किञ्च प्रदेशरूप आकाशो नीरूपः साक्षिसिद्धश्च
प्रदेशरूप आकाश: भूताकाश इति आकाशस्य द्वित्वनिरूपणम्
तात्पर्यचन्द्रिका
किञ्च प्रदेशरूप आकाशो नीरूपः साक्षिसिद्धश्च । अन्यथाऽवकाशे सन्देहे नान्धकारादौ हस्तचालनादिकं न स्यात् । न च मूर्तविशेषाभाव इव तदाश्रये देशे कश्चित्सन्दिग्धे । भूताकाशं तु ‘‘भूतमप्यसितं दिव्यदृष्टिगोचरमेव चे’’त्यादिरूपश्रुत्या रूपि । अप्रत्यक्षं च । किञ्च भूताकाशं ‘‘सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः । पञ्चभूतात्मके देहे’’ इत्यादिस्मृतिभिर्देहाकारेण विकारि । अवकाशस्तु कूटस्थनित्यत्वेन साक्षिसिद्धः । न च सर्वाधारभूतौ देशकालौ किञ्चिद्द्रव्यात्मना विकुरुतः । कथं वाऽवकाशस्य पञ्चीकरणम् । किञ्चावकाशः ‘‘अनादिर्वा अयमाकाश’’ इत्यादिश्रुतिभिरवकाशोपादानप्रागभावयोर्बुद्ध्यनारोहादियुक्तिभिश्चानादिः । न तु तामसाहंकारकार्यम् । न हि पूर्वमाकाशो नासीत् । किन्तु सर्वत्र वा कुत्रचिद्वा घनीभाव एवासीदिति धीर्युक्ता । सर्वत्रेत्यादिनैवाकाशनिर्देशात् । भूतं तु ‘‘आत्मन आकाशः सम्भूत’’ इत्यादिप्रकरणानुगृहीतश्रुतिभिः
तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् ।
शब्दमात्रमभूत्तस्मान्नभःश्रोत्रं तु शब्दजम् ।।
इत्यादिस्मृतिभिश्च तामसाहंकारं कार्यम् । किञ्च एतदण्डं विशेषाख्यं क्रमाद्वृद्धैर्दशोत्तरैः । तोयादिभिः परिवृत’’मित्यादिस्मृतिभिरेकमविभु । अन्यत्तु विभु । ‘‘आकाशवत्सर्वगतश्च नित्यः । स यथाऽनन्तोऽयमाकाश’’ इत्यादिश्रुतेः । तथा अत्र देशो नास्तीत्येतदिदानीं कालो नास्तीतिवद्व्याहतम् । अत्रेत्यनेनैव देशनिर्देशात् । एवं ब्रह्मवाऽन्यद्वादेशं विना कुत्रचिदस्तीत्येतदपि व्याहृतम् । अत एव ‘‘स एवाधस्तात्स उपरिष्टात्स पश्चात्सपुरस्तात्स दक्षिणतः स उत्तरतः’’ इत्यादिश्रुतिः । ‘‘व्याप्तं त्वयैकेन दिशश्च सर्वा’’ इत्यादिस्मृतिश्च ब्रह्मणो विभुदेशसम्बन्धेनैव विभुत्वमाहेत्यादियुक्तेश्च । किञ्च
मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च ।
भागशो भागतस्त्वेनमनुगच्छन्ति सर्वशः ।।
इत्यादिस्मृतिभिर्भूताकाशं गत्यादियोग्यभागवत् । अवकाशस्तु न गत्यादियोग्यभागवान् । न हि प्रदेशविशेष एतद्देशं त्यक्त्वा प्रदेशान्तरं गच्छति । किञ्च ‘‘आकाशो नीलिमोदेति न प्रदेशः कथञ्चने’’ति श्रुत्यैवाकाशद्वित्वं कण्ठोक्तम् । तस्मादाकाशद्वित्वं प्रामाणिकमेवेति ।।
प्रकाशिका
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ।।
इत्यनुव्याख्यां हृदि कृत्वाऽऽह ।। किञ्च प्रदेशेति ।। साक्षिगोचरमित्युक्तिसूचितं युक्तयंतरमाह ।। किञ्च भूतेति ।। ‘‘यत्किञ्चिदिह लोके वै देहबद्धं विशां पते । सर्व’’मिति मोक्षधर्मे । ‘‘पञ्चभूतात्मक’’ इति तृतीयस्कन्धे कपिलवाक्यम् ।। कथं वेति ।। निबिडताप्रसङ्गादिति भावः । ‘‘अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपी’’ति न्यायविवरणोदाहृतश्रुत्युक्तयुक्तिं व्यनक्ति ।। किञ्चावकाश इति ।। न त्विति ।। भूतमित्यर्थः । युक्तिसूचनाय तामसाहंकारकार्यमित्युक्तिः । प्राणगतेश्चेत्यत्र भाष्योक्तस्मृतिमाह ।। मृतिकाल इति ।। न्यायविवरणोक्तश्रुतिमाह ।। आकाशो नीलमेति ।।
चन्द्रिकाविवृतिः
रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्त्वपरिच्छिन्नत्वापरिच्छिन्नत्वादिविरुद्धधर्मैः भूताकाशावकाशयोर्भेदादि-त्यादिसुधामेव क्रमेण व्याख्याति ।। किं च प्रदेशरूपाकाश इत्यादिना ।। अन्यथेति ।। अवकाशस्य रूपत्वे साक्ष्यसिद्धत्वे चेत्यर्थः । असितं नीलम् । दिव्यदृष्टिगोचर-मित्यनेनाप्रत्यक्षत्त्वं सूचयति ।। अप्रत्यक्षस्यैव दिव्यदृष्टिगोचरत्त्वात् । व्याकृतत्वाव्याकृतत्वे विकारित्वाविकारित्त्वे इत्यर्थमभिप्रेत्याह ।। किं च भूताकाशमिति ।। कूटस्थेत्यत्र कूटपदमयोमयपदार्थविशेषणपरं न तु गीताभाष्यरीत्या आकाशपरम् । प्रकृतासङ्गतेरिति ध्येयम् ।। देशकालावित्यत्र काग्रहणं दृष्टान्तार्थम् ।। व्याकृतत्वे सादित्त्वानादित्वे इत्यर्थमभिप्रेत्य पक्षान्तरमाह ।। किं चावकाशोऽनादिर्वेति ।। भूताकाशं तु तामसाहंकारकार्यमिति भावः । परिच्छिन्नत्वं दर्शयति ।। किं चैतद्दण्डमिति ।। अत एवाकाशस्य विभुत्वादेव ।। सुधायामुपाक्षणत्वेन मत्त्वा स्वयं युक्तिविशेषं दर्शयति ।। किं च मृतिका इति ।। आकाशद्वित्त्वे न्यायविवरणोदाहृतां श्रुतिमाह ।। किं चाकाश इति ।। प्रदेशः अव्याकृताकाशः ।