अन्येतु
परकीयोभयमतपरीक्षापूर्वकं अधिकरणोपसहार:
तात्पर्यचन्द्रिका
अन्येतु ।। अयमग्निर्वैश्वानर इत्यादिप्रयोगाज्जाठरभूताग्निदेवतारूपत्रयसाधारणस्य वैश्वानरशब्दस्य जीवेश्वरसाधारणस्यात्मशब्दस्य च ‘‘मूर्धैव सुतेजा’’ इति द्युमूर्धत्वादिना विशेषणादित्याद्यसूत्रार्थ इत्याहुः । तन्न । ‘‘सोऽयमात्मा चतुष्पात् स्थूलभुग्वैश्वानर’’ इत्यात्मन्यपि वैश्वानरशब्ददर्शनेन त्रितयसाधारण्योक्तययोगात् । जाठराग्नेरपि भूतजातित्वेन पृथगुक्तययोगाच्च । भाष्योक्तश्रुत्यादिभिरात्मशब्दस्य ब्रह्मण्येव मुख्यतया जीवसाधारण्याभावाच्च । स्वीकृतं च त्वयापि ‘‘द्युभ्वाद्यायतन’’मित्यत्रात्मशब्दस्य ब्रह्मासाधारण्यम् । अन्यथा ‘‘तमेवैकं जानथ आत्मान’’मित्यात्मशब्दस्य जीवशब्दत्वेन सूत्रेऽतच्छब्दादिति हेतुना जीवनिरासस्य स्वशब्दादित्यनेनोक्तात्मशब्देन ब्रह्मत्वसाधनस्य चायोगात् ।
केचित्तु । जाठरभूताग्निदेवतेश्वररूपचतुष्टयसाधारणस्य वैश्वानरशब्दस्य मुमुक्षुभिरौपमन्यवप्रभृतिभिर्जिज्ञास्यमानत्वादिभिर्ब्रह्मलिङ्गैर्विशेषणादित्यर्थ इत्याहुः । तन्न । जाठरस्य पृथगुक्तययोगस्योक्तत्वात् । ‘‘आत्मानं वैश्वानर’’मिति साक्षाद्वैश्वानरविशेषणात्मश्रुतिग्रहणसम्भवे प्राकरणिकलिङ्गरूपविशेषेणग्रहणायोगाच्च ।। यच्चोक्तमन्यैः ।। ‘‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशश्श्रोत्र’’मित्यादिनेश्वरे स्मर्यमाणं त्रैलोक्यात्मकं रूपं मूलभूतां श्रुतिमनुमापयत्समानविषयां ‘‘मूर्धैव सुतेजा’’ इत्यादिवैश्वानरविद्यामनुमापयद्वैश्वानरत्वे लिङ्गमिति द्वितीयसूत्रार्थ इति । तन्न । ‘‘चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्र’’मित्यादिश्रुत्यन्तरस्याप्युक्तस्मृतिमूलत्वसम्भवेन वैश्वानरविद्यायास्तन्मूलत्वासिद्धेः । ‘‘अहं वैश्वानर’’ इति साक्षादीश्वरस्य वैश्वानरत्वबोधकस्मृतौ सत्यां बकबन्धप्रयासायोगाच्च ।
केचित्तु । द्युप्रभृतिपृथिव्यन्तं रूपं श्रुतिस्मृतिष्वीश्वरेऽभिज्ञातमिह प्रत्यभिज्ञायमानं वैश्वानरस्येश्वरत्वेऽनुमानं लिङ्गमित्यर्थ इत्याहुः । तन्न । स्मर्यमाणशब्दस्य प्रत्यभिज्ञायमानार्थे स्वारस्यभङ्गात् । ‘‘अहं वैश्वानर’’ इत्यादिषूक्तस्येह ‘‘आत्मानं वैश्वानर’’ मिति श्रुतिप्रत्यभिज्ञासम्भवे लिङ्गप्रत्यभिज्ञायोगाच्च । यच्चोक्तमन्यैः । ‘‘मनो ब्रह्मेत्युपासीते’’त्यादिवज्जाठरे वैश्वानर ईश्वरदृष्ट्युपदेशोवा ‘‘मनोमयः प्राणशरीर’’ इत्यादिवद्वैश्वानरोपाधेरीश्वरस्य द्रष्टव्यत्वेनोपदेशोवा तृतीयसूत्रस्थतथादृष्ट्युपदेशशब्दार्थ इति । तत्र न तावदाद्यः । वैश्वानरस्य मनोवत्प्रतीकत्वे मनःशब्दस्येव वैश्वानरशब्दस्यापि ब्रह्मणि समन्वयोक्तययोगात् । वैश्वानरज्ञानेन सर्वपाप्मप्रदाहश्रवणायोगाच्च । अत एव न द्वितीयः । न हि सोपाधिकस्योपासनेन ज्ञानेन वा सर्वपाप्मदाहः ।
