अर्भकौकस्त्वादिरूपं सर्वगतत्वादिकं तु ब्रह्मणि..

अस्याधिकरणस्य पादान्तर्भाव समर्थनम्

तात्पर्यचन्द्रिका

अर्भकौकस्त्वादिरूपं सर्वगतत्वादिकं तु ब्रह्मणि पूर्वपक्षे कयापि श्रुत्या नोच्यत इति न तस्य स्वत उभयत्रप्रसिद्धता । यद्वा समाख्याश्रुत्यादितौल्याभावोऽप्यन्यत्र प्रसिद्धलक्षणान्तर्गतः । सचेह नास्ति । अन्तर्यामित्वादौ त्वस्ति । ततश्च द्युभ्वायतनत्वमुभयत्र प्रसिद्धमेव । यद्वा सर्वगतत्वादीनींद्राकाशादिशब्दवत्स्वरूपेणैवान्यत्र प्रसिद्धानि । नत्वन्यत्र प्रसिद्धतत्तत्साहचर्यात् । येन द्युभ्वाद्यायतनत्वादिकमपि तत्तत्साहचर्यात्तथा स्यात् । तथाहि पूर्णेऽभोक्तरि कर्महीनेच ब्रह्मण्यर्भकौकस्त्वादिरूपं सर्वगतत्वमत्तृत्वं कर्मफलभोक्तृत्वं चायुक्तम् । तथा अनित्यक्रियारूपमन्तरत्वमन्तर्यामित्वं चाक्रिये ब्रह्मणि सदा न युक्तम् । तथा अदृश्यत्वाद्यभावधर्मत्वं भावरूपे ब्रह्मण्ययुक्तम् । ‘‘एवं धर्मान्पृथ’’गितिश्रुत्या ब्रह्मणि धर्मधर्मिभेदनिषेधात् । अत एवानुव्याख्याने तत्र सिद्धान्ते क्रियाया नित्यत्वं भावस्याप्यभावात्मकत्वं च साधितम् । एवं च सर्वगतत्वादीनि ब्रह्मण्ययुक्तत्वादेवान्यत्र प्रसिद्धानि । वैश्वानरशब्दस्त्वग्निपर्यायतयाऽन्यत्र प्रसिद्धः । टीकायां सर्वगतत्वादीनामादित्यादिश्रुतिसाहचर्यादन्यत्र प्रसिद्ध्युक्तिस्त्वन्यमात्रे प्रसिद्धेः स्वतः सिद्धत्वेऽप्यादित्यादिरूपान्यविशेषाभिप्राया । एवमुत्तरत्रापि यथासम्भवं पादसङ्गतिरूह्या ।

प्रकाशिका

नन्वेवं निरपेक्षादरे सर्वत्र प्रसिद्धेत्यादावुक्तसर्वगतत्वादेरेवं उभयत्रप्रसिद्धि सम्भवेनान्यसाहित्येनान्यत्र प्रसिद्ध्युक्तिर्न स्यादित्यत आह ।। अर्भकेति ।। एवमन्यत्रप्रसिद्धत्वरूपत्वमस्य लिङ्गस्योपेत्य द्वेधा गतिरुक्ता । अधुना तथात्वमेवास्य नास्तीति भावेनोत्तरं समाधानद्वयम् । तत्राद्यं ‘‘श्रुत्यादितो लोकतो वापीतरेषु प्रसिद्धते’’ति यदन्यत्र प्रसिद्धिलक्षणमुक्तं तत्र श्रुत्यादितौल्याभावे सतीति विशेषणं देयम् । अतो न दोष इत्याह ।। यद्वेति ।। श्रुत्यादित इति पदस्थाने स्वत इति पदं प्रक्षिप्येतरेषु प्रसिद्धत्वं लोकतस्स्वत एव वेत्यन्यत्र प्रसिद्धत्वलक्षणं वाच्यम् । तच्चेह नास्ति । पूर्वत्रास्तीत्याह ।। यद्वा सर्वगतत्वादीनीति ।। पूर्वोदाहरणानां स्वतोऽन्यत्र प्रसिद्धतामाह ।। तथाहीति ।। कुत इत्यत उक्तमेवंधर्मानिति । टीकाविरोधमाशङ्क्याह ।। टीकायामिति ।। उत्तरत्रेति ।। उत्तराधिकरणेषु । पादसङ्गतिः पादान्तर्भावः । भूमनये प्राणाभेदेन प्रतीतभूमनाम्नः प्राणोनूत्क्रामतीति श्रुतनिरवकाशोत्क्रमणलिङ्गेन अक्षरनये श्रुत्यन्तरसिद्धचन्द्राद्याधारत्वश्रीतत्वलिङ्गेनाक्षरनाम्नः ईक्षतिनये बहुस्यामिति श्रुतविकाररूपलिङ्गेन सदेवेति श्रुतसन्नाम्नः दहरनयादावाकाशश्रुत्यादिना हृत्पद्मस्थत्वादेरन्यत्र प्रसिद्धत्वेप्युक्तदिशा चतुर्धान्तर्भावसङ्गतिरूह्येत्यर्थः । समाख्याश्रुतितौल्यस्य सर्वत्रासम्भवाद्यथासम्भवमित्युक्तम् ।

पाण्डुरङ्गि

ननु ब्रह्मणो अर्भकौकस्त्वरूपसर्वगतत्वप्रतिपादकस्यान्तर्हृदयेऽणीयानित्यादि-वाक्यस्य सत्त्वेन तस्य न्यायविवरणे पूर्वपक्ष अनुदाहरणेपि वस्तुत उभयत्र प्रसिद्धता स्यादित्यत आह ।। अर्भकेति ।। नन्वन्यत्र प्रसिद्धेष्वपि सर्वगतत्वादिषु समाख्याश्रुत्यादितौल्यस्यैवोक्तरीत्या सत्त्वेनोभयत्र प्रसिद्धता स्यादित्यत आह ।। यद्वेति ।। अस्मिन्पक्षेऽन्यत्र प्रसिद्धिलक्षणे समाख्याश्रुत्यादितौल्याभावरूपविशेषणप्रक्षेपः कर्तव्य इतीममेवास्वरसं मनसि निधाय पक्षान्तरमाह ।। यद्वेति ।।