पूर्वोक्तस्य व्युत्क्रमेण लय इत्यस्य ..
अन्तराविज्ञानाधिकरणम्
तात्पर्यचन्द्रिका
विज्ञानमनस्तत्वयोरपि व्युत्क्रमेनैव लय:
ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ।।
पूर्वोक्तस्य व्युत्क्रमेण लय इत्यस्य क्वचिदपवादशङ्कानिरासात्सङ्गतिः । अत्र किं भाष्योदाहृता सर्वत्रापि व्युत्क्रमेण लयश्रुतिः ‘‘यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’’ इति मनोविज्ञानयोः सृष्टिक्रमेण लयप्रतिपादकश्रुत्या विरुद्धा न वेति चिन्ता । तदर्थं विज्ञानतत्वे लीयमानं मनस्तत्वं किं विज्ञानतत्वस्य कारणमुत नेति । तदर्थं ‘‘मनसश्च विज्ञान’’मिति सृष्टिश्रुतौ मनोविज्ञानशब्दौ किं मनस्तत्वविज्ञानतत्त्वपरौ किं वाऽन्तःकरणावबोधपराविति । तदर्थं तौ शब्दौ किं तत्वयोरेव मुख्यौ किं वान्तःकरणावबोधयोरपीति । ‘‘लोकदृष्ट्यनुसारा’’दितिन्यायविवरणोक्तां पूर्वपक्षयुक्तिं विवृणोति ।। लोकानुकूलं चैतदित्यादिना ।। समसामर्थ्यस्यापि सम्भवादिति ।। सृष्टौ मनसः पूर्वमवस्थानात्प्रलये विज्ञानस्य पश्चादवस्थानात्समसामर्थ्यं सम्भाव्यत इत्यर्थः । ‘‘भजञौ भागसेवयो’’रिति वचनाद्भागार्थस्य भजतेर्भावे क्तप्रत्ययान्ताद्भक्तशब्दाद्वा क्तिन्प्रत्ययान्ताद्भक्तिशब्दाद्वा ‘‘तस्येद’’मिति सम्बन्धसामान्ये विहिताण्प्रत्ययान्तस्य भाक्तशब्दस्य भागविषयावाचकत्वं युक्तमित्यभिप्रेत्याह ।। अयञ्च व्यपदेश इन्द्रियावबोधाख्यभागविषय इति ।। यद्यपि मनश्शब्दस्य मनस्तत्वमन्तःकरणरूपमिन्द्रियं चेत्येको राशिरर्थः । उभयत्रापि प्रयोगात् । एवं विज्ञानशब्दस्यापि विज्ञानतत्वमवबोधश्चेत्येको राशिरर्थः । तथापि ‘‘मनसश्च विज्ञान’’मिति वाक्यस्थौ मनोविज्ञानशब्दाविन्द्रियावबोधरूपभागयोरेव वर्तेते । न तु मनस्तत्वविज्ञानतत्वयोरिति ‘‘मनसश्च विज्ञान’’मिति व्यपदेशो भागविषय इत्यर्थः । ‘‘अंतस्तद्व्यक्तयपेक्षये’’त्यादिभाष्यं प्रकृतानुपयोगीत्याशङ्क्य मैवम् । तत्वानां सर्वसृष्टिर्हि ‘‘परादव्यक्तमुत्पन्न’’मित्यादिभाष्योदाहृतस्मृत्युक्तक्रमेणैव । क्वचित्तत्वानामेवायं पूर्वपक्ष्यभिप्रेतो विपरीतक्रमः श्रूयते चेत्सा श्रुतिर्ब्रह्माण्डान्तः सृष्ट्यभिप्राया । बहुश्रुतिसङ्ग्रहरूपा स्मृतिस्तु बाह्यसृष्ट्यभिप्राया । यद्वा विपरीतक्रमश्रुतिर्ज्ञानिनं प्रति स्वदेहे तत्वाभिमानिदेवानामापरोक्ष्यक्रमाभिप्राया । द्वारपालादिदर्शनानन्तरमन्ते राज्ञ इवाधमदेवतादर्शनानन्तरमन्ते हरेर्दर्शनादिति परिहारद्वयकथनार्थत्वादुत्तरभाष्यस्येत्यभिप्रेत्योत्तरभाष्यं व्याचष्टे ।। क्वचित्तत्वानामेवेत्यादिना ।।
