अन्येतु

उभयमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु ।। ‘‘अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपा’’ इति श्वेताश्वतरवाक्यस्था प्रजास्रष्टृत्वेनोक्ताऽजा साङ्ख्याभिमता त्रिगुणा प्रकृतिरिति प्राप्ते इयमजा साङ्ख्याभिमतेति न निश्चेतुं शक्यम् । अजात्वादेः सर्वत्रापि कथंचित्सुसम्पादत्वात् । विशेषहेतोश्चाभावात् । यथा ‘‘एषह्यर्वाग्बिलश्चमस’’ इत्यत्रायं नामासौ चमस इति निश्चेतुमशक्यम् । अर्वाग्बिलत्वादेः सर्वत्रापि कथंचित्सुसम्पादत्वात् । विशेषहेतोश्चाभावादिति चमससूत्रेणोक्त्वा ज्योतिःसूत्रेण प्रत्युतेयमजा ज्योतिरुपक्रमैव तेजआदिरूपैव । न तु साङ्ख्याभिमता । ‘‘यदग्नेरोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्ये’’ति श्रुत्यन्तरे तेजोबन्नानामेव लोहितशुक्लकृष्णरूपवत्त्वेनाधीतत्वात् । प्रकृतिपक्षे लोहितादिशब्दानां रजआदौ गौणत्वापत्तेश्चेति समाहितम् । चमससूत्रं च ज्योतिरधिकरणशेष इत्याहुः ।। तन्न ।। ‘‘इदं तच्छिर एष ह्यर्वाग्बिलश्चमस’’ इत्यत्र शिरोरूपविशेषपरत्वस्य स्फुटत्वेनाविशेषे दृष्टान्तत्वायोगात् । ब्रह्मलक्षणस्य कारणत्वस्य प्रधानेनातिव्याप्तिः किं तु तेजोबन्नेष्विति समर्थनस्य निष्फलत्वाच्च । किञ्च

अजा चेज्ज्योतिरादिः स्यादजैकत्वाद्यसम्भवः ।

अविद्येति तु पक्षे स्याल्लोहितत्वाद्यसम्भवः ।। १ ।।

इयमजा सिद्धान्ते किं तेजोबन्नरूपा किं वाऽविद्यारूपा । नाद्यः । तेषां जनिमत्त्वादनेकत्वाच्च ‘‘अजामेका’’ मित्याद्ययोगात् । न च त्रिवृत्करणादेकत्वम् । ‘‘तासां त्रिवृतं त्रिवृतमेकैकां करवाणी’’ति प्रत्येकं त्रिवृत्करणश्रवणेन त्रिवृत्कृतसमुदायानामपि त्रित्वात् । नन्वेतत् ‘‘कल्पने’’ति सूत्रेणैव परिहृतम् । यथा ‘‘आदित्योवा देवतामध्वि’’त्यादावादित्ये मधुत्वं कल्प्यते तथा तेजोबन्नेष्वजात्वं छागीत्वं कल्प्यत इत्यस्यार्थ इति चेत् कल्पनाऽऽरोपोवा गौणीवृत्तिर्वा । नाद्यः । पामरमनोरञ्जनार्थं काव्यादाविव श्रुतिषु कल्पनोपदेशे फलाभावात् । अन्यथा साङ्ख्याभिमतप्रकृतावेव लोहितत्वाद्यारोप इति स्यात् । देवमध्वित्यादिकं तु मधुशब्दवाच्यत्वपरमित्युक्तम् । न चाजाशब्दोऽनन्यगतिकः योगस्य सम्भवात् । ‘‘शरीरं रथमेव च गौरनाद्यंतवती’’त्यादौ तु शरीरप्रकृत्यादौ रथगवादिशब्दा गौणाः । नत्वारोपनिमित्तकाः । न द्वितीयः । योगेन मुख्यत्वसम्भवे गौणत्वायोगात् । लोहितादिविशेषणशब्दानामेव प्रकृतौ गौणत्वस्यन्याय्यत्वेन विशेष्यतया प्रधानभूताजाशब्दे तस्यान्याय्यत्वाच्च । किञ्च ‘‘गौरनाद्यन्तवती भूतभाविनी सिताऽसिताच रक्ताचे’’ति श्रुत्यन्तरोक्तैवेह प्रत्यभिज्ञायते । साचानाद्यंतवतीत्वान्न तेजोबन्नरूपा । लोहितादिशब्दानां रूपपरत्वं चायुक्तम् । ‘‘देवात्मशक्तिं स्वगुणैर्निगूढा’’मिति वाक्यशेषे सत्त्वादिषु प्रसिद्धगुणशब्दश्रवणात् । स्वीकृताच त्वयापि शक्तिवाक्यस्याविद्यापरता ।

