एवमधिकरणद्वयेनाब्रह्मणोऽसम्भवदुत्पत्तिकस्यापि..
असम्भवाधिकरणम्
तात्पर्यचन्द्रिका
ब्रह्मण उत्पत्तिर्नास्तीति निरूपणम्
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ।।
एवमधिकरणद्वयेनाब्रह्मणोऽसम्भवदुत्पत्तिकस्यापि नभःप्रभृतेः सर्वस्योत्पत्तौ श्रुत्योक्तायां तर्हि तद्वदेव ब्रह्मणोऽप्युत्पत्तिरस्त्विति पूर्वपक्षोदयात्सङ्गतिः । अत्रोक्तं ब्रह्मणः सर्वस्रष्टृत्वादिकं ब्रह्मण उत्पत्तिमत्त्वश्रुतिविरुद्धं न वेति चिन्ता । तदर्थं ‘‘असतः सदजायते’’ति श्रुतिः किमसतः सकाशाद्ब्रह्मण उत्पत्तिपरा किं वा ब्रह्मणः सकाशाद्वायोरुत्पत्तिपरेति । तदर्थं ब्रह्मानुत्पत्तिश्रुतिरपि किं वाय्वाद्यनुत्पत्तिश्रुतिवत्पराधीनविशेषावाप्तिलक्षणोत्पत्तिसद्भावेऽपि स्वरूपोत्पत्तिमात्रस्य निषेधिका किं वा पराधीनविशेषावाप्तिरूपोत्पत्तेरपीति । ‘‘असदिति चे’’दित्यत्र ब्रह्मकारणत्वश्रुतेः ‘असतः सदजायते’ त्यादिप्रागभावकारणत्वश्रुतिसंवादियुक्तिविरोधो निरस्तः । ‘‘नासतो दृष्टत्वा’’दित्यत्र समयप्राप्तं शून्यस्य हेतुत्वं निरस्तम् । अत्र तु तस्या एव ‘‘असतः सदजायते’’त्यादिकया ब्रह्मणोऽसत्कार्यत्वश्रुत्यैव विरोधो निरस्यत इति भेदः ।। अनादितया समस्येति ।। देहानादित्वादिना चित्प्रकृतिसमस्येत्यर्थः । अनेन ‘‘चित्प्रकृतेश्च सममेत’’दिति न्यायविवरणोक्ता पूर्वपक्षयुक्तिर्विवृता ।। स्वातन्त्र्याख्यो हेतुरिति ।। ‘‘सत्त्वं स्वातन्त्र्यमुद्दिष्ट’’मिति भारतोक्तेरिति भावः । अनेन न्यायविवरणोक्तः स्वातन्त्र्यरूपो हेतुः सूत्रारूढो दर्शितः ।। महत्त्वादिसत् गुणत्वादिति ।। ‘‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते’’ इति गीतोक्तेरिति भावः ।। एकैवेत्यर्थ इति ।। यद्यविभिन्नेत्यस्य भेदरहितेत्यर्थः स्यात्तर्हि तत्प्रतियोगिसमर्पकस्य ‘‘भेदैरपि विभा(व्य)ष्यते’’ इत्यस्य भेदोऽर्थः स्यात् । न च तद्युक्तम् । निर्भेदत्वात् । भेदैरिति बहुवचनायोगाच्च । एकेत्यर्थत्वे तु भेदैरित्यस्यापि द्वित्वत्रित्वादिसङ्ख्याभिरित्यर्थो भवति । तथा च निर्भेदेऽपि द्वित्वादिसङ्ख्यानां सत्त्वान्न दोष इति भावः ।
प्रकाशिका
