अत्रान्तर्यामिणो ब्रह्मत्वे हेतूकृतस्य..
अदृश्यत्वाधिकरणम्
तात्पर्यचन्द्रिका
संन्गतिकथनम् विषयचिन्तानिरूपणपूर्वकं पूर्वपक्षकथनम्
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ।।
अत्रान्तर्यामिणो ब्रह्मत्वे हेतूकृतस्य ‘‘यं पृथिवी न वेदे’’त्युक्तस्यादृश्यत्वस्याक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिः । अत्रादृश्यत्वादिगुणकमक्षरं किं प्रकृत्यादि किं वा विष्णुरिति चिन्ता । तदर्थं ब्रह्मणोऽक्षरत्वे ‘‘अक्षरात्परतःपर’’ इति वाक्यशेषोक्तमक्षरस्य परत्वावधित्वं न सम्भवत्युत सम्भवतीति । तदर्थं परत्वावधिभूतमक्षरमदृश्यत्वादिगुणकाक्षरादनन्यदुतान्यदिति । अनन्यत्वे परत्वावधित्वस्य ब्रह्मण्ययोगान्न तस्याक्षरत्वं युक्तम् । अन्यत्वे तु युक्तम् ।।
पूर्वपक्षस्तु ।। जडप्रकृतेरेवादृश्यत्वादि । अदृश्यत्वादिगुणकेऽक्षरे पृथिव्यादिदृष्टान्तपूर्वकं ‘‘तथाऽक्षरात्सम्भवतीह विश्व’’मिति विश्वोपादानत्वोक्तेः । न च कारणत्वमात्रेऽयं दृष्टान्तः । तस्य ‘‘सम्भवतीह विश्व’’मित्यनेनैव सिद्ध्या दृष्टान्तवैयर्थ्यात् । अबाधेऽन्तरङ्गस्योपादानत्वस्य त्यागायोगाच्च । चित्प्रकृतेर्वाऽदृश्यत्वादिकम् । तत्राक्षरशब्दस्य ‘‘कूटस्थोऽक्षर’’ इत्यादिस्मृतिसिद्धत्वात् । न चाक्षराधिकरणन्यायेन ब्रह्मणि स सावकाश इति वाच्यम् । विश्वोपादानत्वस्य तत्रासम्भवात् । चित्प्रकृतौ तु विश्वोपादानाभिमानित्वेन तत्सम्भवात् । चतुर्मुखो वाऽदृश्यत्वादिगुणकः । ‘‘स ब्रह्मविद्या’’मिति ब्रह्मशब्दात् । न च विष्णौ स मुख्य इति वाच्यम् । पूर्वत्र ‘‘ब्रह्मा देवानां प्रथमः सम्बभूवे’’ति, उत्तरत्र च ‘‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायत’’ इति जायमानत्वलिङ्गेन चतुर्मुखपरेण ब्रह्मशब्देन सन्दष्टस्य ‘‘स ब्रह्मविद्या’’मिति ब्रह्मशब्दस्यान्यपरत्वायोगात् । रुद्रो वाऽदृश्यत्वादिगुणकः । ‘‘कर्तारमीश’’मितीशशब्दात् । न च ‘‘शब्दादेव प्रमित’’ इति वक्ष्यमाणन्यायेन स विष्णुपर इति वाच्यम् । रुद्रे प्रसिद्धसर्वज्ञशब्दात् । न चासौ यौगिकत्वेन प्रकृताक्षरस्य विशेषणं न तु रुद्राख्यविशेष्यपर इति वाच्यम् । रूढेर्बलवत्त्वात् । सर्वविदित्यनेन पुनरुक्तेश्च । तस्मादुक्तबाधकात् ‘‘अक्षरात्परतः पर’’ इति निकृष्टत्वेन श्रुतत्वाच्चाक्षरं न ब्रह्म । न च ‘‘तथाऽक्षरा’’दित्यादावेवाक्षरशब्दो ब्रह्मपरः ‘‘अक्षरात्परतःपर’’ इत्यत्र तु प्रकृतिपर इति वाच्यम् । प्रकृतहानाप्रकृतस्वीकारापातात् । पूर्वपक्षे