नाप्यविद्येति द्वितीयः । तत्र लोहितादिरूपाभावात् । कार्यावस्थायां रूपाश्रयत्वं तु प्रकृतावपि युक्तम् । ज्योतिरित्यादिसूत्रद्वयविरोधश्च । तस्य अजा तेजोबन्नरूपेत्येवंपरत्वेन त्वया व्याख्यातत्वात् । किं च त्रिगुणमनादिभावरूपं प्रकृत्यादिसंज्ञं जगदुपादानं त्वयाऽपि स्वीकृतम् । साङ्ख्याभिमतं तु स्वातन्त्र्यं द्वितीये साङ्ख्यप्रक्रियायां निरसिष्यते । निराकृतं च ‘‘तदधीनत्वा’’दित्यत्रेति व्यर्थमिदमधिकरणम् । तदुक्तमनुव्याख्याने 

तेजोबन्नात्मकं वापि यद्युपादानमिष्यते ।

अनाद्येवापराधः कः प्रधानमिति चोदितः ।। इति ।

ज्योतिःसूत्रे उपक्रमेत्यपपाठाश्रयणे ह्यजापदमध्याहार्यम् । तेजसस्तद्रूपमिति श्रुत्यनुगमाय च लाघवाय च तेजआदिरिति च सूत्र्येत । कल्पनेति सूत्रेऽनुपपत्तिस्तूक्तेति ।। केचित्तु ।। चमससूत्रस्य परोक्त एवार्थः । ज्योतिस्सूत्रस्य ज्योतिर्ब्रह्म । इयमजा ज्योतिरुपक्रमा ब्रह्मकारणिका । तैत्तिरीयशाखायां ‘‘अणोरणीया’’नित्यादिना ब्रह्मोक्त्वा ‘‘सप्तप्राणाः प्रभवन्ति तस्मा’’दित्यादिना ततः सृष्टिं चोक्त्वा ‘‘अजामेका’’मिति मन्त्रे ब्रह्मकार्या ह्यजाऽधीयत इत्यर्थ इत्याहुः । तन्न । अजामिति मन्त्रेऽजाया ब्रह्मकार्यत्वाप्रतीतेः । ननु यथा ‘‘समिधोयजती’’ त्यादावंगत्वाश्रयणेपि दर्शपूर्णमासप्रकरणात्तदङ्गता तथाऽत्रापि सृष्टिप्रकरणेपि तदाकाङ्क्षितोपादानत्वेनाप्यजाया उक्तिसम्भवेन सृज्यत्वासिद्धेः । समिदादिस्त्वङ्गत्वेनैव दर्शाद्याकाङ्क्षित इति वैषम्यम् । किञ्च प्रकृतेः कार्यत्वे ‘‘गौरनाद्यंतवती प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपी’’त्यादिश्रुतिस्मृतिविरोधः । अजात्वविरोधश्च । ननु प्रकृतेः कारणात्मनाऽजात्वम् । तत्र कल्पनाशब्दस्य ‘‘यथा पूर्वमकल्पय’’ दित्यादाविव सृष्टिपरत्वादिति चेन्न । अजात्वलोहितादित्वयोः स्वतःप्राप्तैकविषयत्वत्यागेनावस्थाभेदेन विभिन्नविषयत्वायोगात् । अजां सृजमानामिति कारणावस्थायामेव लोहितत्वादिप्रतीतेश्च । किञ्च प्रकृतिस्वरूपं त्वयापि स्वीकृतम् । साङ्ख्याभिमतं तु स्वातन्त्र्यं ‘‘तदधीनत्वा’’दित्यत्र निरस्तम् । एवं चाजायाः प्रकृते ‘‘ज्योति’’रितिसूत्रे ब्रह्मकार्यत्वमनुपयुक्तमेवोक्त्वा तन्निर्वाहाय ‘‘कल्पने’’ति सूत्रेऽजात्वकार्यत्वयोराकारभेदेनाविरोधसमर्थनं व्यर्थमेवेति ।।