‘‘असम्भवदुद्भवयोर्नभोनभस्वतोरुत्पत्ता’’विति टीकायां द्विवचनमुपलक्षणमिति भावेन तत्सूचितां सङ्गतिमाह ।। एवमिति ।। सर्वस्येति ।। ‘‘प्रकृतिः पुरुष’’ इत्यादि प्रागुक्तानुव्याख्यानात् ‘‘एवं सर्वस्यापि ब्रह्मेतरस्योत्पत्तौ सिद्धाया’’मित्युत्तराधिकरणटीकोक्तेश्चेति भावः । सङ्गतिः अवसरप्राप्तिरूपाऽपवादरूपा वेत्यर्थः । ‘‘ब्रह्मात्र विषय’’ इत्यादिटीकां व्यनक्ति ।। अत्रोक्तमिति ।। अत्राद्या चिन्ता ‘‘असम्भव’’ इति सूत्रांशसूचिता । द्वितीया ‘‘अनुपपत्ते’’रित्यंशसूचिता । तृतीया त्ववधारणार्थकतुशब्दसूचिता । सदेव सोम्येत्याद्यनुत्पत्तिश्रुतिः । पौनरुक्तयं निराह ।। असदिति चेदित्यत्रेति ।। सत्त्वमिति ।।
सत्त्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे ।
अस्वातन्त्र्यात्तदन्येषामसत्त्वं विद्धि भारत ।।
इत्येकादशस्कन्धतात्पर्योक्तं वाक्यम् ।। न्यायेति ।। ‘‘न च सतः पराधीनविशेषवत्त्वम् । स्वातन्त्र्या’’दित्युक्त इत्यर्थः । ‘‘एकैवे’’ति व्याख्याने बीजं वदन्नेव ‘‘भेदै’’रित्यस्याप्यर्थमाह ।। यदीति ।।
चन्द्रिकाविवृतिः
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ।। अब्रह्मणस्तु ब्रह्मण इति उक्तयाऽब्रह्मविषयविचारानन्तरं ब्रह्मविषयविचारस्यावसरसङ्गतिः सूचिता तर्हि तद्वदेवेत्यनेन पूर्वाधिकरणसिद्धान्तन्यायेन पूर्वपक्षोत्था-नादुपजीव्यादिसङ्गतिः सूचितेत्यभिप्रेत्याह ।। एवमधिकरणद्वयेनेति ।। चिन्तामुखेनैव पूर्वपक्षसिद्धान्त-निष्कर्षं दर्शयति ।। अत्रोक्तं ब्रह्मण इत्यादिना ।। एवमुत्तराधिकरणेष्वपि चिन्ताग्रन्थ एव निष्कर्षो ज्ञातव्यः ।। गतार्थतां परिहरति ।। असदिति चेदित्यत्रादिना ।। अनादितया समस्येत्यनेन टीकायां परमात्मनः परानित्यनित्यपरनित्यकोटिप्रविष्टैः जीवमुख्यप्राणश्रीतत्त्वैः सह परमात्मन अनादित्त्वं परमात्मनि सममिति प्रतीयेत तच्चायुक्तम् । न तावत्परमात्मजीवगतमनादित्वं समम् । परमात्मवत् जीवे ज्ञानदेहाभ्यामनादित्वाभावात् । नापि मुख्यप्राणपरमात्मगतमनादित्वमेकप्रकारम् । न परमात्मवत् मुख्यप्राणे देहानादित्त्वाभावादित्याशङ्क्याह ।। देहानादित्त्वादिनेति ।। भावबोधे तु प्रकारान्तरमुक्तम् । तत्पूर्वोक्ततानभोनभस्वतोरित्यादिदृष्टांता नुसारित्वाद्युक्तमेवेति स्वामिनः ।। बहुवचनायोगाच्चेति ।। इच्छादिभेदेन विभाव्यत इत्येव वदेदिति भावः ।। निर्भेदेऽपि द्वित्वादिसंख्यानामिति ।। एकस्मिन्नपि द्वित्त्वादिसंख्या गुहां प्रविष्टावित्यत्र समर्थितेति भावः ।।