सूत्राक्षरार्थस्तु ।। तद्व्यपदेशस्तु मनसश्च विज्ञानमिति मनोविज्ञानयोः कार्यकारणव्यपदेशस्तु । भाक्तः स्यात् इन्द्रियावबोधरूपभागविषयः स्यात् । चराचरात्मकसर्वविषयेष्वपि मनोभावरूपेणालोचनेनावबोधस्य भावित्वात् उत्पद्यमानत्वादिति । समासान्तर्गतं तद्भावं प्रति विशेषणस्यापि चराचरव्यपाश्रयत्वस्य पृथगुपादानं तु यद्यपि तद्व्यपदेशः मनोविज्ञानशब्दरूपो व्यपदेशः चराचरव्यपाश्रयः टीकोक्तरीत्या राशिद्वयविषयः । तत्वयोरचरत्वात् । इन्द्रियावबोधयोस्तु चञ्चलत्वेन चरत्वात् । तथापीह भागविषयः । इति योजनान्तरप्रदर्शनार्थमिति द्रष्टव्यम् ।
अन्ये तु । ‘‘आत्मन आकाश’’ इति तैत्तिरीयश्रुतिः ‘‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’’त्याथर्वणश्रुतिविरुद्धा । अत्र ह्यात्मानं भूतानि च अन्तरा तदन्तराले इन्द्रियमनसी आत्मजन्यत्वेनाम्नायेते । तस्मात्तैत्तिरीयोक्तक्रमभङ्ग इति प्राप्ते करणानां ‘‘अन्नमयं हि सोम्य मन’’ इत्यादिश्रुत्या भौतिकत्वेन भूतानंतरमेवोत्पत्तिः । आथर्वणे चाम्नानक्रममात्रम् । अर्थक्रमस्य बलीयस्त्वात् । न तूत्पत्तिक्रमः । तस्माद्भूतोत्पत्तिक्रमभङ्गो नेति सिद्धान्त इत्याहुः । तन्न । ‘‘मनस्तत्वाच्च खादिक’’मिति भाष्योक्तस्मृत्या तथा आकाशादूर्ध्वं तन्मात्राणि भूतादौ लीयते । भूतादिर्महति लीयते । महानव्यक्ते लीयत इत्यादिलिङ्गैः । तथा आथर्वण एव ‘‘खं वायु’’रित्याद्युत्तरवाक्य इव ‘‘एतस्माज्जायते प्राण’’ इत्यादावपि पाठक्रमेण च मन आद्यनन्तरमेवाकाशोत्पत्तेः सिद्धेः । अन्नमयत्वश्रुतिस्तु ‘‘अन्नमशितं त्रेधा विधीयत’’ इति वाक्यशेषात्पार्थिवेनान्नेन मनस उपचयमाह । न तु पृथिवीभूतान्मनस्तत्वोत्पत्तिम् । किं चाथर्वण आत्मनो भूतानां चान्तराले प्राणस्यापि श्रुतत्वात्सूत्रे तत्त्यागेन विज्ञानमनसोरेवोपादानं तथा ‘‘विज्ञानतत्वं महत’’ इत्यादिषु विज्ञानतत्वे रूढस्य विज्ञानशब्दस्य ‘‘विज्ञायतेऽनेने’’ति भामत्युक्तमिन्द्रिये यौगिकत्वं तथा यौगिकेन विज्ञानशब्देनैव मनसोऽप्युक्तिसम्भवेन सूत्रे पृथङ्मनःशब्दः । तथा मद्रीत्या ‘‘विज्ञानमनसी’’ इत्यस्य द्वितीयान्तस्य विज्ञानमनसी अन्तरा विनेत्यनध्याहारेणैवान्वयसम्भवे अन्तरेत्यस्याध्याहृताभ्यामात्मानं भूतानिचेत्याभ्यां द्वितीयांताभ्यां विज्ञानमनसी इत्यस्य प्रथमान्तस्याध्याहृतेनाम्नायेते इत्यनेनान्वयः । तथा क्रमस्यान्तरालार्थेनान्तराशब्देनैवोक्तया पुनः सूत्रे क्रमशब्दः । तथा क्रमशब्दस्य पूर्वसूत्रप्रकृतलयक्रमपरत्वत्यागेन सृष्टिक्रमपरत्वं तथा अस्याधिकरणस्य सृष्टिक्रमप्रकरणादुत्कर्षः । तथा सौत्राविशेषशब्दस्य भामत्यां क्लेशेनोक्तक्रमभङ्गपरत्वं च न युक्तम् ।।
प्रकाशिका