यच्चोक्तं पुरुषविधशब्देन द्युमूर्धत्वादिकमुच्यत इति । तन्न । त्वन्मते विशेषादित्यत्रापि द्युमूर्धत्वादेरुक्तत्वेन पुनरुक्तेः । यच्चोक्तं विनैव जाठराग्नेः प्रतीकोपाधिकल्पनाभ्यां साक्षात्केवलस्य ब्रह्मण उपासनास्वीकारेऽप्यविरोधः । केवलेऽप्यग्निवैश्वानरशब्दावग्रणीत्वादिगुणयोगेन वर्तेते इति । तन्न । साक्षाच्छब्दस्य कैवल्यार्थतायाः क्लिष्टत्वात् । अतीतानामाकाशादिशब्दानामागामिनामाक्षरादिशब्दानामपि यौगिकत्वापत्त्याऽस्माकं मत इव समन्वयाध्यायस्य तत्तच्छब्दप्रवृत्तिनिमित्तगुणपूर्त्यर्थत्वापाताच्च ।
यच्चोक्तं ब्रह्मपक्षे प्रादेशमात्रश्रुतिरयुक्तेति शङ्कानिरासार्थमभिव्यक्तेरित्यादि सूत्राणीति । तन्न । ‘‘अर्भकौकस्त्वान्नेति चे’’दित्यनेन अत्रापि ‘‘तथादृष्ट्युपदेशा’’ दित्यनेन चास्याः परिहृतत्वादिति दिक् । अत्रापि परपक्षेऽपि वैश्वानरस्य जीवत्वं निषिध्य ब्रह्मेत्युक्तेस्तद्भेदार्थतैव ।। केचित्तु । कथमपरिच्छिन्नस्य प्रादेशमात्रत्वमिति शङ्कानिरासकमभिव्यक्तेरिति सूत्रम् । उपासनार्थं प्रादेशमात्रत्वेनाभिव्यक्तेरिति च तस्यार्थः । मूर्धप्रभृत्यवयवैः पुरुषविधत्वोक्तिः किमर्थेति शङ्कानिरासकमनुस्मृतेरिति सूत्रम् । पुरुषविधत्वेनानुस्मृत्यर्थं तदुक्तिरिति च तस्यार्थः । कथमुरःप्रभृतीनां वेद्यादित्वोक्तिरिति शङ्कानिरासकं सम्पत्तेरिति सूत्रम् । प्राणाहुतेरग्निहोत्रत्वसम्पादनायोरःप्रभृतीनां वेद्यादित्वोक्तिरिति च तस्यार्थ इत्याहुः । तत्राभिव्यक्तयादिसूत्राणां भिन्नविषयत्वादाश्मरथ्यादिपदसूचितविकल्पो न स्यात् । प्रतिसूत्रं साध्याध्याहारश्च स्यात् ।। टीकाक्षरार्थस्तु ।। गतिसाधनत्वादरतिः पाद इति ।। लोके गमनेनारतिदर्शनाद्रतिविरुद्धगतिसाधनत्वात्पादोऽरतिशब्दार्थ इत्यर्थः ।। प्रागुक्तैवानुपपत्तिरिति ।। वैदिकस्याग्निसूक्तादिव्यवहारस्याग्न्यादि प्रतिपादकत्वादिनिमित्तत्वेन मुख्यत्वांगीकारे सर्वनामेत्यादिश्रुतिविरोधादिरूपप्रागुक्तानुपपत्तिरेव व्यवहारस्याभिव्यक्तयादिनिमित्तकत्वेनोपचरितत्वाङ्गीकारे हेतुरित्यर्थः । भाष्योदाहृतश्रुतावरमित्यस्य सम्यगित्यर्थ इति तत्वप्रदीप एवोक्तमिति ।।
इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना विरचितायां श्रीमद्भाष्यटीकाया विवृतौ तात्पर्यचन्द्रिकायां प्रथमाध्यायस्य द्वितीयः पादः ।।१,२।।
प्रकाशिका
अन्येत्विति ।। ‘‘आत्मानं वैश्वानरमुपास्त’’ इत्यत्र वैश्वानरः किं जाठराग्निर्भूताग्निर्वा दिव्यदेवतावा जीवात्मावा परमात्मावेति संशये ‘‘अयमग्निर्वैश्वानरो योऽयमन्तःपुरुष’’ इति जाठराग्नौ ‘‘विश्वस्मा अग्निं भुवनाय देवा वैश्वानर’’मिति बाह्ये भूताग्नौ ‘‘वैश्वानरस्य सुमतौ स्यामे’’ति देवतायां प्रयोगाद्वैश्वानरशब्दस्य त्रितयसाधारण्याज्जाठराग्न्यादिरेव वा आत्मशब्दस्य जीवे रूढत्वात्तद्बलाज्जीव एव वेति प्राप्ते ‘‘एतस्यात्मनो वैश्वानरस्य द्यौर्मूर्धैवे’’त्यादिना द्युमूर्धत्वादिश्रवणात् ‘‘कोन आत्मा किं ब्रह्मे’’ति ब्रह्म शब्दश्रवणात्तयोश्चान्यत्रायोगाद्वैश्वानरशब्दस्य विश्वश्चासौ नरश्च विश्वनरः सर्वात्मकः पुरुष इत्यर्थः । विश्वनर एव वैश्वानर इति योगवृत्त्या ब्रह्मणि सम्भवादात्मशब्दस्य जीववद्ब्रह्मण्यपि वृत्तेर्वैश्वानरो ब्रह्मेति सिद्धान्त इत्याहुः । तत्र सूत्रार्थनिरासेनैतन्निरस्तमिति भावेन तमनूद्य निराह ।। अयमिति ।। जाठरेति ।। अन्यथा अत एव न देवताभूतं जाठरश्चेति निर्देशः स्यादिति भावः । जीवकोटेरप्यनुत्थानमाह ।। भाष्योक्तेति ।। ‘‘अयमात्मा ब्रह्म अनात्तत्वादनात्मान ऊनत्वाद्गुणराशित’’ इत्यादिभिरित्यर्थः । स्वीकृतत्वमेव अव्युत्पन्नं प्रति विपक्षे बाधकोक्तयाऽऽह ।। अन्यथेति ।। केचित्त्विति ।। वैश्वानरः किं परमात्मेति शक्यनिर्णय उत नेति संशये जीवपरसाधारणात्मशब्दसत्त्वेऽप्यात्मशब्दस्य ‘‘वैश्वानरमात्मान’’मिति जीवेऽप्रसिद्धवैश्वानरशब्दविशेषितत्वेन जीवविषयत्वशङ्कानुदयात् जाठरभूतदेवतासु प्रागुक्तरीत्या प्रयोगदर्शनात् परमात्मनि च ‘‘तदात्मन्येव हृदयेऽग्नौ वैश्वानरे प्रास्य’’दिति प्रयोगदर्शनाद्वैश्वानरशब्दस्य जाठरादिचतुष्टयसाधारण्यात् उपक्रमगतब्रह्मात्मशब्दयोर्मिथः प्रतिबद्धत्वेनानिर्धारकत्वादन्नादनरूपफलस्य च सर्वत्रोपपन्नत्वादशक्यनिर्णय इति प्राप्ते ‘‘कोन आत्मा किं ब्रह्मे’’ति सर्वेषां जीवानामात्मभूतं ब्रह्म किमिति प्रश्नकरणादुत्तरे च ‘‘आत्मानं वैश्वानर’’मिति ब्रह्मशब्दस्थाने सर्वत्र वैश्वानरशब्दप्रयोगाच्चायं वैश्वानरः परमात्मेति निर्णेतुं शक्यत एव । चतुष्टयसाधारणस्यापि वैश्वानरशब्दस्यास्मिन् प्रकरणे मुमुक्षुभिरौपमन्यवादिभिर्जिज्ञास्यत्वसर्वात्मत्वादिभिर्ब्रह्मधर्मैर्विशेष्यमाणत्वादित्यर्थ इत्याहुरित्यर्थः ।। आत्मश्रुतीति ।। तस्याब्रह्मासाधारण्योपपादनस्य त्वन्मतेऽपि तुल्यत्वादिति भावः । मतद्वयेऽपि द्वितीयादिसूत्रार्थान् क्रमेणानूद्य निराह ।। यच्चोक्तमन्यैरिति ।। इत्यादिनेति ।।
