञानाभावात् । तथा ज्ञाने तु तत्रापि नौदासीन्यम् । तस्मात्तत्तत्स्वभावाद्यनुसारित्वादेवेश्वरस्य न वैषम्यादीति भाष्योक्तमेव युक्तमिति ।। छ ।। कर्तृत्वाधिकरणम् ।। १७ ।।
प्रकाशिका
केचित्त्विति ।। तन्मते ‘‘परात्त्वि’’ति योगद्वयमधिकरणान्तरम् । तत्राद्यसूत्रव्याख्या न विरुद्धा । जीवस्य पराधीनकर्तृत्वे दोषपरिहाराय ‘‘कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्य’’ इति सूत्रम् । सर्वासु क्रियासु जीवकृतं प्रयत्नमुद्योगमपेक्ष्यांतर्यामी तदनुमतिदानेन प्रवर्तयति । विहितप्रतिषेधावैयर्थ्यनिग्रहानुग्रहादिहेतुभ्य इत्यस्यार्थ उक्तः । तद्भाष्यटीकायामुक्तं तत्तात्पर्यं व्यनक्ति ।। ईश्वर इति ।। ‘‘भोगादृष्टोपनीतार्थस्वभावाद्वासनान्वितात् । इच्छादेर्मनसोत्पत्तौ युक्तोदासीनता विभो’’रिति सङ्ग्रहतत्प्रपञ्चने श्रुतप्रकाशोक्ते हृदि कृत्वाऽऽह ।। विषयेति ।। इच्छाद्वारा हीश्वरो जीवान् प्रेरयति ।। इच्छा च जीवस्य विषयसन्निधापनेनोत्पाद्या । तच्चादृष्टादिनैव सिद्धमितीश्वरस्य तत्र न कृत्यमित्यर्थः । इच्छाप्रयत्नरूपद्वितीयादिप्रवृत्तावेवमस्तु । किमीश्वरेणेत्यतश्श्रुतप्रकाशोक्ते ‘‘सन्निधापकवैधुर्येऽप्यर्थं बुद्धिस्थतां नयन् । प्रयोजकोऽनुमन्ता च भवतीशस्तदा तदा । पूर्वप्रवृत्तेश्च फलमनुमत्यादिकं भवे’’दिति सङ्ग्रहतत्प्रपञ्चने हृदि कृत्वाऽऽह ।। द्वितीयेच्छादाविति ।। एवं विशेषोपकारमिति ।। हेत्वंतरासन्निधापितविषयस्य बुद्धौ सन्निधापनरूपं विशेषोपकारमित्यर्थः । करणकलेवरादिदानरूपप्रकारश्चेतनानां सर्वकार्यसाधारणः । तत्र विषयसन्निध्यादेरदृष्टादिनैव सिद्धतयेश्वरस्य तत्रौदासीन्येऽपीह द्वितीयेच्छादौ हेत्वंतरासन्निधापितविषयसन्निधापनरूपविशेषोपकारकर्तृत्वात्प्रयोजकत्वं तस्येत्यर्थः ।। अप्रवृत्तेति ।। विषयसन्निधापनेन तस्येच्छाप्रयत्नयोरीश्वरेणोत्पादनादिति भावः । आद्येच्छाप्रयत्नरूपाद्यप्रवृत्तावीश्वरस्यौदासीन्ये सर्वकर्तृत्वश्रुतिः कथमित्यत आह ।। एष हीति ।। सङ्कोचे हेतुमाह ।। अन्यथेति ।। आद्यप्रवृत्तावपि जीवस्यास्वातन्त्र्ये तत्रापीश्वरस्यैवेच्छादिकर्तृत्व इत्यर्थः ।। तत्रोपेक्ष्येति ।। आद्यप्रवृत्तावुदासीनो भूत्वा ततः अनन्तरम् । द्वितीयादि प्रवृत्तावित्यर्थः । वैषम्यनये त्वशुभशुभप्रवृत्त्योर्यथाक्रममुपेक्षानुमत्यर्थकत्वमुपेत्य संमतिरुक्ता ।। इत्यादिवचनाविरोधायेति ।। तद्भाष्ये स्वोक्तार्थसंमतित्वेन ‘‘तेषा’’मिति ‘‘तानह’’मिति च वाक्यद्वयस्यानुग्रहनिग्रहोक्तिपरस्योदाहृतत्वादिति भावः ।। समर्थितत्वादिति ।। ‘‘वैषम्यनैर्घृण्येने’’त्यधिकरण इति भावः ।। अनुमंतृत्वेन चेति ।। द्वितीयादिप्रवृत्तिप्रेरकत्वे प्रवृत्तप्रवर्तकत्वरूपानुमन्तृत्वेन चेत्यर्थः । ‘‘एतदुक्तं भवती’’त्यादिना श्रुतप्रकाशोक्तमनूद्य निराह ।। एतेनेति ।। अननुमन्तृत्वेति ।। आदावसत्कार्ये प्रवृत्तं तथैव द्वितीयप्रवृत्तौ प्रेरयतीति प्रवृत्तप्रवर्तकत्वप्राप्तेरिति भावः ।। ओतुत्वाभावाच्चेति ।। चिच्छक्तयादि दानरूपसाधारणोपकारमुखेन प्राथमिकेच्छादावपि कारणत्वात् । अन्यथा सर्वकारणत्वभङ्गापत्तेः ।
बाह्यान्तःकरणव्याप्तितच्छक्तयाधानधारणैः ।
साधारणोपकारे स्यादिच्छादेः कारणं परः ।।