टीकाक्षरार्थस्तु ।। अधिकारिनियोज्ययजमानेति ।। अधिकारित्वं फलस्वामित्वावस्था । नियोज्यत्वं विधिप्रेर्यत्वावस्था । यजमानत्वं कर्तृत्वावस्था ।। ज्योतिष्टोमादिशब्दव्युत्पत्तिरिति ।। यद्यपि ज्योतिःशब्द एव सूत्र उपात्तः । अनुव्याख्याने च तस्यैव व्युत्पत्तिर्दर्शिता । तथापि ज्योतिष्टोमशब्दोऽपीहोदाहरणमिति दर्शयितुं ज्योतिःशब्दोपि ज्योतिष्टोमवाचीति दर्शयितुं च टीकायां ज्योतिष्टोमशब्दस्य व्युत्पत्तिर्दर्शिता ।।

प्रकाशिका

मतद्वयेपि ‘‘चमसव’’दित्यादित्रिसूत्र्येकमधिकरणम् । तत्राद्वैतिमतमनुवदति ।। अन्येत्विति ।। श्वेताश्वतरेति ।। अजाशब्दस्य छाग्यां रूढत्वात्कः प्रधानादिचिन्ताप्रसङ्ग इत्यतोऽध्यात्मविद्याप्रकरणस्थत्वान्न रूढेरत्र ग्रहणमिति सूचयितुमेतत् । तदुक्तं भाष्ये‘‘विद्याप्रकरणा’’दिति । भामत्यां च ‘‘आत्मविद्याधिकारान्न च तत्र वर्तितुमर्हती’’ति । रूढित्यागे हेत्वन्तरम् ।। प्रजेति ।। छाग्यां प्रजासृष्टेरयोगात् । अविशेषादिति सूत्रखण्डार्थमाह ।। इयमिति ।। चमसवदित्यंशस्यार्थमाह ।। यथेति ।। अर्वाग्बिल इत्येतन्नामकैवंरूपं चमसस्य यथा निर्णेतुमशक्यं तथेत्यर्थः । ‘‘ननु तत्र तु इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वब्रुध्न’’ इति वाक्यशेषाच्चमसविशेषप्रतीतिर्भविष्यति । इह पुनः केयमजेत्यतो ब्रूम’’ इत्यवतार्य भाष्येऽभिहितं ज्योतिस्सूत्रार्थमनुवदति ।। प्रत्युतेति ।। प्रधानभिन्नैवाजा निर्णेतुं शक्यत इत्यर्थः । उपक्रमशब्दः प्रभृतिवाचीति मत्वाह ।। तेजआदिरूपैवेति ।। तेजोबन्नलक्षणभूतत्रयरूपैवेयमजान गुणत्रयलक्षणेत्यर्थः । तथाहीत्यादिसूत्रांशार्थमाह ।। यदिति ।। श्रुत्यन्तरे छान्दोग्ये । प्रकृतिपक्षे साङ्ख्याभिमतप्रधानपक्षे । रजःप्रभृतिषु लौहित्यादिवर्णानामभावेन ‘‘लोहितं कुसुम्भादि रञ्जयति रजोपि रञ्जयतीति लोहितम् । प्रसन्नं पाथः शुक्लम् । आवरकं मेघादि कृष्णं तमोप्यावरक’’मिति भामत्युक्तरीत्या गौणत्वापत्तेरित्यर्थः । तृतीयसूत्रार्थं स्वयमेवाग्रे वक्ष्यति । आद्यसूत्रार्थोऽयुक्त इत्याह ।। इदमिति ।। ज्योतिस्सूत्रार्थमपि निराह ।। ब्रह्मेति ।। चिन्ताया अतिव्याप्तिनिरासः फलम् । यथोक्तं ‘‘त्रिपाद्यामसम्भवनिरासः । चतुर्थेऽतिव्याप्तिनिरास’’ इति । प्रधाननिरासेपि तेजोबन्नानीत्युक्तयाऽतिव्याप्तिसमर्थनमेव फलितम् । तच्च व्यर्थमित्यर्थः । अतो ब्रह्मपरमित्येव वाच्यमन्यद्वोदाहार्यमिति भावः । तदुक्तमनुव्याख्याने

अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।

को दोषस्सर्वथैवास्ति परिणामि जडं यदि ।। इति ।

अतिव्याप्तिनिरासस्योभयत्राप्यभावादिति भावः । न केवलं निष्फलम् । अयुक्तं च तेजोबन्नपरत्वसमर्थनमिति भावेन ‘‘किं च तेजोबन्नेषु न तावदजाशब्दो रूढ’’ इत्यादिसुधावाक्यं विवृण्वन्दोषान्तरमाह ।। किञ्चेति ।। श्लोकं व्याचष्टे ।। इयमिति ।। किन्तेज इति ।। मायाऽविद्याशब्दितपरमप्रकृतिजन्यावांतरप्रकृतिरूपेत्यर्थः ।। अविद्येति ।। तत्कारणपरमप्रकृतिरूपेत्यर्थः ।। जनिमत्त्वादिति ।। एतेनाजैकत्वेत्यत्राजात्वैकत्वेति व्याख्यातम् ।। छागीत्वमिति ।। अजाशब्दस्य छाग्यां रूढत्वेन तदाकारस्य तेजोबन्नेष्वभावादिति भावः । छागीति ‘‘जातेरस्त्रीविषयादयोपधा’’दितीकारांतं साधु । आहचामरोपि ‘‘अजा छागी शुभच्छागबस्तच्छगलका अज’’ इति । सुधायां च ‘‘अजाशब्देन रूढत्वाच्छागी स्वीकर्तुमुचिते’’ति प्रयुक्तम् । एवं च परभाष्ये भामत्यां च ‘‘छागायां रूढ’’ इति ‘‘छागातोपकृष्टस्ये’’ति कल्पतरौ चाकारान्तप्रयोगोऽपभ्रंश इति सूचितम् । कल्पनेत्यनुवादः। आरोपो गौणीवृत्तिर्वेति तस्य व्याख्यानविकल्पः । सुधोक्तदोषमाह ।। पामरेति ।। कथं तर्हि सौत्रदृष्टान्त इत्यत आह ।। देवेति ।। इत्युक्तमिति ।। ‘‘उपजीव्यं प्रसिद्धार्थ’’मित्यादिना पूर्वत्रैवोक्तमित्यर्थः । अन्यथा ‘‘पामरजनमनोरञ्जने’’त्यादिनोक्तदोषस्याप्यत्रापातादिति भावः । अनन्यगत्यैवमाश्रीयत इत्यत आह ।। न चेति ।। योगस्येति ।। तत्सम्भवश्च वक्ष्यत इति भावः । श्रुतिषु कथमेवं कल्पनेत्यत आह ।। शरीरमिति ।। ननु प्रधानपक्षे लोहितादिशब्दानां गौणत्वं दोष इत्यत आह ।। लोहितेति ।। अजैकत्वादीत्यादिपदार्थं विवृण्वन्समाख्यानासम्भवं चाह ।। किञ्चेति ।। श्रुत्यन्तरेति ।। आथर्वणोपनिषद्गतश्रुत्यन्तरेत्यर्थः । अत एवोक्तं सुधायां ‘‘गौरनाद्यंतवती सा जनित्री भूतभाविनी । सितासिताच रक्ता च सर्वकामदुघा विभोरित्यादिश्रुतिसमाख्यया निर्णयोपपत्तेरिती’’ति भावः । गौरपि तेजोबन्नरूपैवास्त्वित्यत आह ।। साचेति ।।