द्यौर्मूर्धानं यस्य विप्रा वदन्ति खं चैव नाभिं चन्द्रसूर्यौ च नेत्रे ।
दिशश्श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिंत्यात्मा सर्वभूतप्रणेता ।।
इत्यादिरादिपदार्थः ।। मूलभूतामिति ।। स्मृतीनां श्रुतिमूलत्वस्य पूर्वतन्त्रे स्मृतिनये व्यवस्थापनात्तुल्यार्थाया एव मूलत्वादत्र च द्युप्रभृतीनां वैश्वानरस्य मूर्धाद्यवयवत्वेन ‘‘मूर्धैव सुतेजा’’ इत्यादिनोच्यमानत्वेन तुल्यार्थत्वादेतद्वाक्यमनुमापयति । स्मृतिश्च ब्रह्मविषयेति मूलभूतश्रुतेरपि तथात्वं गमयिष्यतीत्यर्थः ।। श्रुत्यन्तरस्यापीति ।। स्मृतिवचनं हि स्वमूलत्वेन श्रुतिं कल्पयति । न तु वैश्वानरविद्यामेव कल्पयितुं शक्नोति । ‘‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशश्श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्य्भां पृथ्वी’’त्याथर्वणवाक्यमूलत्वेनापि सम्भवेन कल्पकस्यान्यथासिद्धत्वादित्यर्थः । ननु श्रुतावग्निर्मूर्धेति श्रूयते । स्मृतौ च द्यौरिति । तथा च कथं तन्मूलत्वमिति चेन्न । ‘‘असौ वाव लोकोऽग्निर्गौतमे’’ति श्रुतेरग्नेर्द्युशब्दपर्यायत्वादिति तात्पर्यात् । न केवलं तेन वैश्वानरविद्याया ब्रह्मविषयत्वासिद्धिः । गतिसम्भवे क्लिष्टकल्पनायोगश्चेत्याह ।। अहमिति ।
केचित्त्विति ।। सूत्रे इतिशब्दः प्रकारवचनः । अनुमानशब्दश्श्रुतिलिङ्गवाक्येति श्रुत्यादिसहपठितासाधारणधर्मरूपलिङ्गपरः । स्मर्यमाणशब्दः प्रत्यभिज्ञापरः । तथाच ‘‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ द्यौर्मूर्धानं यस्य विप्रा वदन्ती’’त्यादिश्रुतिस्मृतिषु इति इत्थम्भूतं द्व्यादिरूपं ईश्वरेऽवगतं इह वैश्वानरविद्यायां ‘‘मूर्धैवसुतेजा’’ इत्यादिना स्मर्यमाणं प्रत्यभिज्ञायमानं लिङ्गं स्यात् । श्रुत्यादाववगतं द्युप्रभृत्यात्मकत्वरूपं लक्षणं लिङ्गमिह प्रत्यभिज्ञायत इत्यर्थः । अनुस्मृतेश्चेत्यत्रानुस्मृतिशब्दस्य प्रत्यभिज्ञापरत्वे सूत्रकारैः प्रयुक्तत्वा’’दिति श्रुतप्रकाशोक्तेः कथमेवं दूषणमित्यतस्स्वारस्येत्युक्तम् । उक्तरीत्या स्वारस्यसम्भवे त्यागायोगात् । सूत्रकारोक्तिस्त्वनुशब्दबलाद्वा स्वारस्यासम्भवाद्वा प्रत्यभिज्ञार्थत्वाशयेति युक्तमिति भावः ।। अहमिति ।। श्रुत्यादाववगतं द्युप्रभृत्यवयवरूपं लिङ्गमिह प्रत्यभिज्ञायत