आत्मशब्दादित्युक्तौ तु..

आत्मशब्दस्य विष्णौ मुख्यत्वे युक्तिनिरूपणम्

तात्पर्यचन्द्रिका

आत्मशब्दादित्युक्तौ तु यद्यप्यार्जवं प्रतिपत्तिलाघवं च शब्दलाघवाद्वरम् । तथापि तस्य विष्णावसाधारण्यं न ज्ञापितं स्यात् । तस्य शब्दस्तच्छब्द इति विग्रहं विवक्षित्वा तच्छब्दादित्युक्तौ तु शब्दविशेषो नोपात्तः स्यात् । अत उभयार्थं स्वशब्दादित्युक्तम् । एवमुक्ते ह्युक्तिवक्त्रत्वावैयर्थ्याय स्वस्य विष्णोरेव शब्दः स्वशब्द इत्यपि विग्रहस्य विवक्षणीयत्वादसाधारण्यं ज्ञापितं भवति । एतदेवाभिप्रेत्योक्तं तत्वप्रदीपे ‘‘विष्णोः स्वरूपस्यैव साक्षाद्वाचको ह्यात्मशब्द’’ इति । षष्ठीसमासमात्रविवक्षा चेत् ‘‘तद्धर्मोपदेशात् । तल्लिङ्गा’’दित्यादाविवात्रापि तच्छब्दः प्रयुज्येत । अथवा यथा लोकेऽन्यत्रप्रसिद्धोऽपि स्वशब्दो विष्णोः सकाशात् सम्भूते चतुर्मुखे स्वभूरिति प्रयोगादिवशाद्विष्णौ मुख्यः तथा लोकेऽन्यत्रप्रसिद्धोऽप्यात्मशब्दश्चतुर्मुखे आत्मभूरिति प्रयोगात्

आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारतः ।

तथैव स्व इति प्रोक्तस्तस्माद्ब्रह्माऽऽत्मभूः स्वभूः ।।

इति वचनाच्च विष्णौ मुख्य इत्यभिप्रेत्य स्वशब्दादित्युक्तम् । द्वितीये विषयवाक्यात्किञ्चिद्व्यवहितलिङ्गरूपसाधकोक्तिः । अत्र च टीकोक्तरीत्या जायमानत्वलिङ्गेनात्मश्रुतेर्गौणत्वमस्त्विति शङ्कानिरासात्ततः प्राक् स्वातन्त्र्येण हेत्वन्तरपरत्वाभावाच्चशब्दाभावः । इहोपसृप्यत्वं श्रौतसेतुशब्दात् प्राप्यान्तररहितत्वे सति प्राप्यत्वम् । न त्वर्चिरादिवत्प्राप्यत्वमात्रम् । अत एव भाष्ये ‘‘अमृतस्यैषसेतु’’रिति वाक्यमेवोदाहृतम् । न तु ‘‘परात्परं पुरुषमुपैती’’ति वाक्यमिति न कश्चिद्दोषः ।

प्रकाशिका

केयमेवं सूत्रकारस्य वक्रा रीतिः । आत्मशब्दादित्येव कुतो नासूत्रयदिति भावेनाक्षिप्य समाधत्ते ।। आत्मशब्दादिति ।। आर्जवमिति ।। स्वेति शब्द इति विग्रहाश्रयणे विषयवाक्ये तदभावालोचनेन तत्पर्यायग्रहणस्य दुर्बोधत्वेन वक्रत्वादेव मुक्तौ तदभावादार्जवमित्यर्थः । त्वत्पक्षेऽपि शब्दगौरवमित्यत आह ।। प्रतिपत्तीति ।। तर्हि तल्लिङ्गादित्यादाविव तच्छब्दादित्युक्तिस्स्यादित्यत आह ।। तस्येति ।। अत इति ।। अन्यथा न्यासे विवक्षितासिद्धेरसाधारण्यज्ञापनशब्दविशेषोपादानप्रयोजनरूपोभयार्थमित्यर्थः । एवमुक्तौ कथमुभयस्य लाभ इत्यत आह ।। एवमिति ।। न केवलं स्वेतिशब्द इति विग्रह इत्यपेरर्थः । एवं विग्रहद्वयमाश्रित्यैकं समाधिमुक्त्वाऽधुना स्वेति शब्द इत्येव विग्रहः । पूर्वोक्तदिशा स्वशब्दपर्यायात्मशब्दादित्येवार्थः । तर्ह्यात्मशब्दादित्येव कुतो नोक्तमित्याशंक्य स्वशब्दादित्युक्तौ यथा स्वशब्दो विष्णौ मुख्यस्तथाऽऽत्मशब्दोपीत्यभिप्रायसूचनमेवमुक्तेस्सूत्रकारस्य प्रयोजनम् । अत एव छान्दोग्यभाष्ये षष्ठे स्वशब्दतुल्यस्यात्मशब्दस्य विष्णौ मुख्यत्वमाचार्यैस्समर्थितमिति भावेन पक्षान्तरमाह ।। अथवेति ।। स्वयमेव भवतीति स्वभूरिति भ्रमनिरासाय विष्णोस्सकाशात् सम्भूत इत्युक्तम् । उक्तं च छान्दोग्यभाष्ये ‘‘स्वयंभूरिति विष्णुजत्वाद्विरिञ्च उच्यते । न हि विरिञ्चादेव विरिञ्चो जातः । यो ब्रह्माणं विदधातीति श्रुतेः । आत्मा भगवान् । ततो भूतत्वादात्मभू’’रित्यादि । आदिपदेन ‘‘स्वातन्त्र्यात्स्व इति प्रोक्त’’ इत्यादिवचनं गृह्यते ।