इति श्रुतप्रकाशोक्तेरिति भावः ।। द्वितीयप्रवृत्तिप्रेरणरूपस्यानुमन्तृत्वस्याद्यप्रवृत्तिफलदान रूपत्वादनुमन्तृत्वं न नैर्घृण्यादिदोषावहमित्यतो दोषान्तरमेतदुक्तमहेतुत्वाभावाच्चेति ।। उक्तरीत्येति ।। अन्वयव्यतिरेकाभ्यामीशाधीनाया एव तस्या विध्यादिविषयत्वे तन्त्रत्वादित्युक्तरीत्येत्यर्थः । ‘‘अंशे स्वातन्त्र्याज्जीवस्य विधिनिषेधविषयत्व’’मिति श्रुतप्रकाशोक्तमेव प्रत्युतानुपपन्नमित्याह ।। न हीति ।। तथा च प्रथमेच्छाप्रयत्नयोरंशे स्वतन्त्रस्याप्यंशान्तरे पराधीनस्य विध्यादिविषयत्वं करणकलेवरादिपरिकरलाभस्य पराधीनत्वेन तदंशे तस्यास्वातन्त्र्यादिति भावः ।। तत्कल्पनापातादिति ।। ईश्वरस्यौदासीन्यकल्पनापातादित्यर्थः । नन्वेतदाशङ्क्य श्रुतप्रकाशे ‘‘अन्तःप्रविष्टश्शास्ता जनानामिति श्रुतिबलादेवमभ्युपगम्यत’’ इत्युक्तमित्यत आह ।। श्रुतिस्त्विति ।। उभयत्र प्रथमप्रवृत्तौ द्वितीयादिप्रवृत्तौ चेत्यर्थः । ‘‘एवं विशेषोपकारं प्रथमत एवे’’त्यादिनोक्तं निराह ।। किञ्च यत्रेति ।। द्वितीयादिप्रवृत्तावित्यर्थः । ननु द्वितीयादि प्रवृत्तिप्रेरणस्य प्रथमप्रवृत्तिफलदानरूपत्वान्न वैषम्यादीति चेन्न । अनिष्टप्रवृत्तिनिवारणशक्तस्य तथैव प्रेरणे वैषम्याद्यनिवारणादिति भावः । श्रुतप्रकाशोक्तं समाधिमाशङ्क्य निराह ।। ननु चेति ।। इति ।। भाष्योक्तमिति ।। ‘‘पूर्वकर्मप्रयत्नं च संस्कारं चाप्यपेक्ष्य तु । ईश्वरः कारयेत्सर्व’’मित्यादि भाष्योक्तस्मृतितात्पर्यार्थानुवादोऽयम् ।।
चन्द्रिकाविवृतिः
प्रवृत्तिशक्तिमिच्छाप्रयत्नशक्तिम् ।। प्रथमप्रवृत्ताविति ।। आद्यदिने कदलीफलादौ प्रवृत्तिर्जीवस्य स्वत एव । द्वितीयादिदिने प्रवृत्तिस्तु अनुमन्तृभगवदधीनेति ।। एवं घटार्थमाद्यप्रवृत्तिः ज्ञानेच्छाप्रयत्नशरीरस्यंदपर्यन्ताः स्वत एव अनन्तरप्रवृत्तावीश्वरो अनुमत इत्यादि तद्भाष्यादवगन्तव्यम् ।। वासनाविशेषात् संस्कारविशेषात् ।। वासनोन्मेषः संस्कारोद्बोधः ।। आद्यप्रवृत्तौ जीवस्य स्वातन्त्र्याङ्गीकारस्य फामाह ।। एवं च प्रथमेति ।। प्रवृत्तेति ।। यः पूर्वं प्रवृत्तस्तत्प्रवर्तक इत्यर्थः ।। ननु द्वितीयादिप्रवृत्तावपीश्वरस्य कर्तृत्त्वाद्वैषम्यनैर्घृण्ये स्यातामित्यत आह ।। सा चानुमितिरिति ।। केषाञ्चिदाद्यप्रवृत्तावीश्वरस्य स्वातन्त्र्यमस्तीत्याह ।। एवं विशेषोपकारमिति ।। अन्यथा हीति ।। सर्वप्रवृत्तावीश्वरस्य स्वातन्त्र्याभ्युपगमे इत्यर्थः ।। आद्यप्रवृत्तौ भगवत औदासीन्यकल्पने परोक्तसम्भावकान्यनूद्य दूषयति ।। न तावदित्यादिना ।। न तु पितुरिति ।। कलौ कर्तैव लिप्यत इति वचनादिति भावः ।। ईश्वरस्यापि पितृवैलक्षण्याद्वैषम्यादि-कमेवेत्याह ।। ईश्वरस्येत्यादिहेतुत्रयेण ।। ननु जीवस्य द्वितीयादिप्रवृत्तौ स्वातन्त्र्याभावेऽपि प्रथमप्रवृत्तौ स्वातन्त्र्येण कार्ये विनियुक्तो भवत्वित्यत आह ।। न हि चुल्लीति ।। तत एव ईश्वरेतरहेतुभिरेव ।। ननु द्वितीयादिप्रवृत्तावीश्वरस्य स्वातन्त्र्यानङ्गीकारे एष ह्येव साधुकर्म करोतीत्यादि ईश्वरस्य सर्वकर्तृत्त्वप्रतिपादकश्रुतिविरोध इत्यत आह ।। श्रुतिस्त्विति ।। उभयत्र प्रथमप्रवृत्तौ द्वितीयादिप्रवृत्तौ चेत्यर्थः ।। तां प्रथमप्रवृत्तिम् । तस्याः पूर्वकर्मफलत्त्वादिति भावः ।।