इत्युक्तिवत् ‘‘अहं वैश्वानरो भूत्वे’’ति स्मृतौ विष्णाववगतवैश्वानरश्रुतिरिह प्रत्यभिज्ञायत इत्यपि वक्तुं शक्यत्वेन लिङ्गाद्बलवच्छतिप्रत्यभिज्ञानोक्तिरेव ज्यायसीति तत्त्यागायोगात् । तथाच स्मर्यमाणा श्रुतिरित्येव सूत्रणं स्यात् । लघु चैवं सति सूत्रं स्यादित्यर्थः । किं चानुमानशब्दस्य लिङ्गपरत्वे स्मर्यमाणं लिङ्गमित्येव निर्देशस्स्यात् । लाघवादित्यपि ध्येयम् । शब्दादिभ्य इति सूत्रे शङ्काभागार्थस्याविरोधात् सिद्धान्तांशार्थमनूद्य निराह ।। यच्चेति ।। अत एवेत्याद्युक्तं व्यनक्ति ।। नहीति ।। सर्वपाप्मेति ।। ‘‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्त’’ इत्युक्तब्रह्मज्ञानफलस्य प्रतीकज्ञानादसिद्धेरिति भावः ।। पुरुषविधशब्देनेति ।। यद्यपि परभाष्ये पुरुषमपि चैनमिति सूत्रपाठ उक्तः । तथापि स पाठोऽप्रामाणिक इति भावेनायमेव पाठोऽनूदितः । ये पुरुषविधमिति पठन्ति तेषां मते द्युमूर्धत्वादिपृथिवीप्रतिष्ठितत्वान्तं यत्पुरुषविधत्वं तद्गृह्यत इत्युक्तेरिति भावः ।। विशेषादितीति ।। आद्यसूत्रेऽपीत्यर्थः । अत एवेति सूत्रार्थो नातीवविरुद्ध इत्युपेक्ष्य साक्षादपीति सूत्रार्थं निराह ।। यच्चोक्तमिति ।। पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिकोवा परमेश्वर उपास्य इत्युक्तम् । इदानीं विनैव प्रतीकोपाधिकल्पनाभ्यां केवलस्यैवाग्निवैश्वानरशब्दवाच्यत्वमुच्यत इत्युक्तमित्यर्थः ।। क्लिष्टत्वादिति ।। अव्यवधानार्थत्वात्तस्येत्यर्थः ।। गुणपूर्तीति ।। तथाचैतत् सूत्रं त्वन्मतप्रतिकूलमिति भावः । किञ्च तथादृष्ट्युपदेशादित्यनेनैव शङ्कायाः परिहृतत्वात् साक्षात्तत्प्रतिपादकत्वोक्तावतिशयाभावात् प्रतिकूलत्वाच्च न वाच्यमेवैतदित्यपि ध्येयम् ।। यच्चोक्तमिति ।। यस्त्वेतं प्रादेशमात्रमिति श्रुतप्रादेशमात्रश्रुतिः कथमित्याशङ्कायाम तिमात्रस्यापीश्वरस्य प्रादेशमात्रपरिमाणहृदयादिस्थानेषूपासकानामभिव्यज्यमानत्वाद्वा हृदयादावनुस्मर्तव्यत्वाद्वा ‘‘प्रादेशमात्रमिव ह वै देवाः संविदिता अभिसंपन्नास्स्म’’ इति श्रुत्या प्रादेशमात्रत्वसम्पत्त्यावा प्रादेशमात्रत्वं युक्तमित्यर्थः ।