अनाद्यन्तवतीत्वादिति ।। तेजोबन्नस्य जनिमत्त्वेनातथात्वादिति भावः । नन्वनाद्यंतवत्त्वादिति भवितव्यम् । कथमनाद्यंतवतीत्वादिति । ‘‘त्वतलोर्गुणवचनस्ये’’ति पुंवद्भावोक्तेरिति चेदुच्यते । अनुक्रियमाणरूपविनाशप्रसङ्गात् ‘‘खलर्थतृना’’मितिवदेवमुक्तम् । यद्वा गुणवचनग्रहस्य जातिव्यावृत्तिपरत्वेनाभियुक्तैर्व्याख्यानादनुकरणशब्दस्य चानुक्रियमाणशब्दगतजातिनिमित्तकत्वादेवागुणशब्दत्वेनापुंवद्भावादनाद्यंतवतीत्वादिति साधु । उक्तं च कैयटे ‘‘ऋलृ’’गिति सूत्रे ‘‘अनुक्रियमाणशब्दे या जातिस्समवेता तत्सम्बद्धमनुकार्यमनुकरणं प्रत्याययती’’ति । यदपि गौणत्वापत्तिरिति तदपि नेत्याह ।। लोहितेति ।। ‘‘ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढा’’मिति श्वेताश्वतर एव पूर्वं श्रवणादिति भावः । अविद्येत्याद्युत्तरार्धं व्यनक्ति ।। नापीति ।। द्वितीयपक्षे दोषान्तरमाह ।। ज्योतिरिति ।। तस्य सूत्रद्वयस्य । किं सिद्धान्ते प्रधानस्वरूपस्यैव निरास उत स्वातन्त्र्यस्येति विकल्प्य क्रमेण निराह ।। किञ्चेति ।। साङ्ख्येति ।। समयचरण इत्यर्थः । एतेन ‘‘किं चे’’त्यादिना ‘‘तेजोबन्नानि परमेश्वराधीनानि । अतो नातिव्याप्तिरिति चे’’दिति सुधावाक्यं विवृतं भवतीति ध्येयम् ।। तदुक्तमिति ।। एतेनोक्तं सुधावाक्यं तन्मूलमिति सूचितम् ।

चमससूत्रार्थः प्रागेव निरस्त इति ज्योतिस्सूत्रार्थानुपपत्तिमाह ।। ज्योतिरिति ।। उक्तेति ।। कल्पनाऽऽरोप इत्यादिग्रन्थ इत्यर्थः ।। केचित्त्विति ।। अजामेकामित्यादिमन्त्रोक्ताऽजा किं स्वतन्त्रप्रकृतिरुत ब्रह्माधीनप्रकृतिरिति संशये अजेत्यकार्यत्वश्रवणात्सृजमानामिति स्वतन्त्राख्यकर्तृशानचा परतन्त्रसृष्टिप्रतीतेश्च केवलप्रकृतिरिति प्राप्ते तन्निरासकतया चमससूत्रार्थः पररीत्यैवोक्त इत्यर्थः । एतेन सुधायां ‘‘कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्ट’’ इत्यादिना रामानुजमते ज्योतिस्सूत्रार्थमात्रानुवाददूषणयोरुक्तिश्चमससूत्रार्थस्य प्रागुक्ताद्वैतिमतदोषेण दुष्टत्वाशयेति सूचितम् । तदधीनग्रहणे को हेतुरित्यतो द्वितीयसूत्रार्थमन्वाह ।। ज्योतिरिति ।। इति मन्त्रे तैत्तिरीयगते । श्रुतप्रकाशोक्तमाशङ्कते ।। नन्विति ।। प्रकरणादिति ।। इतिकर्तव्यताकाङ्क्षारूपप्रकरणादित्यर्थः ।। सृष्टिप्रकरणादिति ।। बह्वीः प्रजा जनयन्तीमित्युत्तरत्र सृष्टिश्रवणात्सर्वं सृष्टिप्रकरणमेवेति ज्ञायत इत्यर्थः ।। अङ्गत्वेनैवेति ।। तृतीयाध्यायस्य तृतीयपादे ‘‘असंयुक्तं प्रकरणादिति कर्तव्यतार्थित्वा’’दिति चतुर्थाधिकरणसूत्रोक्तेतिकर्तव्यतापदप्रयोगात् भाष्ये च ‘‘यदिति कर्तव्यताकाङ्क्षिणस्सन्निधौ परिपूरणसमर्थमुपनिपतति वचनं तत्तेन प्रकृतेन सहैकवाक्यतां याती’’त्युक्तेरङ्गत्वेनैव समिदादीनामाकाङ्क्षितत्वादिह तूपादानत्वेनैवाकाङ्क्षितत्वमिति भावः ।