त्विदं निकृष्टत्वं चित्प्रकृतिपक्षेऽक्षरात्परत इति पञ्चम्योः सामानाधिकरण्येन पक्षान्तरे तु वैयधिकरण्येन युक्तम् । न चाब्रह्मपक्षे परविद्याविषयत्वं बाधकम् । ‘‘परा चैवापरा च । तत्रापरा । ऋग्वेदो यजुर्वेद’’ इत्यपरविद्यात्वेनोक्तऋगादिविषये शास्त्रयोनौ ब्रह्मण्येव तत्प्रतियोगिभूतपरविद्याविषयत्वासम्भवात् । ‘‘अथ परा । यया तदक्षरमधिगम्यत’’ इति श्रुत्या प्रकृतेरेव तत्सम्भवाच्च ।।
प्रकाशिका
भाष्ये ‘‘अदृश्यत्वादिगुणा विष्णोरुक्ता’’ इति सामान्योक्तेः, तत्वप्रदीपे च ‘‘अदृश्येऽनात्म्ये,’’ ‘‘सहैव सन्तं न विजानन्ति देवाः,’’ ‘‘स योतो श्रुत’’ इत्यादिनाऽदृश्यत्वादिगुणा विष्णोरुक्ता’’ इत्यादिपदप्रयोगात् टीकायां ‘‘अदृश्येऽनात्म्य’’ इति विशिष्योक्तावपि तुल्यन्यायतया प्राप्तां ‘‘पूर्ववददृश्यत्वादिबलेन रूढिं परित्यज्य योगवृत्त्याऽक्षरशब्दो विष्णौ सम्भवती’’ति न्यायविवरणटीकोक्तया च लब्धां पूर्वसङ्गतिमाह ।। अत्रेति ।। नन्वदृश्यत्वं सामान्यं पृथिव्यविदितत्वं विशेषः तेन कथं तदाक्षेप इति । मैवम् । सर्वादृश्यत्ववति तदेकदेशपृथिव्यविदितत्वस्यापि ‘‘मुखनासिकावचनोऽनुनासिक’’ इत्यत्र महाभाष्योक्तेन प्रासादवासिन्यायेन सत्त्वाद्वा पृथिव्याद्यधिदैवादिसर्वाविदितत्वस्यादृश्यत्वरूपत्वाद्वा ‘‘सहैव सन्तं न विजानन्ति देवा’’ इत्यत्रेव कैमुत्यलब्धत्वाद्वा उभयत्राप्यपरिच्छिन्नवैभवस्य विवक्षितत्वाद्वा तदाक्षेपात् । यदत्रोभाभ्यामुक्तं प्राक् प्रधानस्य द्रष्टृत्वाद्ययोगेन निरासेऽपीह तथा बाधकाभावाददृश्यत्वादिकं प्रधानस्य स्यादिति शङ्कोदयात्सङ्गतिरिति तन्न । साक्षात्सौत्रहेत्वाक्षेपसम्भवेनेदृश्या अनादरणीयत्वादिति भावेनोक्तं ब्रह्मत्वे हेतूकृतस्येति । एतेनैव प्राग्घेतूकृतेनादृश्यत्वरूपब्रह्मधर्मेण ब्रह्म किं नाक्षरशब्देनोच्यत इति शङ्काया अप्यनवकाशः । ‘‘अदृश्येऽनात्म्य’’ इत्यादिटीकादि तु फलपरमिति भावः ।
ननु पूर्वं तद्धर्माभिलापाभावेन प्रधाननिरासेऽपि नेह तथा पृथिव्यादिदृष्टान्तपूर्वं विश्वोपादानत्वरूपतद्धर्माभिलापादिति वा पूर्वत्राविदितत्वरूपादृश्यत्वादिबाधकेन शरीरशब्दे रूढित्यागवदत्राक्षरशब्देनादृश्यत्वलिङ्गेन रूढित्यागः । अक्षरात्परतः पर इत्युत्कर्षावधित्वश्रवणादिति वा पूर्ववैषम्येणापि सङ्गतिरस्तीति चेत्सत्यम् । प्रधानहेत्वाक्षेपसम्भवे तस्यैव वाच्यत्वात्सिद्धान्तिशङ्का बीजनिरासार्थत्वाच्च पूर्वहेत्वाक्षेप एवोक्तः । विषयसंशयटीकां व्यनक्ति ।। अत्रेति ।। टीकायामेवापेक्षितसमग्रविषयवाक्यं व्यक्तम् । यद्यपि गुणजातमेवात्र विषयः । लिङ्गपादत्वात् । टीकायां तथैवोक्तेश्च । तथाप्यक्षरस्य विशेष्यत्वात्तस्य चोपादानत्वान्न ब्रह्मेति पूर्वपक्षयुक्तिं सूचयितुं तथोक्तम् । अत एव टीकायामक्षरशब्दसाहित्येनान्यत्रप्रसिद्धिरदृश्यत्वादिलिङ्गानामुक्ता । नन्वेवमक्षरनामैव समन्वीयताम् । पादसङ्गतिस्तूत्तराधिकरण इवानेकलिङ्गसमन्वयार्थत्त्वात्फलतो भविष्यति । उपादानत्त्वादक्षरं न ब्रह्मेति पूर्वपक्षश्च ऋजुः । उपादानत्त्वादक्षरस्यान्यत्वेन तद्विशेषणत्वाद्गुणजातमप्यन्यस्येति पूर्वपक्षस्तु वक्र इति चेन्न । अक्षरशब्दसमन्वयस्याक्षराधिकरणे सेत्स्यमानत्वात् । न च तेनैवेदं गतार्थम् । परावधित्वादिना बाधकेन तस्येहापवादेन पूर्वपक्षकरणात् । अन्यत्रासमन्वितगुणजातसमन्वयस्यैवेह कार्यत्वात् । अस्मिन्पादेऽन्यसाहित्येनैवान्यत्र प्रसिद्धेराश्रितत्वात् । गुणसमन्वये च पूर्वसङ्गतेस्साक्षाल्लाभाच्च गुणजातमेवात्र चिन्तितम् ।। प्रकृत्यादीति ।। चिदचित्प्रकृतिविरिञ्चरुद्रा इत्यर्थः ।
यद्यप्यत्र टीकायां ‘‘अक्षरात्सम्भवतीह विश्व’’मिति कारणवाक्यस्थाक्षरब्रह्मेशशब्दानां च विष्णाववकाशमाशङ्क्य परत्वावधित्वश्रवणेनोज्जीवनात्तदनुरोधेन विष्णुरिति चिन्तानन्तरं कारणवाक्यस्थाक्षरब्रह्मेशशब्दाः किं प्रकृत्यादिपरा अथ विष्णुपरा इति चिन्ता प्रदर्शनीया । तथापि तुल्यन्यायतया सा चिन्ता स्पष्टेति वा वाक्यशेषस्थाक्षरस्य परत्वावधित्वेन निकृष्टत्वे तदनन्यप्राचीनाक्षरस्यापि न ब्रह्मत्वमिति हेतुहेतुमद्भावस्येव प्राचीनकारणवाक्यस्थब्रह्मेशशब्दयोर्न ब्रह्मपरत्वमित्यत्र स्पष्टं हेतुहेतुमद्भावाप्रतीतेरक्षरस्याब्रह्मत्वात्तद्युक्तकारणवाक्यस्य तत्समानाधिकरणब्रह्मेशशब्दयोरपि न ब्रह्मपरत्वमिति अक्षरस्याब्रह्मत्वद्वारैव कारणवाक्यादेरब्रह्मपरत्वोक्तयवश्यंभावाद्वा सङ्गतिभाष्यन्यायविवरणतट्टीकानुरोधाद्वाऽक्षरमुखैव चिन्तोपदर्शिता ।
फलफलिभावमस्फुटत्वादाह ।। अनन्यत्व इति ।। यदि वक्ष्यमाणदिशा प्रकृतहानाप्रकृतकल्पनादोषापत्त्या ‘‘अक्षरात्परत’’ इत्युक्ताक्षरस्य ‘‘अक्षरात्सम्भवतीह विश्व’’मिति पूर्वोक्तस्य चाक्षरस्यैकत्वं तदाऽदृश्यत्वादिगुणकस्य विश्वकारणत्वेनोक्तस्यैव परत्वावधित्वात्तस्य च सर्वोत्तमे विष्णावयोगेन यथायथं प्रकृत्यादीति पूर्वपक्षे फलम् । यदा तु ‘‘अक्षरत्रयमीरित’’मित्यादि वक्ष्यमाणरीत्याऽन्यत्वं तदाऽक्षरात्परत इत्युक्ताक्षरस्यापरत्वात् परत्वावधित्वस्य