टीकाक्षरार्थस्तु

टीकाक्षरार्थनिरूपणम्

तात्पर्यचन्द्रिका

टीकाक्षरार्थस्तु । पूर्वं हृत्पद्मस्थस्य ब्रह्मत्वे हेत्वन्तरोक्तयर्थं सौत्रं लिङ्गपदमित्येवं परतयाऽरश्चेत्यादिभाष्यं व्याख्यातम् । अधुना ब्रह्मलोकशब्दस्य प्रसिद्ध्या सत्यलोकपरत्वाशङ्कानिरासार्थं तदित्येवंपरतयाऽरश्चेत्यादिभाष्यं व्याचष्टे ।। अथवा ब्रह्मलोकमिति ।। तल्लक्षणोक्तेश्चेति ।। एष आत्मा अपहतपाप्मेत्यत्र हृत्पद्मस्थलक्षणत्वेनोक्तस्यापहतपाप्मत्वस्य सर्वे पाप्मानोऽतो निवर्तंत इत्यनेन ससेतुरित्युक्तसेतुधर्मत्वोक्तेरित्यर्थः ।। एतस्येति प्रतीकग्रहणेनेति ।। प्रतीकग्रहणेन ‘‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्दमसौ । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ’’ इत्यादीनि बहुवाक्यानि सूचयतीत्यर्थः ।। विष्णुरित्यभ्युपगमे सुषिरश्रुतिविरोध इति ।। ब्रह्मणो हृत्पद्मस्थत्वे सुषिरस्य ‘‘तस्यान्ते सुषिर’’मिति हृत्पद्मस्थत्वश्रुतिविरोध इति निरस्तं । सुषिरस्य ‘‘दहरोऽस्मिन्नन्तराकाश’’ इति वाक्योक्तहृत्पद्मस्थत्वमुपेत्यैव ब्रह्मणो ‘‘दहरं विपाप्म’’ मित्यादिश्रुतिबलात्तस्मिन्यदन्तरिति वाक्योक्तहृत्पद्मसुषिरस्थताया एव स्वीकारादित्यर्थः ।।

तदाधारतया पृथिव्यादिकमिति ।। आकाशाभिमान्याश्रितं पृथिव्याद्यभिमान्यादिकमित्यर्थः ।। ब्रह्मैव पूर्णत्वात्पुरमिति ।। एतत्सत्यं ब्रह्मपुरमिति प्रकृतस्य शरीरस्यैवैष आत्मेति परामर्शादात्मा न विष्णुरिति न शंक्यम् । छान्दोग्यभाष्योक्तरीत्या ‘‘यदिदमस्मिन्ब्रह्मपुर’’ इत्याद्यस्य ब्रह्मपुरशब्दस्य षष्ठीतत्पुरुषकर्मधारययोराश्रयणेन शरीरब्रह्मोभयपरत्वेऽपि ‘‘ब्रह्मपुरे सर्वं समाहित’’मिति द्वितीयस्य ‘‘एतत्सत्यं ब्रह्मपुर’’मिति तृतीयस्य च ब्रह्ममात्रपरत्वादिति भावः ।। शरीरनाशेनास्याविनाशोक्तेरिति ।। यद्यपि ‘‘एतज्जराऽऽवाप्नोती’’ति पूर्वत्रैतच्छब्देन शरीरस्य प्रकृतत्वात् ‘‘एतत्सत्यं ब्रह्मपुर’’मित्यत्रापि तस्य प्राप्तिः । तथापि नास्य जरयैतज्जीर्यत इति सन्निहितपूर्ववाक्ये शरीरमस्येति निर्दिश्यैतच्छब्देन ब्रह्मनिर्देशाच्छरीरनाशेऽप्यविनाशित्वलिङ्गाच्च न शरीरमिह ब्रह्मपुरशब्दार्थ इत्यर्थः ।। न चैवमङ्गीकारेऽपि सुषिरश्रुतिविरोध इति ।। सुषिरस्य सर्वाधारत्वश्रुतिविरोध इत्यर्थः ।।

प्रकाशिका

अथवेत्यादिटीकाया उद्भाष्यत्वभ्रान्तिं निवारयन्पक्षयोरर्थभेदं व्यंजयन् भाष्यव्याख्यानमेतदित्याह ।। पूर्वमिति ।। ‘‘धृतिसूत्रे सर्वे पाप्मानोऽतो निवर्तंत इति तल्लक्षणोक्ते’’रिति वाक्ये तच्छब्देन परामृश्यमानं न स्फुटम् । किञ्च तल्लक्षणमिति न स्फुटं प्रतीयते । तथात्वे वा स हृत्पद्मस्थः कुत इत्यतो व्यनक्ति ।। एष इति ।। एतस्येति प्रतीकग्रहणेन बहुवाक्यानि सूचितानीत्यत्रोक्तानि बहुवाक्यानि च दर्शयति ।। प्रतीकेति ।। ‘‘प्रसिद्धेश्चे’’ति सूत्रे ‘‘हृत्पद्मस्थाकाशो विष्णुरित्यभ्युपगमे सुषिरश्रुतिविरोध इत्येतदनेनैव निरस्त’’मिति वाक्यविरोधतच्छान्त्योरस्फुटत्वादाह ।। ब्रह्मण इति ।। ‘‘यद्ब्रह्मान्वेष्टव्यतयोक्तं तस्यान्तर्हृदये यावानेष आकाशस्तावान्सर्वोऽपि विद्यन्ते । तदाधारतया पृथिव्यादिकं च समाहित’’मित्यत्र जडस्यैव जडाधारताप्रतीतेराह ।। आकाशेति ।। एतच्छब्देन शरीरस्य प्रकृतत्वान्नेति चेन्न । शरीरनाशेनास्याविनाशोक्तेरित्येतदप्रतीतेश्शङ्कोत्तरयोर्भावं व्यनक्ति ।। यद्यपीति ।। दहराकाशस्थस्य विष्णोरेव सर्वाधारत्वमिति प्रकृतेऽर्थे शङ्कितश्रुतिविरोधं सङ्गमयति ।। सुषिरस्येति ।। शिष्टमुपन्यासमुखेन विवृतमिति भावः ।।

चन्द्रिकाबिन्दुः

पूर्वोत्तरपक्षयोर्भिन्नसाध्यहेतुसमर्पकत्वेन भेद इत्यभिप्रेत्याह ।। पूर्वमित्यादि ।। सुषिरश्रुतिविरोध

इत्यस्य सर्वाधारतांशे सुषिरश्रुतिविरोध इत्यङ्गीकारे पूर्वोत्तरवाक्यानुगुण्यमित्यतो व्याचष्टे ।। ब्रह्मणो हृत्पद्मस्थत्व इति ।। आकाशाधारत्वं च चन्द्रादीनां तदभिमानिपोष्यत्वमेवेत्यभिप्रेत्य व्याचष्टे ।। आकाशाभिमान्याश्रितमित्यादि ।

पाण्डुरङ्गि

समानविषयत्वस्य विकल्पप्रयोजकत्वात्प्रकृते तदभावाद्विकल्पद्योतकोऽथ वेति वाशब्दोऽननुपपन्न इत्यतो व्याख्यानान्तराभिप्रायेण वाशब्द इत्याह ।। पूर्वमिति ।। सर्वत्र ब्रह्मपुरशब्दस्य ब्रह्मपरत्वभ्रान्तिनिरासायाह ।। एतत्सत्यं ब्रह्मपुरमिति ।। पौनरुक्तयपरिहाराय व्याख्याति ।। सुषिरस्येति ।।

।। इति दहराधिकरणम् ।। ५ ।।