द्वितीय इति ।। ‘‘मुक्तोपसृप्यव्यपदेशा’’दित्यत्र ‘‘अमृतस्यैष सेतु’’रित्यमृतशब्दितमुक्तवर्गाश्रयत्वरूपलिङ्गोक्तिरित्यर्थः । मुक्तोपसृप्येति भावप्रधानः । ‘‘द्व्येकयोर्द्विवचनैकवचने’’ इत्यत्र पाणिनीये द्व्येकयोरित्यत्रेव । लिङ्गोक्तिपरत्वे स्वशब्दादिति हेतुसमुच्चायकचशब्दस्स्यादित्यत आह ।। अत्र चेति ।। ततः प्राक् गौणत्वशङ्कानिरासात्प्राक् । नन्वयं योगश्शक्योऽवक्तुम् । ‘‘तन्निष्ठस्य मोक्षोपदेशात् । हेयत्वावचनाच्चे’’त्यत्रैव ‘‘तमेवैकं जानथात्मान’’मित्युक्तात्मशब्दस्य विष्णौ मुख्यतायास्तात्पर्यस्य च सिद्धेः । तथैव तत्र टीकादौ भानात् । न च तत्र ‘‘जानथात्मानमन्या वाचो विमुंचथे’’ति हेयत्वावचनाहेयत्ववचनान्यहेयत्ववचनैरेव वैष्णवत्वमात्मशब्दस्योक्तम् । अत्र तु मुक्तोपसृप्यत्वलिङ्गेनेति वाच्यम् । तत्रापि भाष्ये ‘‘अमृतस्यैष सेतु’’रित्यन्तस्योदाहरणात् । टीकायां ‘‘आत्मशब्दो मोक्षदातृत्वाहेयत्वाभ्यां निर्गुणलिङ्गाभ्यामपह्रियत’’ इत्युक्तेस्तन्निष्ठसूत्रविषयत्वसम्भवाच्च । मैवम् । तत्रात्मशब्दस्य जीवे मुख्यत्वमाशङ्क्य तन्निष्ठस्य मोक्षोपदेशादिना तन्निरासः । अत्र तु विष्णौ मुख्योप्यात्मशब्दोऽत्र प्रकरणे जायमानत्वरूपनिरवकाशजीवलिङ्गादमुख्यार्थः किं न स्यादिति शङ्कायां मुक्तोपसृप्यत्वलिङ्गेन तदुद्धारः । हेयत्वावचनादेरप्युपलक्षणमेतत् ।

ननु चैवं यैर्लिङ्गैः पूर्वमात्मशब्दस्य वैष्णवत्वं साधितं तेषु जाग्रत्स्वेव निरवकाशजीवलिङ्गेनामुख्यवृत्त्याऽवैष्णवत्वे शङ्किते कथं तैरेव शङ्कानिरास इति चेत्सत्यम् । तस्याग्रे ‘‘अतच्छब्दात् । प्राणभृच्चे’’त्यत्र सावकाशयिष्यमाणत्वं मुक्तोपसृप्यत्वादेस्तु निरवकाशत्वमिति भावेन ‘‘मुक्तोपसृप्यव्यपदेशा’’ दित्युक्तिरिति न कोपि दोषः । मुक्तप्राप्यत्वस्यार्चिरादिना गच्छतां तदा प्राप्यस्थाने व्यभिचारमाशङ्क्याह ।। इहेति ।। सेतुत्वस्य प्राप्यान्तररहितत्वे सति प्राप्यत्वरूपत्वादित्यर्थः । तादृशं च ब्रह्मण्येव ‘‘विश्वात्मानं परायणं, मुक्तानां परमागतिः, साकाष्ठासापरागति’’रित्यादेरिति भावः । अत एवेति ।। चरमप्राप्यत्वस्य सेतुपदेनेवोपैतिपदेनालाभादेवेत्यर्थः ।।

पाण्डुरङ्गि

आत्मशब्दादित्युक्तौ त्विति ।। शब्दगौरवेपि प्रतिपत्तिलाघवात् स्वशब्दादित्युक्तौ च लाघवेपि प्रतिपत्तिगौरवेण प्रतिपत्तिगौरवापेक्षया प्रतिपत्तिलाघवस्यैव ज्यायस्त्वादात्मशब्दादित्येव वक्तव्यमित्यर्थः ।। एवमुक्ते ह्युक्तिवक्रत्वावैयर्थ्यायेति ।। आत्मशब्दादिति वक्तव्ये स्वशब्दादित्युक्तिवक्रत्वावैयर्थ्यायेत्यर्थः । ननु च तच्छब्दादित्युक्तावपि विषयवाक्य आत्मशब्दातिरिक्तशब्दान्तराभावेन विषयवाक्यस्थात्मशब्दरूपशब्दविशेषलाभेन स्वशब्दादिति किमर्थमुक्तम् । अन्यथा आकाशस्तल्लिङ्गादित्यपि न वक्तव्यं स्यात् । तथोक्तौ तु लिङ्गविशेषाप्रतीतेरित्यरुचेराह ।। अथवेति ।। ननु न मुक्तप्राप्यत्वं विष्णुत्वनिश्चायकम् । तस्यार्चिरादिसाधारणत्वादित्यत आह ।। श्रौतेति ।। अमृतस्यैष सेतुरिति श्रुतिस्थसेतुशब्दादित्यर्थः । जायमानादिशब्दानामिति वक्ष्यमाणरीत्या भेदव्यपदेशस्य जीवविषयत्वात् प्राणभृच्चेति योगविभागमात्रस्योत्तरार्थकरणेपि तत्सूत्रेऽप्यत्रत्यसाध्यहेत्वनुकर्षादत्रैव तत्सूत्रार्थोऽभिप्रेत इत्याशयेनात्र व्याख्यातमिति द्रष्टव्यम् ।