टीकानुक्तेराह ।। पूर्वोक्तस्येति ।। ‘‘अक्षरात्परमादेवेति श्रुतेर्वक्ष्यमाणलिङ्गदर्शनस्य च विरोध’’ इति टीकोक्तश्रुतिः केत्यतस्तद्विवृण्वंष्टीकोक्तपूर्वोत्तरपक्षसूचितचिन्तापरंपरां वदन् विषयसंशयटीकां तात्पर्यतो व्यनक्ति ।। अत्र किं भाष्येति ।। पूर्वसूत्रभाष्येत्यर्थः ।। वाङ्मनसीति ।। ‘‘वाङ्मनसि लीयत इति स्मरे’’दिति टीकोक्तार्थः । भाष्यानुक्तेराह ।। लोकदृष्टीति ।। टीकोक्तं सूत्रारूढं करोति ।। भजञाविति ।। ‘‘स्यात्प्रचीड्च सम्पर्के भजञौ भागसेवयो’’रिति कविकल्पद्रुमवचनादित्यर्थः । ञकार उभयपदार्थः । औकारश्चानिडर्थः । ‘‘भागविषय’’ इति टीकार्थं व्यनक्ति ।। यद्यपीति ।। सूत्रेति ।। द्वितीयसूत्रेत्यर्थः । आद्यसूत्रार्थो व्यक्त इति भावः । चराचरतद्भावभावित्वादिति स्यादित्याशङ्क्याह ।। समासेति ।। अन्ये त्विति ।। तन्मते ‘‘अन्तरे’’त्येकं सूत्रमेकमधिकरणम् । चराचरेत्यधिकरणान्तरम् । तत्राद्यार्थं भाष्याद्युक्तमनूद्य निराह ।। आत्मन इति ।। आम्नानक्रममात्रमिति ।। न तूत्पत्तिक्रमः विवक्षित इत्यन्वयः । कुत इत्यतो मध्ये हेतुमाह ।। अर्थेति ।। कारणोत्पत्त्यनन्तरमेव कार्योदयादिति भावः । भूतादौ भूतानां कारणेऽहंतत्व इत्यर्थः ।। लिङ्गैरिति ।। मनस्तत्वादाकाशजन्मदर्शनं स्मार्तं लिङ्गम् । अहंतत्वस्य भूतानां च मध्ये तन्मात्राणां शब्दादीनां लयदर्शनं श्रौतं लिङ्गम् । आदिपदोपात्रमेव लिङ्गान्तरम् । तैरित्यर्थः । सूत्राक्षरास्वारस्यं चाह ।। किञ्चेति ।। ‘‘सूत्रे आत्मानं भूतानि चेति योज्यम् । आत्मानं भूतानि चान्तरा । अन्तराले । आत्मनो भूतानां च मध्य इत्यर्थः । विज्ञानमनसी इन्द्रियमनस्तत्वे । आम्नायेते । क्रमेण तयोरपि सृष्टिरङ्गीकार्या । कुतः एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुरिति तल्लिङ्गात् । अतस्तैत्तिरीयोक्तभूतोत्पत्तिक्रमभङ्ग इति चेन्न । अविशेषात् । प्रथमं प्राणादिकं जायते पश्चात्र्वादिकमित्याथर्वणे विशेषाश्रवणा’’दिति भाष्येऽविशेषादित्यस्यार्थ उक्तः । भामत्यां तु ‘‘विशिष्यते भिद्यते भज्यत इति यावदिति विशेषो भङ्गः । अविशेषात् । उत्पत्तिक्रमभङ्गाभावा’’दित्यर्थ उक्तः । तत्र सर्वत्राप्यस्वारस्यमाह ।। आथर्वण इति ।। उपादानं न युक्तमित्यन्वयः । विज्ञानशब्देनैव योगेन कथंचित्प्रामाण्यस्यापि ग्रहणं भविष्यतीत्यतो योग एवायमयुक्तोऽस्य रूढत्वादित्याह ।। तथा विज्ञानतत्वमिति ।। तथाशब्दस्समुच्चये । इत्यादिषु भाष्योक्तस्मृत्यादिषु । ‘‘विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानशब्देनेन्द्रियाणि बुद्धिं च ब्रूम’’ इति भामत्युक्तमित्यर्थः ।। मनश्शब्द इति ।। युक्त इत्यन्वयः ।। सौत्राविशेषशब्दस्येति ।। अविशेषादित्यत्र प्रतियोगिवाचिविशेषशब्दस्येत्यर्थः । सौत्रविशेषेत्येव वा पाठः ।। क्लेशेनेति ।। ‘‘विशिष्यते भिद्यते भज्यत इति याव’’दिति