ब्रह्मण्यभावात्परविद्याविषयत्वेन विष्णुरेवेति सिद्धान्ते फलमित्यर्थः । उपादानत्वाक्षरब्रह्मेशशब्दान् क्रमेण प्रधानश्रीब्रह्मरुद्रप्रापकांष्टीकोक्तान्व्यञ्जयंश्चतुर्विधपूर्वपक्षटीकां व्यनक्ति ।। जडप्रकृतेरेवेत्यादिना ।। नन्वत्र निर्धारित एक एवादृश्यत्वादिगुणक इति पूर्वपक्ष उतानिर्धारितो यः कश्चिदिति सर्वेऽपीति वा । नाद्यः । अनेकप्रापकसत्त्वेन निर्धारणायोगात् । न द्वितीयः । संशयादविशेषापत्तेः । न तृतीयः । वाक्यभेदापातादिति चेन्न । अक्षरब्रह्मेशशब्दानामन्यप्रापकाणां अविनाशित्वेन ‘‘मम योनिर्महद्ब्रह्मे’’त्यादिवचनेन कार्यस्य कारणाधीनतयेशितृत्वेन प्रधान एवोपपत्तेरित्यादिरूपेण पक्षचतुष्टयेऽप्यवधारणसम्भवेनाद्यस्य युक्तत्वादिति भावेन प्रकृतेरेवेत्युक्तम् । चित्प्रकृतेर्वेत्यादि वाशब्दाद्द्वितीयतृतीयावपि युक्ताविति सूचितम् । द्वितीये विष्ण्वन्यत्वेनावधारणसम्भवान्न सन्देहादविशेषः । अत एव टीकायां ‘‘विष्णोरन्यस्य वे’’ति संशयोक्तिः । ‘‘न विष्णोरदृश्यत्वादीति तावत्पूर्वपक्ष’’ इत्युक्तिः ‘‘न विष्णुरदृश्यत्वादिगुणक’’ इत्युपसंहारश्च । तृतीये वाक्यभेदस्य न्यायप्राप्तत्वादिति । यद्वा ‘‘न विष्णोरदृश्यत्वादी’’ति टीकोक्तव्यवच्छेद्याभिप्रायं जडप्रकृतेरेवेत्यवधारणम् । न तु कोट्यन्तरव्यवच्छेदाशयम् । तेन ‘‘न विष्णोरदृश्यत्वादी’’ति टीकोक्तस्य ‘‘अदृश्यत्वादिकं जडप्रकृतेर्भवे’’दिति टीकोक्तस्य च सङ्ग्रहः कृतो भवति । तेन विष्णोर्न चेन्निर्विषयतया वाक्यमिदममानं स्यादिति शङ्का च निरस्ता भवति । ‘‘अस्य पृथिव्यादिदृष्टान्तेनोपादानतया जगत्कारणत्वेनोक्तेरिति टीकां व्यनक्ति ।। अदृश्यत्वेति ।। दृष्टान्तेत्येतदुपादानत्वसिद्ध्यर्थमुक्तम् । ऊर्णनाभेरादित्वेऽपि पृथिव्यादीत्युक्तेर्गतिर्वक्ष्यते ।
उपादानत्वमेव शङ्कापूर्वं व्यनक्ति ।। न चेति ।। तस्य कारणत्वमात्रस्य ।। अन्तरङ्गस्येति ।। कार्यानुस्यूतत्वादुपादानस्येति भावः । एतेन टीकायामेवमाशङ्क्य तथाऽक्षरब्रह्मेशशब्दानां च विष्णाववकाशमाशङ्क्य सर्वत्र परतः पराभिधानेनैवोज्जीवनं यत्कृतं तदुपलक्षणमिति सूचितम् । तथा च वक्ष्यति ‘‘इति निकृष्टत्वेन श्रुतत्वाच्चे’’ति । ‘‘चेतनप्रकृतेर्वे’’त्यादिटीकां व्यनक्ति ।। चित्प्रकृतेर्वेति ।। अक्षराधिकरणन्यायेनेति ।। ‘‘अक्षरमम्बरान्तधृते’’रित्यत्र ‘‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे’’ति श्रुतमक्षरं किं चित्प्रकृतिरथ विष्णुरिति