हृद्यपेक्षयेत्यग्रेतनेनापि परिहृतत्वं ध्येयमिति भावेनाह ।। इतिदिगिति ।। यद्वा केषांचिन्मते शब्दादिभ्य इत्यादिसूत्रार्थदूषणं कुतो न कृतमित्यत आह ।। इतिदिगिति ।। तथाहि । तत्सूत्रमग्न्यादिशब्दादिना जाठराग्नेर्वैश्वानरत्वशङ्कानिरासकमित्युक्तमयुक्तम् । जाठरस्य भूतत्वेन पृथक्शङ्कायोगात् । अत एवेति सूत्रे तन्निरासादावश्यवक्तव्यपरसाधकसावकाशत्वोक्तया बाधकोद्धारपरत्व सम्भवेऽन्यथावर्णनायोगाच्च । पुरुषमपीति पाठस्यासांप्रदायिकत्वात् । अग्निशब्दस्याग्रनयनादिना भगवद्वाचित्वं वक्तुं साक्षादपीति सूत्रमित्यपि न । शब्दमात्रस्य विष्णुवाचित्वेऽन्यत्र व्यवहारविरोधरूपबाधकोद्धारत्वसम्भवेऽन्यथोक्तययोगादित्यादि ज्ञेयमिति भावः । अत्रापि एतदधिकरणेऽपीत्यर्थः ।। अपरिच्छिन्नस्येति ।। अभिविमानपदोक्तस्येत्यर्थः । अभिव्यक्तेः उपासकाभिव्यक्तयर्थम् । तद्बुद्धिस्थतयेति यावत् । द्युप्रभृतिप्रदेशसम्बन्धिन्यामात्रया परिच्छिन्नत्वरूपं प्रादेशमात्रत्वमित्याश्मरथ्यो मन्यत इत्यर्थः । अनुस्मृत्यर्थं उपासनार्थम् ।। विकल्प इति ।। अस्मन्मतरीत्या सूक्तव्यवस्थारूपैकार्थ एव नानानिमित्तोक्तया ‘‘लोपश्शाकल्यस्ये’’त्यादाविव मुनिग्रहणसूचितविक्ल्पो युज्यते । नान्यथेत्यर्थः ।। साध्येति ।। अभिव्यक्तेरित्यत्र प्रादेशमात्रत्वमिति अनुस्मृतेरित्यत्र पुरुषविधत्वमिति संपत्तेरित्यत्रोरःप्रभृतीनां वेदित्वाद्युपदेश इत्यध्याहार इत्यर्थः । यद्यप्यत्र भाष्यदिशाऽभिव्यक्तेर्निमित्तादग्न्यादिसूक्तनियम इत्याश्मरथ्य इत्यर्थप्रतीत्या सिद्धान्तेऽप्यध्याहारस्साध्यस्याविशिष्ट इत्यतः प्रतिसूत्रमित्युक्तम् । अत एव भाष्ये प्रतिसूत्रमेतदेव साध्यमुक्तम् । तथा चैकत्राध्याहृतमेवानुवर्तिष्यते सर्वत्रेति भावः । यद्वा अभिव्यक्तेस्साक्षादप्यविरोध इत्याश्मरथ्य इत्यादिरूपेण प्रतिसूत्रमन्वयः । साक्षादपि अनन्ययोगेन मुख्यवृत्त्यैव ब्रह्मणस्सर्वसूक्तप्रतिपाद्यत्वेपि । अग्न्यादिसूक्तव्यवस्थाया अविरोध इत्याश्मरथ्यादिर्मन्यते । अभिव्यक्तयादेर्निमित्तादित्येवंरूपेणार्थोपपत्तेरनुवृत्तस्य पर्यवसितोक्तिर्भाष्ये सूक्तनियम इति । अतोऽस्माकं न क्वाप्यध्याहारः तव तु प्रतिसूत्रमिति भावः । यत्तूक्तरीत्या वैश्वानरशब्दस्य जाठरादिषु चतुर्षु साधारणस्य शिवासाधारणब्रह्मात्मादिशब्दैर्विशेषणाच्छिव एव वैश्वानर इति तदप्येतेन निरस्तम् । जाठरस्य पार्थक्यायोगादेरुक्तत्वात् । ब्रह्मात्मादिशब्दस्य विष्ण्वेकनिष्ठताया भाष्यादौ बहुधा प्रतिपादनात् । ‘‘अहं वैश्वानर’’ इति स्मृतिविरोधात् । पुरुषसूक्तविरोधाच्च । पुरुषसूक्तवैष्णवतायाश्च भाष्ये स्पष्टत्वात् । सूत्रार्थनिरासप्रकारस्तु केषाञ्चिन्मत इव ध्येयः । अनतिभिन्नार्थत्वात्सूत्राणामिति । शब्दादिभ्य इति सूत्रे ‘‘मूर्धानं दिवो अरतिं पृथिव्या’’ इत्यस्यामृचि गतिसाधनत्वादरतिः पादः