क्लेशेनेत्यर्थः ।। क्रमभङ्गेति ।। भूतोत्पत्तिक्रमभङ्गपरत्वमित्यर्थः । एतेन ‘‘भूतप्राणयोरन्तराले विज्ञानमनसी विज्ञानसाधनत्वेन विज्ञानशब्दितेन्द्रियमनसी अपि क्रमेणोत्पद्येते । कुतः । तल्लिङ्गात् । तैत्तिरीयश्रुतिप्रसिद्धक्रमकसादिभूतैस्सह पाठरूपाल्लिङ्गादिति चेन्न । एतस्माज्जायत इत्यनेन प्राणादिपृथिव्यंतानां सर्वेषामव्यवधानेन ब्रह्मजत्वप्रतिपादनस्याविशिष्टत्वात् स एव विधेयो न क्रम’’ इति केषाञ्चित्सूत्रार्थोऽपि प्रत्युक्तः । अनेकाध्याहारादिदोषात् ।। छ ।। अन्तराविज्ञानाधिकरणम् ।। ९ ।।
चन्द्रिकाविवृतिः
।। ॐ अन्तरा विज्ञानमनसी ॐ ।। चिन्मनोविज्ञानतत्वविषये चिन्ताक्रमेणैव पूर्वपक्षसिद्धान्तनिष्कर्षं दर्शयितुमाह ।। अत्र किं भाष्योदाहृतेत्यादिना ।। अत्र तादर्थ्यं सम्यगूह्य निष्कर्षो ज्ञातव्यः ।। प्राय इति ।। मनस्तत्वनाशानन्तरमिति शेषः ।। स्मृतिस्त्विति ।। परादव्यक्तमुत्पन्नमित्यादिका स्मृतिरित्यर्थः ।। कार्यकारणव्यपदेशः कार्यकारणभावव्यपदेशः ।। मनोभावरूपेणेति ।। मनसो भावः आलोचनाख्यः उल्लासोऽस्ति स सर्वबोधोपयोगिवृत्तिरूपज्ञानोपयोगीत्यर्थः ।। तद्भावं प्रतीति ।। मनोभावो ह्यालोचनम् । तच्च चराचरविषयमिति कृत्वा समासान्तर्गतभावं प्रति चराचरेत्यादिविशेषणमित्यर्थः ।। पृथगुपादानं त्विति ।। चराचरव्यपाश्रयतद्भावभावित्त्वादिति वक्तव्ये चराचरव्यपाश्रयस्त्विति पृथगुपादानं योजनाविशेषद्योतनार्थमित्यर्थः ।। तदेव योजनान्तरं दर्शयति ।। यद्यपीति ।। छ्वछ्वआत्मनः एतस्मादितिछ्वछ्व पदोक्तभूतानि खं वायुरित्यादिनोदितानि ।। इन्द्रियमनसीति ।। तथा च सौत्रविज्ञानपदं करणव्युत्पत्या इन्द्रियपरमिति भावः । मध्ये प्राणं त्यक्त्वा इदमुक्तम् । अत एव वक्ष्यति च दूषणम् । भूतानन्तरं मन उत्पत्तिसिद्धेरिति शेषः । क्रममात्रमिति ।। स इदं सर्वमसृजतेति तत्सर्वेषामुक्तिमात्रमित्यर्थः । तन्मात्राणि भूततन्मात्राणि । मन आद्यनन्तरमेव आकाशोत्पत्तेः सिद्धेरिति । आत्मन आकाशः सम्भूत इत्यादितैत्तरीयश्रुतावपि मन आद्युत्पत्तिरपि मध्ये ज्ञातव्य एवातो न विरोध इति भावः ।। ननु भूतेभ्यः पूर्वमेव कथं मन आदीन्द्रियसृष्टिरङ्गीक्रियतेऽन्नमयमित्यादिना मनआदीनां पृथिव्यादिभूतजत्त्वश्रवणादित्यत आह ।। अन्नमयत्त्वश्रुतिस्त्विति ।। पार्थिवेनान्नेन प्रसिद्धान्नेन ।। पृथङ्मनःशब्द इति ।। श्रुताविन्द्रियाणीत्युक्तावपि मनोग्रहणमन्तरत्त्वबाह्यत्त्वविवेकार्थम् । न च तादृशविवेककरणं सूत्रकारस्येदानीमुद्देश्यमिति भावः ।। अन्तरालार्थेनेति ।। मन्मतेत्वंतराशब्दो विनार्थ इति न क्रममेति ।। प्रपूर्वाधिकरणादिषु सृष्टिक्रमो विचारितः । अत इदमप्यधिकरणं तत्रैव कर्तव्यमिति भावः ।। छ ।।