संशये ‘‘ये त्वक्षरमनिर्देश्यमव्यक्त’’मित्यादौ श्रीतत्वेऽक्षरशब्दप्रयोगात्क्षराक्षरातीते विष्णौ तदयोगाच्छ्रीतत्त्वमेवेति प्राप्ते चतुर्विधनाशरहिते विष्णावेवाक्षरशब्दप्रवृत्तिनिमित्तस्य पौष्कल्यात् ‘‘तस्मादक्षरं तस्मादक्षरमित्याचक्षत एतमेव सन्त’’मिति श्रुत्यादौ तस्य प्रयोगाच्च विष्णुरेवाक्षरशब्दमुख्यार्थ इति तृतीये पादे वक्ष्यमाणन्यायेनेत्यर्थः । निर्विकारे श्रीतत्त्वेऽपि कथमुपादानत्वमित्यतः ‘‘तस्याविकाराभिमानित्वाद्युज्यत’’ इति टीकोक्तमेव व्यक्तमाह ।। चित्प्रकृतौ त्विति ।। ‘‘हिरण्यगर्भस्य वे’’त्यादिटीकां व्यनक्ति ।। चतुर्मुखो वेति ।। स ब्रह्मेति ।। ‘‘ब्रह्मा देवानां प्रथमस्सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहे’’ति वाक्ये ब्रह्मशब्दादित्यर्थः । तस्य चतुर्मुखपरत्व एवैतद्विद्यायास्तत्परत्वमित्यतस्तत्साधयति ।। न चेत्यादिना ।। पूर्वत्रेति ।। अत एव तत्वप्रदीपे ब्रह्मा देवानामिति पूर्ववाक्यमप्युदाहृतमिति भावः ।। जायमानत्वेति ।। सम्बभूव जायते इति पदाभ्यामुक्तेनेत्यर्थः । उपादानत्वं च तदभिमानित्वेनेति भावः । एवमग्रेऽपि । ‘‘रुद्रस्य वे’’त्यादिटीकां व्यनक्ति ।। रुद्रो वेति ।। ईशशब्दादिति ।। प्रकृतादृश्यत्वादिगुणकाक्षर एव ‘‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीश’’मित्युत्तरवाक्ये श्रुतत्वादित्यर्थः ।। शब्दादेवेति ।। अत्रैव तृतीयपादे ‘‘ईशानो भूतभव्यस्ये’’ति श्रुत ईशानो वायुरुत विष्णुरिति सन्देहे ऊर्ध्वं प्राणमुन्नयती’’ति प्राणव्यवस्थापकत्वस्य ‘‘मध्ये वामनमासीन’’मिति मध्यमत्वस्य ‘‘विश्वे देवा उपासत’’ इति विश्वदेवोपास्यत्वस्य च श्रवणात् तेषां च ‘‘एवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते योऽयं मध्यमः प्राणः कुविदङ्गे’’ति श्रुतिभिर्वायुधर्मत्वाद्वायुरिति प्राप्ते लिङ्गसहस्रादपि श्रुतेर्बलवत्त्वान्निरवकाशवामनश्रुत्या ईशानपदप्रवृत्तिनिमित्तस्य प्रेरकत्वादेर्विष्णावेव पौष्कल्यादीशानो विष्णुरेवेति वक्ष्यते । ईशशब्दस्य चेशानशब्दपर्यायत्वादिति भावः । यद्यपि सर्वत्रेति नये अत्तेति नये चादित्यादिति श्रुत्योरिवान्तर्नयन्यायेनेशशब्दस्यापि सावकाशत्वशङ्का सुशका । तथापि तदधिकरणविषयवाक्ये ईशशब्दस्य तत्पर्यायस्य वाश्रवणाभावाद्वा तत्रेवात्र वाक्ये निरवकाशविष्णुलिङ्गाभावेन तन्न्यायाविषयत्वाद्वा तत्र तात्पर्यमात्रमेवाधिदैवगतशब्दानामुक्तम् । न तु शक्तिरपीति भावेन वा शब्दादेवेत्यत्रेशशब्दपर्यायस्येशानशब्दस्य साक्षादेव समन्वयोक्तेर्वा ‘‘शब्दादेव प्रमित इति वक्ष्यमाणन्यायेने’’त्युक्तम् ।। प्रसिद्धेति ।।
यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ।।
इति श्रुतसर्वज्ञशब्दात्तस्य च ‘‘कृशानुरेतास्सर्वज्ञो धूर्जटिर्नीललोहित’’ इत्यमरोक्तया रुद्रे प्रसिद्धत्वादित्यर्थः । यौगिकत्वे दोषमाह ।। सर्वविदिति ।। प्रातिस्विकबाधकोक्तयान्यप्रापकाणां निरवकाशत्वमुक्त्वा टीकाद्युक्तेन साधारणबाधकान्तरेणापि तदाह ।। अक्षरादिति ।। यद्यपि टीकायां कारणत्वस्याक्षरब्रह्मेशशब्दानां च सावकाशत्वमाशङ्क्याक्षरात्परतः पर इति श्रुतनिकृष्टत्वेनैव तेषां निरवकाशत्वमुक्तम् । न तु दृष्टान्तोक्तिविश्वोपादानत्वादिना । तथापि सति बाधके त्यागायोगात् ‘‘अक्षरात्परतः पर इति श्रुतेरपी’’ति न्यायविवरणगतापिशब्दस्य बाधकान्तरसमुच्चयार्थत्वमुपेत्य प्रातिस्विकबाधकोक्तया च निरवकाशत्वमुक्तमिति ध्येयम् । अन्त्यचिन्तास्थानन्यत्वकोटिं साधयितुं निकृष्टत्वेन श्रुतत्वं शङ्कापूर्वं साधयति ।। न चेति ।। विष्णोरिव पूर्वपक्षकोटीनामपि निकृष्टत्वेन श्रुतत्वमयुक्तम् । श्रीतत्वापेक्षया विष्णोरर्वागन्यस्याभावात् । तत्र सामानाधिकरण्येनान्वये चतुर्मुखादावयोगादित्यतः ‘‘तस्यां सामानाधिकरण्येनोपपन्न’’मिति टीकोपलक्षणमिति भावेन ‘‘तस्मात्परस्याः प्रकृतेः परस्य हरेरभिधानादेव चे’’ति तत्वप्रदीपोक्तिं हृदि कृत्वा सर्वत्र तदुपपत्तिमाह ।। पूर्वपक्ष इति ।। पक्षान्तरे त्विति ।। अक्षराच्चतुर्मुखात्परतश्श्रीतत्वात्पर इति चतुर्मुखपक्षे । रुद्रपक्षे त्वक्षराद्रुद्रात्परतश्चतुर्मुखात्पर इति पुंमात्रविवक्षया ध्येयमिति भावः ।
ननु यथा सिद्धान्ते निकृष्टत्वश्रवणं बाधकं तथा पूर्वपक्षेऽपि परविद्याविषयत्वं बाधकमित्याशङ्क्य ‘‘यदा वेदाद्यन्यविषयतया योज्यते तदा तस्यापरविद्यात्व’’ मित्यादिसिद्धान्त टीकाव्यावर्त्यं परापरविद्ययोर्भिन्नार्थत्वमुपेत्याह ।। न चेति ।। ऋगादिविषयत्वोपपादनाय शास्त्रयोनावित्युक्तम् । शास्त्रयोनिसूत्रे तथोक्तत्वादिति भावः ।। प्रतियोगीति ।। विरोधीत्यर्थः ।। प्रकृतेरिति ।। प्रकृत्यादेरेवेत्यर्थः । नन्वक्षरात्परतः पर इति वाक्योक्तपरवस्तु किञ्चिदुपेत्यात्र प्रकृत्यादिरिति पूर्वपक्षकरणे ‘‘चित्वे तु तेन कार्त्स्न्येनावेद्यत्वं नेश्वरं विने’’ति प्रागुक्तदिशाऽपरिच्छिन्न वैभवत्वपर्यवसन्नं मुख्यमदृश्यत्वं निकृष्टत्वेनाभ्युपेते प्रकृत्यादौ पूर्वपक्षिणा शङ्कितुमशक्यमिति