पृथिव्याः कारणमिति व्याख्यातम् । तद्व्यनक्ति ।। गतीति ।। अरतिशब्देन गतिरुच्यते । पादस्य तत्साधनत्वात् कार्यगमनेन तत्साधनं पादो लक्ष्यते । अरतिशब्दार्थो गतिः कथमित्यतोऽवयवार्थेनेत्याह ।। लोक इति ।। नञो विरुद्धार्थत्वाद्रतिविरुद्धाऽरतिरिति गतिरेवोच्यत इति । तत्वप्रदीपे तु न रतिर्येनेति सोऽरतिः पाद इत्यर्थ इत्युक्तम् । सम्पत्तेरिति सूत्रव्याख्यायां ‘‘अत्र व्यवहारस्योपचरितत्वाङ्गीकारे प्रागुक्तैवानुपपत्ति’’रित्येतद्दुर्गमत्वाद्व्यनक्ति ।। वैदिकस्येति ।। ‘‘विश्वं हरिमारादवरमुपास्त’’ इति श्रुतावरमित्यस्यार्थाप्रतीतेराह ।। भाष्येति ।। एवेति टीकाकारानुक्तेर्निमित्तमेतदिति सूचितम् । शिष्टमुपन्यासमुखेन विशदीकृतमिति भावः । पेटिकासङ्गतिस्तु प्रागेवोक्तेति ।।
इति श्रीमत्सर्वतन्त्रस्वतन्त्रसुधींद्रगुरुपादशिष्यराघवेन्द्रयतिकृते
चन्द्रिकाप्रकाशे प्रथमाध्यायस्य द्वितीयः पादः ।।
पाण्डुरङ्गि
जाठराग्नेरपि भूतजातित्वेनेति ।। भूतताविशेषाद्भौमदिव्यादिवत् जाठरस्याप्युपादानं कार्यम् । जाठरत्वरूपावान्तरोपाधिविवक्षया तस्य पृथगुपादाने भौमादीनामपि भौमत्वादिधर्मोपाधिना पृथग्ग्रहणापत्त्याऽर्धजरतीयानुपपत्तेरिति भावः ।। उक्तत्वादिति ।। जाठराग्नेरपि भूतजातित्वेन पृथगुक्तययोगादित्यनेनोक्तत्वादित्यर्थः । वैश्वानरोपाधेरिति बहूव्रीहिः ।। गतिसाधनत्वादरतिरिति ।। रतिशब्दस्य रमणे नञश्च विरोधे प्रसिद्धत्वात् क्लृप्तप्रसिद्धिबललब्धलक्षणाऽपि शक्तितुल्येति भावः । अत्र टीकायामासन्नित्यस्यास्यतयेत्युक्तिः पद्दन्नित्यादिनाऽऽस्यशब्दस्यासन्नादेशविधानादासन्निति सुपां सुलुगिति विभक्तिलोपविधानाच्चेति ज्ञातव्यम् ।। प्रागुक्तैवेति ।। विष्णुसूक्तमित्यादौ सर्वत्र देवतासम्बन्धेनैव सूक्तव्यवहारात् प्रतिपाद्यप्रतिपादकसम्बन्ध एव मुख्यः सूक्तादिव्यवहारप्रयोजक इत्यभिप्रेत्याग्न्यादिसूक्तेषु मुख्यप्रयोजकस्य बाधादुपचारत्वं सूक्तानामुक्तम् । भावबोधे तु षष्ठ्यर्थस्य सम्बन्धस्यैवाग्नेः सूक्तमित्यादौ निमित्तत्वात् । एकशतं षष्ठ्यर्थ इति महाभाष्योक्तरीत्या सर्वेषामविशेषाद्देवदत्तस्य पुत्रः देवदत्तस्य पौत्रः देवदत्तस्य नप्तेत्यादाविव परंपरासम्बन्धस्यापि मुख्यत्वमभिप्रेत्य सूक्तानां मुख्यार्थतोक्तेति ज्ञेयम् ।।
इति श्रीमत्तात्पर्यचन्द्रिकावाक्यार्थविवृतौ श्रीमद्विद्याधीशतीर्थपूज्यपादानां शिष्येण केशवभट्टारकेण विरचितायां प्रथमाध्यायस्य द्वितीयपादः समाप्तः ।। २ ।।
।। इति वैश्वानराधिकरणम् ।। ७ ।।