यथाहि परसिद्धान्ते प्रधाननिरासः श्रुत्यादिविरुद्ध इति दर्शयितुं त्वद्भाष्ये यच्छत्याद्युदाहृतं तद्विरोधादेव त्वत्सिद्धान्तोप्ययुक्त इत्याह ।। किं चेति ।। सुधोक्तं दोषान्तरमाह ।। किञ्चेति ।। एतेन प्रायो रामानुजरीतिमनुसरतः कस्यचिच्छैवस्य मतमपि प्रत्युक्तं ध्येयम् । तथाहि । किमजा स्वतन्त्रा शिवाधीना वेति सन्देहे जननाभावादिना साङ्ख्याभिमतेति प्राप्ते तन्निरासकतया यथा चमसशब्दस्य चम्यतेऽनेनेति योगेन भक्षणसाधनमात्रपरस्य शिरःपरत्वे यथा विशेषकमस्ति ‘‘इदं तच्छिर’’ इति तत्प्रकरणे वाक्यं एवमत्र प्रधानग्रहणे विशेषहेतुर्नेति चमससूत्रार्थमुक्त्वा ज्योतिरादिसूत्रस्य रामानुजोक्तमेवाभिधेयमुक्तम् । तदयुक्तम् । गौरनाद्यंतवतीति श्रुत्यन्तरोक्तप्रत्यभिज्ञानस्यैव विशेषहेतोस्सत्वात् । न च प्रकरणे स नास्तीति वाच्यम् । प्राकरणिकेनैव तेन भाव्यमित्यत्र नियामकाभावात् । द्वितीयार्थोप्ययुक्तः । ‘‘अणोरणीया’’नित्यत्रोक्ताजायाः कार्यत्वाप्रतीतेस्समिदादिवैषम्यस्य मूलग्रन्थ एव स्फुटत्वात् । यदत्रोक्तं शिवार्कमणिदीपिकायां यथा दर्शपूर्णमासप्रकरणे पठितं ‘‘ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमास्ये प्रायच्छ’’दिति वाक्यमिन्द्रवृत्तान्तमात्रविषयतया प्रतीयमानमपि प्रकरणानुरोधादिन्द्रेणाग्नीषोमाभ्यां दत्ततयोच्यमानस्यैकादश कपालपुरोडाशद्रव्यकयागस्यानुष्ठेयत्वेन प्रतिपादकमुपेयते तथेहापि पूर्वोत्तरपरामर्शात्सृज्यत्वेनोपेयत इति तन्न । ताभ्यामिति वाक्योक्तयागस्याप्राप्तत्वादिनाऽनुष्ठेयत्वोपगमेन

प्रकरणेन तथात्वोपगमाभावात् । प्रकरणस्याङ्गाङ्गिभाव एव प्रमाणत्वात् । अन्यथा यदाग्नेयादिवाक्येष्वपि यागस्याप्रत्यक्षत्वात्प्रकरणानुसरणं तत्रापि स्यात् । किं च सृष्टिप्रकरणेष्वपि तदुपादानत्वेनाप्युक्तिसम्भवेन सृज्यत्वासिद्धेः । सुधोक्तदिशाऽनेनैव चारितार्थ्येनाद्यसूत्रवैयर्थ्याच्च । कार्यत्वेपि शिवकार्यत्वस्य सर्वथासिद्धेश्च । ‘‘धातुःप्रसादान्महिमानमीश’’मितीशशब्दस्य प्रागुक्तदिशा विष्णुपरत्वात् । ‘‘किं च प्रकृते’’रित्यादिमूलोक्तदोषानुद्धाराच्चेति । अधिकार्यादिपदानां भिन्नार्थत्वमस्फुटत्वादाह ।। अधिकारीति ।। शब्दान्तरव्युत्पत्त्युक्तेर्भावमाह ।। ज्योतिष्टोमेति ।। ज्योतिरुपक्रमाधिकरणम् ।। २ ।।