कथं तादृशस्यानन्दमयादावुक्तस्य विष्णुधर्मस्य पूर्वपक्ष आक्षेपस्स्यात् । न चात्र श्रुतनिकृष्टत्वस्य परत्वस्य चाक्षरत्वेनाभिमते प्रकृत्यादावेव कथञ्चिदुपपन्नताभिप्रेतेतीश्वरस्य परत्वमेव नोपेयते पूर्वपक्षिणेति वाच्यम् । तथात्वे पूर्वत्र निर्णीतादृश्यत्वरूपविष्णुलिङ्गेनाक्षरस्य विष्णुत्वमेवोपेत्य परापरत्वोपपत्तिरुच्यताम् । न चाक्षरादित्यादिना श्रुतोपादानत्वादिना विष्णुनिरासेन प्रकृत्यादिरुच्यत इति वाच्यम् । टीकायां परत्वावधित्वबाधकबलेनैव पूर्वपक्षप्रापकाणां निरवकाशत्वोक्तेरिति चेन्मैवम् । अदृश्यत्वं चक्षुरगोचरत्वमित्युपेत्यादृश्येनात्म्ये इत्युक्तादृश्यत्वस्यापि प्रकृत्यादावाशङ्कनात् । पूर्वाक्षेप चन्द्रिका त्वर्थान्तराभिप्राया । न चैवमपि ब्रह्मरुद्रयोर्जीवत्वेन ‘‘अचक्षुश्श्रोत्रं तदपाणिपाद’’मित्युक्तजीवधर्मभूतचक्षुरादिराहित्यं कथं घटताम् । येनादृश्येऽनात्म्य इत्यनात्म्यपदोक्तस्य जीवगुणराहित्यस्य टीकोक्त आक्षेप उपपद्येतेति वाच्यम् । तयोर्जीवत्वमेव नेतीति वा जीवोत्तमत्वेनेतरजीववैलक्षण्येन वा तदुपपत्तिरित्याशयादिति ।
चन्द्रिकाबिन्दुः
आनन्दमयाधिकरणाक्षेपपदं भाष्यं फलकथनपरमिति मत्वाऽनन्तरसङ्गतिमाह ।। अत्रान्तर्यामिण इति ।। परत्वावधित्वमवरत्वम् । अक्षरात्परतः परमिति वाक्योक्तं परत्वावधित्वं स्वतन्त्रपूर्वपक्षहेतुरिति मत्वा पृथिव्यादिदृष्टान्तानुरोधेनेति स्वारस्यानुरोधेन पूर्वपक्षमाह ।। पूर्वपक्षस्त्विति ।। अन्तरङ्गस्येति ।। उपादानस्य कारणेऽपि प्रवेशादिति भावः ।। रुद्रे प्रसिद्धेति ।। कृशानुरेतास्सर्वज्ञ इत्यभिधानादिति भावः । सामानाधिकरण्येनेति ।। परमते उत्तमादक्षरात् चित्प्रकृतेरिति सामानाधिकरण्येनेत्यर्थः ।
पाण्डुरङ्गि
।। ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ।। पूर्वपक्षसिद्धान्तयोः फलफलिभावमाह ।। अनन्यत्व इति ।। अक्षराधिकरणन्यायेनेति ।। अक्षरमम्बरान्तधृतेरित्यधिकरणन्यायेनेत्यर्थः । नन्वेवं चित्प्रकृतेरप्यदृश्यत्वमित्यपि न स्यात् । तस्या अपि विश्वोपादनत्वासम्भवादित्यत आह ।। चित्प्रकृतौ त्विति ।। रूढेरिति ।। कृशानुरेतास्सर्वज्ञ इत्यभिधानादिति भावः ।। सामानाधिकरण्येनेति ।। परं यदक्षरं तस्मादिति सामानाधिकरण्येनेत्यर्थः ।। ‘‘अदृश्येऽनात्म्येयं पृथिवी न वेद इत्यादेः वाक्यस्य, अपरिच्छिन्नवैभवत्व पर्यवसन्नमुख्यादृश्यत्वापेक्षया चक्षुरगोचरत्व रूपार्थान्तराभिप्रायेणैव पूर्वाक्षेपः ।। पक्षान्तरे त्विति ।।