चन्द्रिकाबिन्दुः

विशेषहेतोरिति ।। स्वस्याभिमतत्रिगुणात्मकप्रकृतिपरत्व इति शेषः । अजाशब्देन तेजोऽबन्नग्रहणे कथं लोहितशुक्लकृष्णत्वादिकमित्यत आह ।। अग्ने रोहितमिति ।। अविशेष इति ।। मन्त्रवर्णस्थस्य एष ह्यर्वाग्बिलश्चमस इत्यादिवाक्यस्य शिरःपदार्थविशेषपरत्वे निश्चायकस्य ब्राह्मणस्य सत्त्वेन विशेषो नास्तीति भावः ।। अविद्येति ।। यद्यपीयमजा तेजोऽबन्नादिरुपैवेति ज्योतिस्सूत्रेण सिद्धान्तितत्वात् इयमजा अविद्या वा इति विकल्पोऽनुचितः । तथापि परेण देवात्मशक्तिमित्यादितत्प्रकरणस्थवाक्यशेषेऽविद्यापरत्वाङ्गीकारात् तदेकवाक्यतापन्नतया अजामेकामित्यादिवाक्यमपि किमविद्यापरमिति विकल्पस्यावकाशः । अत एव वक्ष्यति स्वीकृता च त्वया शक्तिवाक्यस्याविद्यापरतेति ।

न च त्रिवृत्करणं दोषः । तथापि बहुत्वानिर्धारणादिति सुधावाक्यार्थमाह ।। न च त्रिवृत्करणादेकत्वमिति ।। त्रिवृत्कृतसमुदायानामिति ।। त्रिवृत्कृतः तेजस्समुदायकः त्रिवृत्कृतोऽप्समुदायकः त्रिवृत्कृतः पृथिवीसमुदायकः । एवं च पुनस्तेजोऽबन्नानां बहुत्वात् अजामित्येकवचनेनानुपपत्तिरिति तथापि बहुत्वानिर्धारणादिति सुधावाक्यार्थः ।। नन्वेतदिति आत्मत्वादिति उपपत्तिरूपबाधकमित्यर्थः । अन्यथा अविद्यमानारोपणसिद्धान्तकरणे ।। अनन्यगतिक इति ।। तेजोऽबन्नादिपरत्वं विनेति शेषः ।। योगस्येति ।। पूर्वपक्ष्यभिमतप्रकृताविति शेषः ।। योगेन मुख्यत्वसम्भव इति ।। पूर्वपक्ष्यभिमतप्रकृतावेवेति शेषः । ननु अजावशब्दस्य प्रकृतिपरत्वे कथं तत्र लोहितशुक्लकृष्णत्वादिकमुपपादनीयमित्यत आह ।। लोहितादिविशेषेणेति ।। ‘गुणे त्वन्याय्यकल्पना’ इति न्यायेन विशेषणपद एव गौणार्थकल्पनमुचितमिति भावः । कार्यावस्थायां तेजोऽबन्नादिकार्यावस्थायाम् ।। इयमजेति ।। श्वेताश्वतरोपनिषदि श्रुता अजा ब्रह्मकारणिका तैत्तिरीयशाखास्थब्रह्मकारणिकाज्जया प्रत्यभिज्ञानादिति भावः ।। अजामिति ।। मन्त्र इति ।। तैत्तिरीयशाखामन्त्रे । तदाकाङ्क्षितेति । सृष्ट्याकाङ्क्षितेत्यर्थः ।। स्वतः प्राप्तेति ।। स्वरसतः प्राप्तैकावस्थाविषयत्वपरित्यागेनेत्यर्थः । तन्निर्वाहाय ज्योतिस्सूत्रोक्तब्रह्मकार्यनिर्वाहाय ।।

पाण्डुरङ्गि

नन्वजाशब्दस्य प्रकारान्तरासम्भवादजात्वारोपोऽभ्युपगम्यत इत्यत आह ।। न चेति ।। ननु प्रकृतिपक्षे लोहितादिशब्दानां रजआदौ गौणत्वापत्तिरित्यत आह ।। लोहितादिविशेषणशब्दानामिति ।।

उक्तेति ।। कल्पनारोपो गौणीवृत्तिर्वेत्यादिनोक्तेत्यर्थः । अधिकारिनियोज्ययजमानशब्दानामेकार्थत्वेन पृथग्ग्रहणमनुपपन्नमित्यतो व्याख्याति ।। अधिकारित्वमिति ।। ज्योतिरुपक्रमाधिकरणम् ।। २ ।।